08.022
Core and Pancharatra: Karna gives lame excuses for his not having encountered Arjuna till date. Then he compares the strengths and weaknesses between him and Arjuna and recommends his chariot to be driven by Shalya, to become superior in comparison to Arjuna.
धृतराष्ट्र उवाच॥
स्वेन च्छन्देन नः सर्वान्नावधीद्व्यक्तमर्जुनः। न ह्यस्य समरे मुच्येतान्तकोऽप्याततायिनः ॥८-२२-१॥
पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत्। एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् ॥८-२२-२॥
एको निवातकवचानवधीद्दिव्यकार्मुकः। एकः किरातरूपेण स्थितं शर्वमयोधयत् ॥८-२२-३॥
एकोऽभ्यरक्षद्भरतानेको भवमतोषयत्। तेनैकेन जिताः सर्वे मदीया उग्रतेजसः ॥ ते न निन्द्याः प्रशस्याश्च यत्ते चक्रुर्ब्रवीहि तत् ॥८-२२-४॥
सञ्जय उवाच॥
हतप्रहतविध्वस्ता विवर्मायुधवाहनाः। दीनस्वरा दूयमाना मानिनः शत्रुभिर्जिताः ॥८-२२-५॥
शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः। भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः ॥८-२२-६॥
तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन्। करं करेणाभिपीड्य प्रेक्षमाणस्तवात्मजम् ॥८-२२-७॥
यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा। स बोधयति चाप्येनं प्राप्तकालमधोक्षजः ॥८-२२-८॥
सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः। श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता महीपते ॥८-२२-९॥
एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान्। सुखोषितास्ते रजनीं हृष्टा युद्धाय निर्ययुः ॥८-२२-१०॥
तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम्। प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् ॥८-२२-११॥
अथ प्रतीपकर्तारं सततं विजितात्मनाम्। सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा ॥८-२२-१२॥
पुरंदरसमं युद्धे मरुद्गणसमं बले। कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः ॥ सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव ॥८-२२-१३॥
धृतराष्ट्र उवाच॥
यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं तदा। अप्यद्राक्षत तं यूयं शीतार्ता इव भास्करम् ॥८-२२-१४॥
कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः। कथं वैकर्तनः कर्णस्तत्रायुध्यत सञ्जय ॥ कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् ॥८-२२-१५॥
कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससोमकान्। कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं मतम् ॥ तथास्त्राणि सुघोराणि विक्रमश्च महात्मनः ॥८-२२-१६॥
दुर्योधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम्। पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महाहवे ॥८-२२-१७॥
कर्णमाश्रित्य सङ्ग्रामे दर्पो दुर्योधने पुनः। जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान् ॥८-२२-१८॥
अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे। नातरद्रभसः कर्णो दैवं नूनं परायणम् ॥
अहो दुःखानि तीव्राणि दुर्योधनकृतान्यहम्। सहिष्यामि सुघोराणि शल्यभूतानि सञ्जय ॥८-२२-२०॥
सौबलं च तथा तात नीतिमानिति मन्यते। युद्धेषु नाम दिव्येषु वर्तमानेषु सञ्जय। अश्रौषं निहतान्पुत्रान्नित्यमेव च निर्जितान् ॥८-२२-२२॥
न पाण्डवानां समरे कश्चिदस्ति निवारकः। स्त्रीमध्यमिव गाहन्ति दैवं हि बलवत्तरम् ॥८-२२-२३॥
सञ्जय उवाच॥
अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयतीति च। तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति ॥८-२२-२४॥
तदिदं तव कार्यं तु दूरप्राप्तं विजानता। न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणे ॥८-२२-२५॥
उक्तोऽसि बहुधा राजन्मा युध्यस्वेति पाण्डवैः। गृह्णीषे न च तन्मोहात्पाण्डवेषु विशां पते ॥८-२२-२६॥
त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु। त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः ॥८-२२-२७॥
तत्त्विदानीमतिक्रम्य मा शुचो भरतर्षभ। शृणु सर्वं यथावृत्तं घोरं वैशसमच्युत ॥८-२२-२८॥
प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात्। समेत्य च महाबाहुर्दुर्योधनमभाषत ॥८-२२-२९॥
