08.044
Core and Pancharatra: The description of the battle involving various prominent warriors on both sides.
धृतराष्ट्र उवाच॥
निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे। वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ॥८-४४-१॥
द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः। किमकुर्वन्त कुरवस्तन्ममाचक्ष्व सञ्जय ॥८-४४-२॥
सञ्जय उवाच॥
दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान्। क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत् ॥८-४४-३॥
तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम्। यत्नेन महता राजन्पर्यवस्थापयद्बली ॥८-४४-४॥
व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम्। प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् ॥८-४४-५॥
प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः। धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् ॥८-४४-६॥
भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः। धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः ॥८-४४-७॥
पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम्। अभ्यद्रवन्त सङ्क्रुद्धाः समरे जितकाशिनः ॥८-४४-८॥
तथैव तावका राजन्पाण्डवानामनीकिनीम्। अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः ॥८-४४-९॥
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम्। बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् ॥८-४४-१०॥
शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव। दुःशासनं महाराज महत्या सेनया वृतम् ॥८-४४-११॥
नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः। उलूकं समरे राजन्सहदेवः समभ्ययात् ॥८-४४-१२॥
सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान्। अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः ॥८-४४-१३॥
युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे। कृतवर्मा च बलवानुत्तमौजसमाद्रवत् ॥८-४४-१४॥
भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष। सहानीकान्महाबाहुरेक एवाभ्यवारयत् ॥८-४४-१५॥
शिखण्डी च ततः कर्णं विचरन्तमभीतवत्। भीष्महन्ता महाराज वारयामास पत्रिभिः ॥८-४४-१६॥
प्रतिरब्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः। शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये व्यताडयत् ॥८-४४-१७॥
धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत। राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः ॥८-४४-१८॥
सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे। कर्णं विव्याध समरे नवत्या निशितैः शरैः ॥८-४४-१९॥
तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिः शरैः। उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ॥८-४४-२०॥
हताश्वात्तु ततो यानादवप्लुत्य महारथः। शक्तिं चिक्षेप कर्णाय सङ्क्रुद्धः शत्रुतापनः ॥८-४४-२१॥
तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः। शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ॥८-४४-२२॥
कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः। अपयातस्ततस्तूर्णं शिखण्डी जयतां वरः ॥८-४४-२३॥
ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत्। तूलराशिं समासाद्य यथा वायुर्महाजवः ॥८-४४-२४॥
धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः। दुःशासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥८-४४-२५॥
तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष। शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ॥८-४४-२६॥
धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः। दुःशासनाय सङ्क्रुद्धः प्रेषयामास भारत ॥८-४४-२७॥
आपतन्तं महावेगं धृष्टद्युम्नसमीरितम्। शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशां पते ॥८-४४-२८॥
अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः। धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्दयत् ॥८-४४-२९॥
ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष। क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः ॥८-४४-३०॥
अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ। धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् ॥८-४४-३१॥
तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः। व्यहसन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः ॥८-४४-३२॥
ततः प्रववृते युद्धं तावकानां परैः सह। घोरं प्राणभृतां काले घोररूपं परन्तप ॥८-४४-३३॥
नकुलं वृषसेनस्तु विद्ध्वा पञ्चभिरायसैः। पितुः समीपे तिष्ठन्तं त्रिभिरन्यैरविध्यत ॥८-४४-३४॥
नकुलस्तु ततः क्रुद्धो वृषसेनं स्मयन्निव। नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम् ॥८-४४-३५॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः। शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः ॥८-४४-३६॥
ततः शरसहस्रेण तावुभौ पुरुषर्षभौ। अन्योन्यमाच्छादयतामथाभज्यत वाहिनी ॥८-४४-३७॥
दृष्ट्वा तु प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः। निवारयामास बलादनुपत्य विशां पते ॥ निवृत्ते तु ततः कर्णे नकुलः कौरवान्ययौ ॥८-४४-३८॥
कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु। जुगोप चक्रं त्वरितं राधेयस्यैव मारिष ॥८-४४-३९॥
उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः। तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् ॥ सारथिं प्रेषयामास यमस्य सदनं प्रति ॥८-४४-४०॥
उलूकस्तु ततो यानादवप्लुत्य विशां पते। त्रिगर्तानां बलं पूर्णं जगाम पितृनन्दनः ॥८-४४-४१॥
सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः। ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव ॥८-४४-४२॥
सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान्। विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् ॥८-४४-४३॥
अथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत। सारथिं च महाराज त्रिभिरेव समार्दयत् ॥ अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम् ॥८-४४-४४॥
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ। आरुरोह रथं तूर्णमुलूकस्य महारथः ॥ अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः ॥८-४४-४५॥
सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम्। अभिदुद्राव वेगेन ततोऽनीकमभिद्यत ॥८-४४-४६॥
शैनेयशरनुन्नं तु ततः सैन्यं विशां पते। भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत् ॥८-४४-४७॥
भीमसेनं तव सुतो वारयामास संयुगे। तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् ॥ चक्रे लोकेश्वरं तत्र तेनातुष्यन्त चारणाः ॥८-४४-४८॥
ततोऽपायान्नृपस्तत्र भीमसेनस्य गोचरात्। कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् ॥ तत्र रावो महानासीद्भीममेकं जिघांसताम् ॥८-४४-४९॥
युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे। अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः ॥८-४४-५०॥
युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ। ततोऽपायाद्रथेनैव युधामन्युर्महारथः ॥८-४४-५१॥
उत्तमौजास्तु हार्दिक्यं शरैर्भीमपराक्रमम्। छादयामास सहसा मेघो वृष्ट्या यथाचलम् ॥८-४४-५२॥
तद्युद्धं सुमहच्चासीद्घोररूपं परन्तप। यादृशं न मया युद्धं दृष्टपूर्वं विशां पते ॥८-४४-५३॥
कृतवर्मा ततो राजन्नुत्तमौजसमाहवे। हृदि विव्याध स तदा रथोपस्थ उपाविशत् ॥८-४४-५४॥
सारथिस्तमपोवाह रथेन रथिनां वरम्। ततस्तु सत्वरं राजन्पाण्डुसैन्यमुपाद्रवत् ॥८-४४-५५॥