Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.029
Pancharatra-Ext: Karna remembers Parashurama's curse and also a curse by a Brahmin given to him for lying, and wrorries about the same.
सञ्जय उवाच॥
मद्राधिपस्याधिरथिस्तदैवं; वचो निशम्याप्रियमप्रतीतः। उवाच शल्यं विदितं ममैत; द्यथाविधावर्जुनवासुदेवौ ॥८-२९-१॥
शौरे रथं वाहयतोऽर्जुनस्य; बलं महास्त्राणि च पाण्डवस्य। अहं विजानामि यथावदद्य; परोक्षभूतं तव तत्तु शल्य ॥८-२९-२॥
तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; व्यपेतभीर्योधयिष्यामि कृष्णौ। सन्तापयत्यभ्यधिकं तु रामा; च्छापोऽद्य मां ब्राह्मणसत्तमाच्च ॥८-२९-३॥
अवात्सं वै ब्राह्मणच्छद्मनाहं; रामे पुरा दिव्यमस्त्रं चिकीर्षुः। तत्रापि मे देवराजेन विघ्नो; हितार्थिना फल्गुनस्यैव शल्य ॥८-२९-४॥
कृतोऽवभेदेन ममोरुमेत्य; प्रविश्य कीटस्य तनुं विरूपाम्। गुरोर्भयाच्चापि न चेलिवानहं; तच्चावबुद्धो ददृशे स विप्रः ॥८-२९-५॥
पृष्टश्चाहं तमवोचं महर्षिं; सूतोऽहमस्मीति स मां शशाप। सूतोपधावाप्तमिदं त्वयास्त्रं; न कर्मकाले प्रतिभास्यति त्वाम् ॥८-२९-६॥
अन्यत्र यस्मात्तव मृत्युकाला; दब्राह्मणे ब्रह्म न हि ध्रुवं स्यात्। तदद्य पर्याप्तमतीव शस्त्र; मस्मिन्सङ्ग्रामे तुमुले तात भीमे ॥८-२९-७॥
अपां पतिर्वेगवानप्रमेयो; निमज्जयिष्यन्निवहान्प्रजानाम्। महानगं यः कुरुते समुद्रं; वेलैव तं वारयत्यप्रमेयम् ॥८-२९-८॥
प्रमुञ्चन्तं बाणसङ्घानमोघा; न्मर्मच्छिदो वीरहणः सपत्रान्। कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे; ज्याकर्षिणामुत्तममद्य लोके ॥८-२९-९॥
एवं बलेनातिबलं महास्त्रं; समुद्रकल्पं सुदुरापमुग्रम्। शरौघिणं पार्थिवान्मज्जयन्तं; वेलेव पार्थमिषुभिः संसहिष्ये ॥८-२९-१०॥
अद्याहवे यस्य न तुल्यमन्यं; मन्ये मनुष्यं धनुराददानम्। सुरासुरान्वै युधि यो जयेत; तेनाद्य मे पश्य युद्धं सुघोरम् ॥८-२९-११॥
अतिमानी पाण्डवो युद्धकामो; अमानुषैरेष्यति मे महास्त्रैः। तस्यास्त्रमस्त्रैरभिहत्य सङ्ख्ये; शरोत्तमैः पातयिष्यामि पार्थम् ॥८-२९-१२॥
दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा ज्वलन्तम्। तमोनुदं मेघ इवातिमात्रो; धनञ्जयं छादयिष्यामि बाणैः ॥८-२९-१३॥
वैश्वानरं धूमशिखं ज्वलन्तं; तेजस्विनं लोकमिमं दहन्तम्। मेघो भूत्वा शरवर्षैर्यथाग्निं; तथा पार्थं शमयिष्यामि युद्धे ॥८-२९-१४॥
प्रमाथिनं बलवन्तं प्रहारिणं; प्रभञ्जनं मातरिश्वानमुग्रम्। युद्धे सहिष्ये हिमवानिवाचलो; धनञ्जयं क्रुद्धममृष्यमाणम् ॥८-२९-१५॥
विशारदं रथमार्गेष्वसक्तं; धुर्यं नित्यं समरेषु प्रवीरम्। लोके वरं सर्वधनुर्धराणां; धनञ्जयं संयुगे संसहिष्ये ॥८-२९-१६॥
अद्याहवे यस्य न तुल्यमन्यं; मध्येमनुष्यं धनुराददानम्। सर्वामिमां यः पृथिवीं सहेत; तथा विद्वान्योत्स्यमानोऽस्मि तेन ॥८-२९-१७॥
यः सर्वभूतानि सदेवकानि; प्रस्थेऽजयत्खाण्डवे सव्यसाची। को जीवितं रक्षमाणो हि तेन; युयुत्सते मामृते मानुषोऽन्यः ॥८-२९-१८॥
अहं तस्य पौरुषं पाण्डवस्य; ब्रूयां हृष्टः समितौ क्षत्रियाणाम्। किं त्वं मूर्खः प्रभषन्मूढचेता; मामवोचः पौरुषमर्जुनस्य ॥८-२९-१९॥
