Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.045
Pancharatra and Core: Arjuna overpowers Ashwatthama; the Kaurava army retreats in panic; requested by Duryodhana, Karna releases the Bhargava weapon, uprooting Pandava army; Arjuna and Krishna go to see the injured Yudhisthira, leaving the Samsaptakas in the hands of Bhima.
सञ्जय उवाच॥
द्रौणिस्तु रथवंशेन महता परिवारितः। आपतत्सहसा राजन्यत्र राजा व्यवस्थितः ॥८-४५-१॥
तमापतन्तं सहसा शूरः शौरिसहायवान्। दधार सहसा पार्थो वेलेव मकरालयम् ॥८-४५-२॥
ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान्। अर्जुनं वासुदेवं च छादयामास पत्रिभिः ॥८-४५-३॥
अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः। विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ॥८-४५-४॥
अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव। तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत ॥८-४५-५॥
यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसया। तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् ॥८-४५-६॥
अस्त्रयुद्धे ततो राजन्वर्तमाने भयावहे। अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ॥८-४५-७॥
स दिशो विदिशश्चैव छादयित्वा विजिह्मगैः। वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ॥८-४५-८॥
ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः। चकार समरे भूमिं शोणितौघतरङ्गिणीम् ॥८-४५-९॥
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः। हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः ॥८-४५-१०॥
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः। अवाकिरद्रणे कृष्णं समन्तान्निशितैः शरैः ॥८-४५-११॥
ततोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा। वक्षोदेशे समासाद्य ताडयामास संयुगे ॥८-४५-१२॥
सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत। आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत् ॥८-४५-१३॥
तमापतन्तं परिघं कार्तस्वरविभूषितम्। द्रौणिश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः ॥८-४५-१४॥
सोऽनेकधापतद्भूमौ भारद्वाजस्य सायकैः। विशीर्णः पर्वतो राजन्यथा स्यान्मातरिश्वना ॥८-४५-१५॥
ततोऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः। सारथिं चास्य भल्लेन रथनीडादपाहरत् ॥८-४५-१६॥
स सङ्गृह्य स्वयं वाहान्कृष्णौ प्राच्छादयच्छरैः। तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् ॥८-४५-१७॥
अयच्छत्तुरगान्यच्च फल्गुनं चाप्ययोधयत्। तदस्य समरे राजन्सर्वे योधा अपूजयन् ॥८-४५-१८॥
यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः। ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ॥८-४५-१९॥
प्राद्रवंस्तुरगास्ते तु शरवेगप्रबाधिताः। ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत ॥८-४५-२०॥
पाण्डवास्तु जयं लब्ध्वा तव सैन्यमुपाद्रवन्। समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ॥८-४५-२१॥
पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः। पुनः पुनरथो वीरैरभज्यत जयोद्धतैः ॥८-४५-२२॥
पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम्। शकुनेः सौबलेयस्य कर्णस्य च महात्मनः ॥८-४५-२३॥
वार्यमाणा महासेना पुत्रैस्तव जनेश्वर। नावतिष्ठत सङ्ग्रामे ताड्यमाना समन्ततः ॥८-४५-२४॥
ततो योधैर्महाराज पलायद्भिस्ततस्ततः। अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम् ॥८-४५-२५॥
तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः। नावतिष्ठत सा सेना वध्यमाना महात्मभिः ॥८-४५-२६॥
अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः। धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः ॥८-४५-२७॥
ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव। पश्य कर्ण यथा सेना पाण्डवैरर्दिता भृशम् ॥८-४५-२८॥
त्वयि तिष्ठति सन्त्रासात्पलायति समन्ततः। एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम ॥८-४५-२९॥
सहस्राणि च योधानां त्वामेव पुरुषर्षभ। क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः ॥८-४५-३०॥
एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत्। मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः ॥८-४५-३१॥
पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर। अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ॥ वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर ॥८-४५-३२॥
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान्। प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् ॥ सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः ॥८-४५-३३॥
संनिवार्य च योधान्स्वान्सत्येन शपथेन च। प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः ॥८-४५-३४॥
ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च। कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ॥८-४५-३५॥
ज्वलितैस्तैर्महाघोरैः कङ्कबर्हिणवाजितैः। सञ्छन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन ॥८-४५-३६॥
हाहाकारो महानासीत्पाञ्चालानां विशां पते। पीडितानां बलवता भार्गवास्त्रेण संयुगे ॥८-४५-३७॥
