Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.025
Pancharatra and Core: Shlya's pact with Karna to bear his harsh advice, whether palatable or not, and also makes a statement: The conduct of self-criticism, self-praise, criticism of others, and praise of others is considered fourfold and is not practiced by the noble ones.
दुर्योधन उवाच॥
एवं स भगवान्देवः सर्वलोकपितामहः। सारथ्यमकरोत्तत्र यत्र रुद्रोऽभवद्रथी ॥८-२५-१॥
रथिनाभ्यधिको वीरः कर्तव्यो रथसारथिः। तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि ॥८-२५-२॥
सञ्जय उवाच॥
ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत्। दुर्योधनममित्रघ्नः प्रीतो मद्राधिपस्तदा ॥८-२५-३॥
एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन। तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम् ॥८-२५-४॥
यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित्। तत्र सर्वात्मना युक्तो वक्ष्ये कार्यधुरं तव ॥८-२५-५॥
यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रियम्। मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः ॥८-२५-६॥
कर्ण उवाच॥
ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः। तथा नित्यं हिते युक्तो मद्रराज भजस्व नः ॥८-२५-७॥
शल्य उवाच॥
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः। अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥८-२५-८॥
यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव। आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम् ॥८-२५-९॥
अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो। अप्रमादप्रयोगाच्च ज्ञानविद्याचिकित्सितैः ॥८-२५-१०॥
ततः पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ। वाहयिष्यामि तुरगान्विज्वरो भव सूतज ॥८-२५-११॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.