अद्य राजन्समेष्यामि पाण्डवेन यशस्विना। हनिष्यामि च तं वीरं स वा मां निहनिष्यति ॥८-२२-३०॥
बहुत्वान्मम कार्याणां तथा पार्थस्य पार्थिव। नाभूत्समागमो राजन्मम चैवार्जुनस्य च ॥८-२२-३१॥
इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशां पते। अनिहत्य रणे पार्थं नाहमेष्यामि भारत ॥८-२२-३२॥
हतप्रवीरे सैन्येऽस्मिन्मयि चैव स्थिते युधि। अभियास्यति मां पार्थः शक्रशक्त्या विनाकृतम् ॥८-२२-३३॥
ततः श्रेयस्करं यत्ते तन्निबोध जनेश्वर। आयुधानां च यद्वीर्यं द्रव्याणामर्जुनस्य च ॥८-२२-३४॥
कायस्य महतो भेदे लाघवे दूरपातने। सौष्ठवे चास्त्रयोगे च सव्यसाची न मत्समः ॥८-२२-३५॥
सर्वायुधमहामात्रं विजयं नाम तद्धनुः। इन्द्रार्थमभिकामेन निर्मितं विश्वकर्मणा ॥८-२२-३६॥
येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः। यस्य घोषेण दैत्यानां विमुह्यन्ति दिशो दश ॥ तद्भार्गवाय प्रायच्छच्छक्रः परमसंमतम् ॥८-२२-३७॥
तद्दिव्यं भार्गवो मह्यमददाद्धनुरुत्तमम्। येन योत्स्ये महाबाहुमर्जुनं जयतां वरम् ॥ यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान् ॥८-२२-३८॥
धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते। त्रिःसप्तकृत्वः पृथिवी धनुषा तेन निर्जिता ॥८-२२-३९॥
धनुषो यस्य कर्माणि दिव्यानि प्राह भार्गवः। तद्रामो ह्यददान्मह्यं येन योत्स्यामि पाण्डवम् ॥८-२२-४०॥
अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम्। निहत्य समरे वीरमर्जुनं जयतां वरम् ॥८-२२-४१॥
सपर्वतवनद्वीपा हतद्विड्भूः ससागरा। पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव ॥८-२२-४२॥
नासाध्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः। सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा ॥८-२२-४३॥
न हि मां समरे सोढुं स शक्तोऽग्निं तरुर्यथा। अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् ॥८-२२-४४॥
ज्या तस्य धनुषो दिव्या तथाक्षय्यौ महेषुधी। तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजरं युधि ॥८-२२-४५॥
विजयं च महद्दिव्यं ममापि धनुरुत्तमम्। तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव ॥८-२२-४६॥
मया चाभ्यधिको वीरः पाण्डवस्तन्निबोध मे। रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः ॥८-२२-४७॥
अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः। अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः ॥ ध्वजश्च दिव्यो द्युतिमान्वानरो विस्मयङ्करः ॥८-२२-४८॥
कृष्णश्च स्रष्टा जगतो रथं तमभिरक्षति। एभिर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम् ॥८-२२-४९॥
अयं तु सदृशो वीरः शल्यः समितिशोभनः। सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजयो भवेत् ॥८-२२-५०॥
तस्य मे सारथिः शल्यो भवत्वसुकरः परैः। नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे ॥८-२२-५१॥
रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः। आयान्तु पश्चात्सततं मामेव भरतर्षभ ॥८-२२-५२॥
एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम्। शल्यो ह्यभ्यधिकः कृष्णादर्जुनादधिको ह्यहम् ॥८-२२-५३॥
यथाश्वहृदयं वेद दाशार्हः परवीरहा। तथा शल्योऽपि जानीते हयानां वै महारथः ॥८-२२-५४॥
बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन। तथास्त्रैर्मत्समो नास्ति कश्चिदेव धनुर्धरः ॥८-२२-५५॥
तथा शल्यसमो नास्ति हययाने ह कश्चन। सोऽयमभ्यधिकः पार्थाद्भविष्यति रथो मम ॥८-२२-५६॥
एतत्कृतं महाराज त्वयेच्छामि परन्तप। एवं कृते कृतं मह्यं सर्वकामैर्भविष्यति ॥८-२२-५७॥
ततो द्रष्टासि समरे यत्करिष्यामि भारत। सर्वथा पाण्डवान्सर्वाञ्जेष्याम्यद्य समागतान् ॥८-२२-५८॥
दुर्योधन उवाच॥
सर्वमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे। सोपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज ॥८-२२-५९॥
नाराचान्गार्ध्रपक्षांश्च शकटानि वहन्तु ते। अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः ॥८-२२-६०॥
सञ्जय उवाच॥
एवमुक्त्वा महाराज तव पुत्राः प्रतापवान्। अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः ॥८-२२-६१॥