निपतद्भिर्गजै राजन्नरैश्चापि सहस्रशः। रथैश्चापि नरव्याघ्र हयैश्चापि समन्ततः ॥८-४५-३८॥
प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः। व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ॥८-४५-३९॥
कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः। दहञ्शत्रून्नरव्याघ्र शुशुभे स परन्तपः ॥८-४५-४०॥
ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह। तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ॥ चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः ॥८-४५-४१॥
तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि। धावतां च दिशो राजन्वित्रस्तानां समन्ततः ॥ आर्तनादो महांस्तत्र प्रेतानामिव सम्प्लवे ॥८-४५-४२॥
वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष। वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ॥८-४५-४३॥
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः। अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः ॥ प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ॥८-४५-४४॥
अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनञ्जयः। भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् ॥८-४५-४५॥
पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम्। नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन ॥८-४५-४६॥
सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे। अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् ॥८-४५-४७॥
सुतीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः। न च पश्यामि समरे कर्णस्य प्रपलायितम् ॥८-४५-४८॥
जीवन्प्राप्नोति पुरुषः सङ्ख्ये जयपराजयौ। जितस्य तु हृषीकेश वध एव कुतो जयः ॥८-४५-४९॥
ततो जनार्दनः प्रायाद्द्रष्टुमिच्छन्युधिष्ठिरम्। श्रमेण ग्राहयिष्यंश्च कर्णं युद्धेन मारिष ॥८-४५-५०॥
अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः। तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि ॥८-४५-५१॥
ततो धनञ्जयो द्रष्टुं राजानं बाणपीडितम्। रथेन प्रययौ क्षिप्रं सङ्ग्रामे केशवाज्ञया ॥८-४५-५२॥
गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया। सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् ॥८-४५-५३॥
युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत। दुःसहं वज्रिणा सङ्ख्ये पराजिग्ये भृगोः सुतम् ॥८-४५-५४॥
द्रौणिं पराजित्य ततोग्रधन्वा; कृत्वा महद्दुष्करमार्यकर्म। आलोकयामास ततः स्वसैन्यं; धनञ्जयः शत्रुभिरप्रधृष्यः ॥८-४५-५५॥
स युध्यमानः पृतनामुखस्था; ञ्शूराञ्शूरो हर्षयन्सव्यसाची। पूर्वापदानैः प्रथितैः प्रशंस; न्स्थिरांश्चकारात्मरथाननीके ॥८-४५-५६॥
अपश्यमानस्तु किरीटमाली; युधि ज्येष्ठं भ्रातरमाजमीढम्। उवाच भीमं तरसाभ्युपेत्य; राज्ञः प्रवृत्तिस्त्विह केति राजन् ॥८-४५-५७॥
भीम उवाच॥
अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः। कर्णबाणविभुग्नाङ्गो यदि जीवेत्कथञ्चन ॥८-४५-५८॥
अर्जुन उवाच॥
तस्माद्भवाञ्शीघ्रमितः प्रयातु; राज्ञः प्रवृत्त्यै कुरुसत्तमस्य। नूनं हि विद्धोऽतिभृशं पृषत्कैः; कर्णेन राजा शिबिरं गतोऽसौ ॥८-४५-५९॥
यः सम्प्रहारे निशि सम्प्रवृत्ते; द्रोणेन विद्धोऽतिभृशं तरस्वी। तस्थौ च तत्रापि जयप्रतीक्षो; द्रोणेन यावन्न हतः किलासीत् ॥८-४५-६०॥
स संशयं गमितः पाण्डवाग्र्यः; सङ्ख्येऽद्य कर्णेन महानुभावः। ज्ञातुं प्रयाह्याशु तमद्य भीम; स्थास्याम्यहं शत्रुगणान्निरुध्य ॥८-४५-६१॥
भीम उवाच॥
त्वमेव जानीहि महानुभाव; राज्ञः प्रवृत्तिं भरतर्षभस्य। अहं हि यद्यर्जुन यामि तत्र; वक्ष्यन्ति मां भीत इति प्रवीराः ॥८-४५-६२॥
ततोऽब्रवीदर्जुनो भीमसेनं; संशप्तकाः प्रत्यनीकं स्थिता मे। एतानहत्वा न मया तु शक्य; मितोऽपयातुं रिपुसङ्घगोष्ठात् ॥८-४५-६३॥
अथाब्रवीदर्जुनं भीमसेनः; स्ववीर्यमाश्रित्य कुरुप्रवीर। संशप्तकान्प्रतियोत्स्यामि सङ्ख्ये; सर्वानहं याहि धनञ्जयेति ॥८-४५-६४॥
तद्भीमसेनस्य वचो निशम्य; सुदुर्वचं भ्रातुरमित्रमध्ये। द्रष्टुं कुरुश्रेष्ठमभिप्रयातुं; प्रोवाच वृष्णिप्रवरं तदानीम् ॥८-४५-६५॥
चोदयाश्वान्हृषीकेश विगाह्यैतं रथार्णवम्। अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ॥८-४५-६६॥
ततो हयान्सर्वदाशार्हमुख्यः; प्राचोदयद्भीममुवाच चेदम्। नैतच्चित्रं तव कर्माद्य वीर; यास्यामहे जहि भीमारिसङ्घान् ॥८-४५-६७॥
ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः। शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः ॥८-४५-६८॥
प्रत्यनीके व्यवस्थाप्य भीमसेनमरिंदमम्। संदिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम् ॥८-४५-६९॥
ततस्तु गत्वा पुरुषप्रवीरौ; राजानमासाद्य शयानमेकम्। रथादुभौ प्रत्यवरुह्य तस्मा; द्ववन्दतुर्धर्मराजस्य पादौ ॥८-४५-७०॥
तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ। मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम् ॥८-४५-७१॥
तावभ्यनन्दद्राजा हि विवस्वानश्विनाविव। हते महासुरे जम्भे शक्रविष्णू यथा गुरुः ॥८-४५-७२॥
मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः। हर्षगद्गदया वाचा प्रीतः प्राह परन्तपौ ॥८-४५-७३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.