08.038
Core and Pancharatra: Encounter between the Pandava and the Kaurava warriors: Kripa takes on Shikandin; Kritavarma fights Dhṛṣṭadyumna; Drona's son stopped Yudhishthira; Nakul and Sahadev were intercepted by Duryodhana's brothers. Kripa kills Suketu.
सञ्जय उवाच॥
कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष। उलूकः सौबलश्चैव राजा च सह सोदरैः ॥८-३८-१॥
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम्। समुज्जिहीर्षुर्वेगेन भिन्नां नावमिवार्णवे ॥८-३८-२॥
ततो युद्धमतीवासीन्मुहूर्तमिव भारत। भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥८-३८-३॥
कृपेण शरवर्षाणि विप्रमुक्तानि संयुगे। सृञ्जयाः शातयामासुः शलभानां व्रजा इव ॥८-३८-४॥
शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौ। ववर्ष शरवर्षाणि समन्तादेव ब्राह्मणे ॥८-३८-५॥
कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित्। शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ॥८-३८-६॥
ततः शिखण्डी कुपीतः शरैः सप्तभिराहवे। कृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः ॥८-३८-७॥
ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः। व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः ॥८-३८-८॥
हताश्वात्तु ततो यानादवप्लुत्य महारथः। चर्मखड्गे च सङ्गृह्य सत्वरं ब्राह्मणं ययौ ॥८-३८-९॥
तमापतन्तं सहसा शरैः संनतपर्वभिः। छादयामास समरे तदद्भुतमिवाभवत् ॥८-३८-१०॥
तत्राद्भुतमपश्याम शिलानां प्लवनं यथा। निश्चेष्टो यद्रणे राजञ्शिखण्डी समतिष्ठत ॥८-३८-११॥
कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम्। प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ॥८-३८-१२॥
धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति। प्रतिजग्राह वेगेन कृतवर्मा महारथः ॥८-३८-१३॥
युधिष्ठिरमथायान्तं शारद्वतरथं प्रति। सपुत्रं सहसेनं च द्रोणपुत्रो न्यवारयत् ॥८-३८-१४॥
नकुलं सहदेवं च त्वरमाणौ महारथौ। प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् ॥८-३८-१५॥
भीमसेनं करूषांश्च केकयान्सहसृञ्जयान्। कर्णो वैकर्तनो युद्धे वारयामास भारत ॥८-३८-१६॥
शिखण्डिनस्ततो बाणान्कृपः शारद्वतो युधि। प्राहिणोत्त्वरया युक्तो दिधक्षुरिव मारिष ॥८-३८-१७॥
ताञ्शरान्प्रेषितांस्तेन समन्ताद्धेमभूषणान्। चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः ॥८-३८-१८॥
शतचन्द्रं ततश्चर्म गौतमः पार्षतस्य ह। व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः ॥८-३८-१९॥
स विचर्मा महाराज खड्गपाणिरुपाद्रवत्। कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः ॥८-३८-२०॥
शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलम्। चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ ॥८-३८-२१॥
विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः। अभ्यापतदमेयात्मा गौतमस्य रथं प्रति ॥८-३८-२२॥
दृष्ट्वाविषह्यं तं युद्धे ब्राह्मणं चरितव्रतम्। अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम ॥८-३८-२३॥
सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः। विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ॥८-३८-२४॥
अथास्य सशरं चापं पुनश्चिच्छेद मारिष। सारथिं च शरेणास्य भृशं मर्मण्यताडयत् ॥८-३८-२५॥
गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम्। सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् ॥८-३८-२६॥
स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे। भूमिचाले यथा वृक्षश्चलत्याकम्पितो भृशम् ॥८-३८-२७॥
चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम्। सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातयत् ॥८-३८-२८॥
तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम्। ततोऽस्य कायो वसुधां पश्चात्प्राप तदा च्युतः ॥८-३८-२९॥
तस्मिन्हते महाराज त्रस्तास्तस्य पदानुगाः। गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥८-३८-३०॥
धृष्टद्युम्नं तु समरे संनिवार्य महाबलः। कृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति पार्षतम् ॥८-३८-३१॥
तदभूत्तुमुलं युद्धं वृष्णिपार्षतयो रणे। आमिषार्थे यथा युद्धं श्येनयोर्गृद्धयोर्नृप ॥८-३८-३२॥
धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः। आजघानोरसि क्रुद्धः पीडयन्हृदिकात्मजम् ॥८-३८-३३॥
कृतवर्मा तु समरे पार्षतेन दृढाहतः। पार्षतं सरथं साश्वं छादयामास सायकैः ॥८-३८-३४॥
सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते। मेघैरिव परिच्छन्नो भास्करो जलदागमे ॥८-३८-३५॥
विधूय तं बाणगणं शरैः कनकभूषणैः। व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः ॥८-३८-३६॥
ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम्। कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ॥८-३८-३७॥
तामापतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम्। शरैरनेकसाहस्रैर्हार्दिक्यो व्यधमद्युधि ॥८-३८-३८॥
दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम्। कृतवर्माणमभ्येत्य वारयामास पार्षतः ॥८-३८-३९॥
सारथिं चास्य तरसा प्राहिणोद्यमसादनम्। भल्लेन शितधारेण स हतः प्रापतद्रथात् ॥८-३८-४०॥
धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रुं महारथम्। कौरवान्समरे तूर्णं वारयामास सायकैः ॥८-३८-४१॥
ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन्। सिंहनादरवं कृत्वा ततो युद्धमवर्तत ॥८-३८-४२॥