अप्रियो यः परुषो निष्ठुरो हि; क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान्। हन्यामहं तादृशानां शतानि; क्षमामि त्वां क्षमया कालयोगात् ॥८-२९-२०॥
अवोचस्त्वं पाण्डवार्थेऽप्रियाणि; प्रधर्षयन्मां मूढवत्पापकर्मन्। मय्यार्जवे जिह्मगतिर्हतस्त्वं; मित्रद्रोही सप्तपदं हि मित्रम् ॥८-२९-२१॥
कालस्त्वयं मृत्युमयोऽतिदारुणो; दुर्योधनो युद्धमुपागमद्यत्। तस्यार्थसिद्धिमभिकाङ्क्षमाण; स्तमभ्येष्ये यत्र नैकान्त्यमस्ति ॥८-२९-२२॥
मित्रं मिदेर्नन्दतेः प्रीयतेर्वा; सन्त्रायतेर्मानद मोदतेर्वा। ब्रवीति तच्चामुत विप्रपूर्वा; त्तच्चापि सर्वं मम दुर्योधनेऽस्ति ॥८-२९-२३॥
शत्रुः शदेः शासतेः शायतेर्वा; शृणातेर्वा श्वयतेर्वापि सर्गे। उपसर्गाद्बहुधा सूदतेश्च; प्रायेण सर्वं त्वयि तच्च मह्यम् ॥८-२९-२४॥
दुर्योधनार्थं तव चाप्रियार्थं; यशोर्थमात्मार्थमपीश्वरार्थम्। तस्मादहं पाण्डववासुदेवौ; योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य ॥८-२९-२५॥
अस्त्राणि पश्याद्य ममोत्तमानि; ब्राह्माणि दिव्यान्यथ मानुषाणि। आसादयिष्याम्यहमुग्रवीर्यं; द्विपोत्तमं मत्तमिवाभिमत्तः ॥८-२९-२६॥
अस्त्रं ब्राह्मं मनसा तद्ध्यजय्यं; क्षेप्स्ये पार्थायाप्रतिमं जयाय। तेनापि मे नैव मुच्येत युद्धे; न चेत्पतेद्विषमे मेऽद्य चक्रम् ॥८-२९-२७॥
वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः। सगदाद्वा धनपतेः सवज्राद्वापि वासवात् ॥८-२९-२८॥
नान्यस्मादपि कस्माच्चिद्बिभिमो ह्याततायिनः। इति शल्य विजानीहि यथा नाहं बिभेम्यभीः ॥८-२९-२९॥
तस्माद्भयं न मे पार्थान्नापि चैव जनार्दनात्। अद्य युद्धं हि ताभ्यां मे सम्पराये भविष्यति ॥८-२९-३०॥
श्वभ्रे ते पततां चक्रमिति मे ब्राह्मणोऽवदत्। युध्यमानस्य सङ्ग्रामे प्राप्तस्यैकायने भयम् ॥८-२९-३१॥
तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम्। एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥८-२९-३२॥
होमधेन्वा वत्समस्य प्रमत्त इषुणाहनम्। चरन्तमजने शल्य ब्राह्मणात्तपसो निधेः ॥८-२९-३३॥
ईषादन्तान्सप्तशतान्दासीदासशतानि च। ददतो द्विजमुख्याय प्रसादं न चकार मे ॥८-२९-३४॥
कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश। आहरन्न लभे तस्मात्प्रसादं द्विजसत्तमात् ॥८-२९-३५॥
ऋद्धं गेहं सर्वकामैर्यच्च मे वसु किञ्चन। तत्सर्वमस्मै सत्कृत्य प्रयच्छामि न चेच्छति ॥८-२९-३६॥
ततोऽब्रवीन्मां याचन्तमपराद्धं प्रयत्नतः। व्याहृतं यन्मया सूत तत्तथा न तदन्यथा ॥८-२९-३७॥
अनृतोक्तं प्रजा हन्यात्ततः पापमवाप्नुयात्। तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे ॥८-२९-३८॥
मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया। मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि ॥८-२९-३९॥
इत्येतत्ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया। जानामि त्वाधिक्षिपन्तं जोषमास्स्वोत्तरं शृणु ॥८-२९-४०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.