Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.030
Pancharatra-Ext: Shalya and Karna continue to exchange insults at each other.
सञ्जय उवाच॥
ततः पुनर्महाराज मद्रराजमरिंदमम्। अभ्यभाषत राधेयः संनिवार्योत्तरं वचः ॥८-३०-१॥
यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि। नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे ॥८-३०-२॥
यदि मां देवताः सर्वा योधयेयुः सवासवाः। तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् ॥८-३०-३॥
नाहं भीषयितुं शक्यो वाङ्मात्रेण कथञ्चन। अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे ॥८-३०-४॥
नीचस्य बलमेतावत्पारुष्यं यत्त्वमात्थ माम्। अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे बहु दुर्मते ॥८-३०-५॥
न हि कर्णः समुद्भूतो भयार्थमिह मारिष। विक्रमार्थमहं जातो यशोर्थं च तथैव च ॥८-३०-६॥
इदं तु मे त्वमेकाग्रः शृणु मद्रजनाधिप। संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् ॥८-३०-७॥
देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान्। ब्राह्मणाः कथयन्तः स्म धृतराष्ट्रमुपासते ॥८-३०-८॥
तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद्द्विजोत्तमः। बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् ॥८-३०-९॥
बहिष्कृता हिमवता गङ्गया च तिरस्कृताः। सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये ॥८-३०-१०॥
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः। तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत् ॥८-३०-११॥
गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम्। एतद्राजकुलद्वारमाकुमारः स्मराम्यहम् ॥८-३०-१२॥
कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया। तत एषां समाचारः संवासाद्विदितो मम ॥८-३०-१३॥
शाकलं नाम नगरमापगा नाम निम्नगा। जर्तिका नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम् ॥८-३०-१४॥
धानागौडासवे पीत्वा गोमांसं लशुनैः सह। अपूपमांसवाट्यानामाशिनः शीलवर्जिताः ॥८-३०-१५॥
हसन्ति गान्ति नृत्यन्ति स्त्रीभिर्मत्ता विवाससः। नगरागारवप्रेषु बहिर्माल्यानुलेपनाः ॥८-३०-१६॥
मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः। आहुरन्योन्यमुक्तानि प्रब्रुवाणा मदोत्कटाः ॥८-३०-१७॥
हा हते हा हतेत्येव स्वामिभर्तृहतेति च। आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्वसंयताः ॥८-३०-१८॥
तेषां किलावलिप्तानां निवसन्कुरुजाङ्गले। कश्चिद्बाह्लीकमुख्यानां नातिहृष्टमना जगौ ॥८-३०-१९॥
सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी। मामनुस्मरती शेते बाह्लीकं कुरुवासिनम् ॥८-३०-२०॥
शतद्रुकनदीं तीर्त्वा तां च रम्यामिरावतीम्। गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः ॥८-३०-२१॥
मनःशिलोज्ज्वलापाङ्गा गौर्यस्त्रिककुदाञ्जनाः। केवलाजिनसंवीताः कूर्दन्त्यः प्रियदर्शनाः ॥८-३०-२२॥
मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः। खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् ॥८-३०-२३॥
शमीपीलुकरीराणां वनेषु सुखवर्त्मसु। अपूपान्सक्तुपिण्डीश्च खादन्तो मथितान्विताः ॥८-३०-२४॥
पथिषु प्रबला भूत्वा कदासमृदितेऽध्वनि। खलोपहारं कुर्वाणास्ताडयिष्याम भूयसः ॥८-३०-२५॥
एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु। कश्चेतयानो निवसेन्मुहूर्तमपि मानवः ॥८-३०-२६॥
ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः। येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः ॥८-३०-२७॥
इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान्। बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोधत ॥८-३०-२८॥
तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम्। नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ॥८-३०-२९॥
कदा वा घोषिका गाथाः पुनर्गास्यन्ति शाकले। गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम् ॥८-३०-३०॥
