08.039
Core and Pancharatra: Combined forces of the Pandavas attack Aśvatthāmā, and Yudhisthira advises Aśvatthāmā to do his Brahminical duties instead of engaging in war.
सञ्जय उवाच॥
द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम्। द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत् ॥८-३९-१॥
किरन्निषुगणान्घोरान्स्वर्णपुङ्खाञ्शिलाशितान्। दर्शयन्विविधान्मार्गाञ्शिक्षार्थं लघुहस्तवत् ॥८-३९-२॥
ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः। युधिष्ठिरं च समरे पर्यवारयदस्त्रवित् ॥८-३९-३॥
द्रौणायनिशरच्छन्नं न प्राज्ञायत किञ्चन। बाणभूतमभूत्सर्वमायोधनशिरो हि तत् ॥८-३९-४॥
बाणजालं दिविष्ठं तत्स्वर्णजालविभूषितम्। शुशुभे भरतश्रेष्ठ वितानमिव विष्ठितम् ॥८-३९-५॥
तेन छन्ने रणे राजन्बाणजालेन भास्वता। अभ्रच्छायेव सञ्जज्ञे बाणरुद्धे नभस्तले ॥८-३९-६॥
तत्राश्चर्यमपश्याम बाणभूते तथाविधे। न स्म सम्पतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम् ॥८-३९-७॥
लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः। व्यस्मयन्त महाराज न चैनं प्रतिवीक्षितुम् ॥ शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् ॥८-३९-८॥
सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः। तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् ॥८-३९-९॥
वध्यमाने ततः सैन्ये द्रौपदेया महारथाः। सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः ॥ त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन् ॥८-३९-१०॥
सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलामुखैः। पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः ॥८-३९-११॥
युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः। श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिस्तु सप्तभिः ॥८-३९-१२॥
सुतसोमश्च नवभिः शतानीकश्च सप्तभिः। अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः ॥८-३९-१३॥
सोऽतिक्रुद्धस्ततो राजन्नाशीविष इव श्वसन्। सात्यकिं पञ्चविंशत्या प्राविध्यत शिलाशितैः ॥८-३९-१४॥
श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः। अष्टभिः श्रुतकर्माणं प्रतिविन्ध्यं त्रिभिः शरैः ॥ शतानीकं च नवभिर्धर्मपुत्रं च सप्तभिः ॥८-३९-१५॥
अथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत्। श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः ॥८-३९-१६॥
अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः। द्रौणायनिं त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः ॥८-३९-१७॥
ततो द्रौणिर्महाराज शरवर्षेण भारत। छादयामास तत्सैन्यं समन्ताच्च शरैर्नृपान् ॥८-३९-१८॥
ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम्। द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः ॥८-३९-१९॥
ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः। द्रौणिं विव्याध सप्तत्या बाह्वोरुरसि चार्दयत् ॥८-३९-२०॥
सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे। अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद्भृशम् ॥८-३९-२१॥
छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः। सारथिं पातयामास शैनेयस्य रथाद्द्रुतम् ॥८-३९-२२॥
अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान्। शैनेयं शरवर्षेण छादयामास भारत ॥८-३९-२३॥
तस्याश्वाः प्रद्रुताः सङ्ख्ये पतिते रथसारथौ। तत्र तत्रैव धावन्तः समदृश्यन्त भारत ॥८-३९-२४॥
युधिष्ठिरपुरोगास्ते द्रौणिं शस्त्रभृतां वरम्। अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्शरान् ॥८-३९-२५॥
आगच्छमानांस्तान्दृष्ट्वा रौद्ररूपान्परन्तपः। प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे ॥८-३९-२६॥
ततः शरशतज्वालः सेनाकक्षं महारथः। द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने ॥८-३९-२७॥
तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम्। चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम् ॥८-३९-२८॥
दृष्ट्वा ते च महाराज द्रोणपुत्रपराक्रमम्। निहतान्मेनिरे सर्वान्पाण्डून्द्रोणसुतेन वै ॥८-३९-२९॥
युधिष्ठिरस्तु त्वरितो द्रौणिं श्लिष्य महारथम्। अब्रवीद्द्रोणपुत्रं तु रोषामर्षसमन्वितः ॥८-३९-३०॥
नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता। यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि ॥८-३९-३१॥
ब्राह्मणेन तपः कार्यं दानमध्ययनं तथा। क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः ॥८-३९-३२॥
मिषतस्ते महाबाहो जेष्यामि युधि कौरवान्। कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम् ॥८-३९-३३॥
एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव। युक्तत्वं तच्च सञ्चिन्त्य नोत्तरं किञ्चिदब्रवीत् ॥८-३९-३४॥
अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम्। छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः ॥८-३९-३५॥
सञ्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष। पार्थोऽपयातः शीघ्रं वै विहाय महतीं चमूम् ॥८-३९-३६॥
अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे। द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः ॥८-३९-३७॥
ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिं महाहवे। प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे ॥८-३९-३८॥