Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.053
Core and Pancharatra: Uttamauja cuts off the head of Karna's son Sushena, causing depression to Karna. Bhima launches his attack on Duryodhana's brothers.
सञ्जय उवाच॥
तेषामनीकानि बृहद्ध्वजानि; रणे समृद्धानि समागतानि। गर्जन्ति भेरीनिनदोन्मुखानि; मेघैर्यथा मेघगणास्तपान्ते ॥८-५३-१॥
महागजाभ्राकुलमस्त्रतोयं; वादित्रनेमीतलशब्दवच्च। हिरण्यचित्रायुधवैद्युतं च; महारथैरावृतशब्दवच्च ॥८-५३-२॥
तद्भीमवेगं रुधिरौघवाहि; खड्गाकुलं क्षत्रियजीववाहि। अनार्तवं क्रूरमनिष्टवर्षं; बभूव तत्संहरणं प्रजानाम् ॥८-५३-३॥
रथान्ससूतान्सहयान्गजांश्च; सर्वानरीन्मृत्युवशं शरौघैः। निन्ये हयांश्चैव तथा ससादी; न्पदातिसङ्घांश्च तथैव पार्थः ॥८-५३-४॥
कृपः शिखण्डी च रणे समेतौ; दुर्योधनं सात्यकिरभ्यगच्छत। श्रुतश्रवा द्रोणसुतेन सार्धं; युधामन्युश्चित्रसेनेन चापि ॥८-५३-५॥
कर्णस्य पुत्रस्तु रथी सुषेणं; समागतः सृञ्जयांश्चोत्तमौजाः। गान्धारराजं सहदेवः क्षुधार्तो; महर्षभं सिंह इवाभ्यधावत् ॥८-५३-६॥
शतानीको नाकुलिः कर्णपुत्रं; युवा युवानं वृषसेनं शरौघैः। समार्दयत्कर्णसुतश्च वीरः; पाञ्चालेयं शरवर्षैरनेकैः ॥८-५३-७॥
रथर्षभः कृतवर्माणमार्च्छ; न्माद्रीपुत्रो नकुलश्चित्रयोधी। पाञ्चालानामधिपो याज्ञसेनिः; सेनापतिं कर्णमार्च्छत्ससैन्यम् ॥८-५३-८॥
दुःशासनो भारत भारती च; संशप्तकानां पृतना समृद्धा। भीमं रणे शस्त्रभृतां वरिष्ठं; तदा समार्च्छत्तमसह्यवेगम् ॥८-५३-९॥
कर्णात्मजं तत्र जघान शूर; स्तथाच्छिनच्चोत्तमौजाः प्रसह्य। तस्योत्तमाङ्गं निपपात भूमौ; निनादयद्गां निनदेन खं च ॥८-५३-१०॥
सुषेणशीर्षं पतितं पृथिव्यां; विलोक्य कर्णोऽथ तदार्तरूपः। क्रोधाद्धयांस्तस्य रथं ध्वजं च; बाणैः सुधारैर्निशितैर्न्यकृन्तत् ॥८-५३-११॥
स तूत्तमौजा निशितैः पृषत्कै; र्विव्याध खड्गेन च भास्वरेण। पार्ष्णिं हयांश्चैव कृपस्य हत्वा; शिखण्डिवाहं स ततोऽभ्यरोहत् ॥८-५३-१२॥
कृपं तु दृष्ट्वा विरथं रथस्थो; नैच्छच्छरैस्ताडयितुं शिखण्डी। तं द्रौणिरावार्य रथं कृपं स्म; समुज्जह्रे पङ्कगतां यथा गाम् ॥८-५३-१३॥
हिरण्यवर्मा निशितैः पृषत्कै; स्तवात्मजानामनिलात्मजो वै। अतापयत्सैन्यमतीव भीमः; काले शुचौ मध्यगतो यथार्कः ॥८-५३-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.