गौरीभिः सह नारीभिर्बृहतीभिः स्वलङ्कृताः। पलाण्डुगण्डूषयुतान्खादन्ते चैडकान्बहून् ॥८-३०-३१॥
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम्। ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम् ॥८-३०-३२॥
इति गायन्ति ये मत्ताः शीधुना शाकलावतः। सबालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत् ॥८-३०-३३॥
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते। यदन्योऽप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि ॥८-३०-३४॥
पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्यपि। शतद्रुश्च विपाशा च तृतीयेरावती तथा ॥ चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गताः ॥८-३०-३५॥
आरट्टा नाम ते देशा नष्टधर्मान्न तान्व्रजेत्। व्रात्यानां दासमीयानां विदेहानामयज्वनाम् ॥८-३०-३६॥
न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा। तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः ॥८-३०-३७॥
ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि। काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते ॥
आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च। तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च ॥८-३०-३९॥
पुत्रसङ्करिणो जाल्माः सर्वान्नक्षीरभोजनाः। आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता ॥८-३०-४०॥
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते। यदन्योऽप्युक्तवान्सभ्यो ब्राह्मणः कुरुसंसदि ॥८-३०-४१॥
युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले। तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति ॥८-३०-४२॥
पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात्। आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत् ॥८-३०-४३॥
बहिश्च नाम ह्लीकश्च विपाशायां पिशाचकौ। तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः ॥८-३०-४४॥
कारस्करान्महिषकान्कलिङ्गान्कीकटाटवीन्। कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जयेत् ॥८-३०-४५॥
इति तीर्थानुसर्तारं राक्षसी काचिदब्रवीत्। एकरात्रा शमीगेहे महोलूखलमेखला ॥८-३०-४६॥
आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः। वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः ॥८-३०-४७॥
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते। उच्यमानं मया सम्यक्तदेकाग्रमनाः शृणु ॥८-३०-४८॥
ब्राह्मणः शिल्पिनो गेहमभ्यगच्छत्पुरातिथिः। आचारं तत्र सम्प्रेक्ष्य प्रीतः शिल्पिनमब्रवीत् ॥८-३०-४९॥
मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम्। दृष्टाश्च बहवो देशा नानाधर्मसमाकुलाः ॥८-३०-५०॥
न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः। सर्वे हि तेऽब्रुवन्धर्मं यथोक्तं वेदपारगैः ॥८-३०-५१॥
अटता तु सदा देशान्नानाधर्मसमाकुलान्। आगच्छता महाराज बाह्लीकेषु निशामितम् ॥८-३०-५२॥
तत्रैव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः। वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः ॥८-३०-५३॥
नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः। द्विजो भूत्वा च तत्रैव पुनर्दासोऽपि जायते ॥८-३०-५४॥
भवत्येकः कुले विप्रः शिष्टान्ये कामचारिणः। गान्धारा मद्रकाश्चैव बाह्लीकाः केऽप्यचेतसः ॥८-३०-५५॥
एतन्मया श्रुतं तत्र धर्मसङ्करकारकम्। कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः ॥८-३०-५६॥
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते। यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितम् ॥८-३०-५७॥
सती पुरा हृता काचिदारट्टा किल दस्युभिः। अधर्मतश्चोपयाता सा तानभ्यशपत्ततः ॥८-३०-५८॥
बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ। तस्मान्नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः ॥ न चैवास्मात्प्रमोक्ष्यध्वं घोरात्पापान्नराधमाः ॥८-३०-५९॥
कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः। कोसलाः काशयोऽङ्गाश्च कलिङ्गा मगधास्तथा ॥८-३०-६०॥
चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम्। नानादेशेषु सन्तश्च प्रायो बाह्या लयादृते ॥८-३०-६१॥
आ मत्स्येभ्यः कुरुपाञ्चालदेश्या; आ नैमिषाच्चेदयो ये विशिष्टाः। धर्मं पुराणमुपजीवन्ति सन्तो; मद्रानृते पञ्चनदांश्च जिह्मान् ॥८-३०-६२॥
एवं विद्वन्धर्मकथांश्च राजं; स्तूष्णीम्भूतो जडवच्छल्य भूयाः। त्वं तस्य गोप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य ॥८-३०-६३॥
अथ वा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता। रक्षिता पुण्यभाग्राजा प्रजानां त्वं त्वपुण्यभाक् ॥८-३०-६४॥
पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते। धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः ॥८-३०-६५॥
व्रात्यानां दाशमीयानां कृतेऽप्यशुभकर्मणाम्। इति पाञ्चनदं धर्ममवमेने पितामहः ॥ स्वधर्मस्थेषु वर्णेषु सोऽप्येतं नाभिपूजयेत् ॥८-३०-६६॥
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते। कल्माषपादः सरसि निमज्जन्राक्षसोऽब्रवीत् ॥८-३०-६७॥
क्षत्रियस्य मलं भैक्षं ब्राह्मणस्यानृतं मलम्। मलं पृथिव्या बाह्लीकाः स्त्रीणां मद्रस्त्रियो मलम् ॥८-३०-६८॥
निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम्। अपृच्छत्तेन चाख्यातं प्रोक्तवान्यन्निबोध तत् ॥८-३०-६९॥
मानुषाणां मलं म्लेच्छा म्लेच्छानां मौष्टिका मलम्। मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः ॥८-३०-७०॥
राजयाजकयाज्यानां मद्रकाणां च यन्मलम्। तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि ॥८-३०-७१॥
इति रक्षोपसृष्टेषु विषवीर्यहतेषु च। राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम् ॥८-३०-७२॥
ब्राह्मं पाञ्चालाः कौरवेयाः स्वधर्मः; सत्यं मत्स्याः शूरसेनाश्च यज्ञः। प्राच्या दासा वृषला दाक्षिणात्याः; स्तेना बाह्लीकाः सङ्करा वै सुराष्ट्राः ॥८-३०-७३॥
कृतघ्नता परवित्तापहारः; सुरापानं गुरुदारावमर्शः। येषां धर्मस्तान्प्रति नास्त्यधर्म; आरट्टकान्पाञ्चनदान्धिगस्तु ॥८-३०-७४॥
आ पाञ्चालेभ्यः कुरवो नैमिषाश्च; मत्स्याश्चैवाप्यथ जानन्ति धर्मम्। कलिङ्गकाश्चाङ्गका मागधाश्च; शिष्टान्धर्मानुपजीवन्ति वृद्धाः ॥८-३०-७५॥
प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः। दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा ॥८-३०-७६॥
प्रतीचीं वरुणः पाति पालयन्नसुरान्बली। उदीचीं भगवान्सोमो ब्रह्मण्यो ब्राह्मणैः सह ॥८-३०-७७॥
रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः। ध्रुवः सर्वाणि भूतानि विष्णुर्लोकाञ्जनार्दनः ॥८-३०-७८॥
इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः। अर्धोक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः ॥ पार्वतीयाश्च विषमा यथैव गिरयस्तथा ॥८-३०-७९॥
सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः। म्लेच्छाः स्वसञ्ज्ञानियता नानुक्त इतरो जनः ॥८-३०-८०॥
प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः। स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि ॥८-३०-८१॥
एतज्ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म वै कृथाः। स त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ ॥८-३०-८२॥
शल्य उवाच॥
आतुराणां परित्यागः स्वदारसुतविक्रयः। अङ्गेषु वर्तते कर्ण येषामधिपतिर्भवान् ॥८-३०-८३॥
रथातिरथसङ्ख्यायां यत्त्वा भीष्मस्तदाब्रवीत्। तान्विदित्वात्मनो दोषान्निर्मन्युर्भव मा क्रुधः ॥८-३०-८४॥
सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः। वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः ॥८-३०-८५॥
रमन्ते चोपहासेन पुरुषाः पुरुषैः सह। अन्योन्यमवतक्षन्तो देशे देशे समैथुनाः ॥८-३०-८६॥
परवाच्येषु निपुणः सर्वो भवति सर्वदा। आत्मवाच्यं न जानीते जानन्नपि विमुह्यति ॥८-३०-८७॥
सञ्जय उवाच॥
कर्णोऽपि नोत्तरं प्राह शल्योऽप्यभिमुखः परान्। पुनः प्रहस्य राधेयः पुनर्याहीत्यचोदयत् ॥८-३०-८८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.