Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.042
Pancharatra and Core: Karna stood alone against the onslaught of the Pandava army, while Ashwatthama attacked Dhṛṣṭadyumna; instructed by Krishna, Arjuna rescued Dhṛṣṭadyumna from Ashwatthama; Karna wanted to take on Arjuna, but Arjuna moves towards the Samsaptakas.
सञ्जय उवाच॥
ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः। युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् ॥८-४२-१॥
ततः प्रववृते भीमः सङ्ग्रामो लोमहर्षणः। कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥८-४२-२॥
तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले शोणितोदके। संशप्तकेषु शूरेषु किञ्चिच्छिष्टेषु भारत ॥८-४२-३॥
धृष्टद्युम्नो महाराज सहितः सर्वराजभिः। कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ॥८-४२-४॥
आगच्छमानांस्तान्सङ्ख्ये प्रहृष्टान्विजयैषिणः। दधारैको रणे कर्णो जलौघानिव पर्वतः ॥८-४२-५॥
तमासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः। यथाचलं समासाद्य जलौघाः सर्वतोदिशम् ॥ तयोरासीन्महाराज सङ्ग्रामो लोमहर्षणः ॥८-४२-६॥
धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा। ताडयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥८-४२-७॥
विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः। पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान् ॥ ताडयामास सङ्क्रुद्धः पार्षतं नवभिः शरैः ॥८-४२-८॥
ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः। शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ॥८-४२-९॥
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः। अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान् ॥ कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः ॥८-४२-१०॥
तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम्। द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः ॥८-४२-११॥
तस्य कर्णो महाराज शरं कनकभूषणम्। प्रेषयामास सङ्क्रुद्धो मृत्युदण्डमिवापरम् ॥८-४२-१२॥
तमापतन्तं सहसा घोररूपं विशां पते। चिच्छेद सप्तधा राजञ्शैनेयः कृतहस्तवत् ॥८-४२-१३॥
दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशां पते। सात्यकिं शरवर्षेण समन्तात्पर्यवारयत् ॥८-४२-१४॥
विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः। तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः ॥८-४२-१५॥
ततो युद्धमतीवासीच्चक्षुःश्रोत्रभयावहम्। राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः ॥८-४२-१६॥
सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत। तद्दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप ॥८-४२-१७॥
एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम्। पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ॥८-४२-१८॥
अभ्यभाषत सङ्क्रुद्धो द्रौणिर्दूरे धनञ्जये। तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे ॥८-४२-१९॥
इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः। पार्षतं छादयामास घोररूपैः सुतेजनैः ॥ यतमानं परं शक्त्या यतमानो महारथः ॥८-४२-२०॥
यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष। तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा ॥ नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः ॥८-४२-२१॥
द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम्। क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् ॥ तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् ॥८-४२-२२॥
अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान्। धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते ॥ पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे ॥८-४२-२३॥
पापं हि यत्त्वया कर्म घ्नता द्रोणं पुरा कृतम्। अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा ॥८-४२-२४॥
अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे। नापक्रमसि वा मूढ सत्यमेतद्ब्रवीमि ते ॥८-४२-२५॥
एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान्। प्रतिवाक्यं स एवासिर्मामको दास्यते तव ॥ येनैव ते पितुर्दत्तं यतमानस्य संयुगे ॥८-४२-२६॥
यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः। त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात् ॥८-४२-२७॥
एवमुक्त्वा महाराज सेनापतिरमर्षणः। निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः ॥८-४२-२८॥
ततो द्रोणिः सुसङ्क्रुद्धः शरैः संनतपर्वभिः। प्राच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे ॥८-४२-२९॥
नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः। दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः ॥८-४२-३०॥
तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम्। शरैः सञ्छादयामास सूतपुत्रस्य पश्यतः ॥८-४२-३१॥
राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः। द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् ॥ एकः स वारयामास प्रेक्षणीयः समन्ततः ॥८-४२-३२॥
धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम्। तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् ॥ वेगवत्समरे घोरं शरांश्चाशीविषोपमान् ॥८-४२-३३॥
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम्। हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ॥८-४२-३४॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः। खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् ॥८-४२-३५॥
द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः। चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः ॥ रथादनवरूढस्य तदद्भुतमिवाभवत् ॥८-४२-३६॥
धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम्। शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् ॥ नातरद्भरतश्रेष्ठ यतमानो महारथः ॥८-४२-३७॥
तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान्। अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् ॥८-४२-३८॥
आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः। गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् ॥८-४२-३९॥
एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत्। पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति ॥ यत्नं करोति विपुलं हन्याच्चैनमसंशयम् ॥८-४२-४०॥
तं मोचय महाबाहो पार्षतं शत्रुतापनम्। द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा ॥८-४२-४१॥
एवमुक्त्वा महाराज वासुदेवः प्रतापवान्। प्रैषयत्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः ॥८-४२-४२॥
ते हयाश्चन्द्रसङ्काशाः केशवेन प्रचोदिताः। पिबन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति ॥८-४२-४३॥
दृष्ट्वायान्तौ महावीर्यावुभौ कृष्णधनञ्जयौ। धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः ॥८-४२-४४॥
विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर। शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः ॥८-४२-४५॥
ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम्। द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः ॥८-४२-४६॥
स विध्वस्तैः शरैर्घोरैर्द्रोणपुत्रः प्रतापवान्। रथमारुरुहे वीरो धनञ्जयशरार्दितः ॥ प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः ॥८-४२-४७॥
एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप। अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् ॥८-४२-४८॥
अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः। तं द्रोणपुत्रः सङ्क्रुद्धो बाह्वोरुरसि चार्दयत् ॥८-४२-४९॥
क्रोधितस्तु रणे पार्थो नाराचं कालसंमितम्। द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् ॥ स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः ॥८-४२-५०॥
स विह्वलो महाराज शरवेगेन संयुगे। निषसाद रथोपस्थे वैक्लव्यं च परं ययौ ॥८-४२-५१॥
ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः। अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः ॥ द्वैरथं चापि पार्थेन कामयानो महारणे ॥८-४२-५२॥
तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम्। अपोवाह रथेनाजौ त्वरमाणो रणाजिरात् ॥८-४२-५३॥
अथोत्क्रुष्टं महाराज पाञ्चालैर्जितकाशिभिः। मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् ॥८-४२-५४॥
वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः। सिंहनादश्च सञ्जज्ञे दृष्ट्वा घोरं महाद्भुतम् ॥८-४२-५५॥
एवं कृत्वाब्रवीत्पार्थो वासुदेवं धनञ्जयः। याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम ॥८-४२-५६॥
ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम्। रथेनातिपताकेन मनोमारुतरंहसा ॥८-४२-५७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.