Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.041
Pancharatra and Core: Karna and Ashwatthama on the Kaurava side battle Bhima and Dhrishtadyumna, as described by Vasudeva to Arjuna.
सञ्जय उवाच॥
त्वरमाणः पुनः कृष्णः पार्थमभ्यवदच्छनैः। पश्य कौरव्य राजानमपयातांश्च पाण्डवान् ॥८-४१-१॥
कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम्। असौ भीमो महेष्वासः संनिवृत्तो रणं प्रति ॥८-४१-२॥
तमेतेऽनु निवर्तन्ते धृष्टद्युम्नपुरोगमाः। पाञ्चालानां सृञ्जयानां पाण्डवानां च यन्मुखम् ॥ निवृत्तैश्च तथा पार्थैर्भग्नं शत्रुबलं महत् ॥८-४१-३॥
कौरवान्द्रवतो ह्येष कर्णो धारयतेऽर्जुन। अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः ॥८-४१-४॥
असौ गच्छति कौरव्य द्रौणिरस्त्रभृतां वरः। तमेष प्रद्रुतः सङ्ख्ये धृष्टद्युम्नो महारथः ॥८-४१-५॥
सर्वं व्याचष्ट दुर्धर्षो वासुदेवः किरीटिने। ततो राजन्प्रादुरासीन्महाघोरो महारणः ॥८-४१-६॥
सिंहनादरवाश्चात्र प्रादुरासन्समागमे। उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम् ॥८-४१-७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.