08.052
Pancharatra and Core: Arjuna thanks Krishna for his assuring words and then indulges in his own self-boosting, preparing mentally to face Karna.
सञ्जय उवाच॥
स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम्। विशोकः सम्प्रहृष्टश्च क्षणेन समपद्यत ॥८-५२-१॥
ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः। दध्रे कर्णविनाशाय केशवं चाभ्यभाषत ॥८-५२-२॥
त्वया नाथेन गोविन्द ध्रुव एष जयो मम। प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः ॥८-५२-३॥
त्वत्सहायो ह्यहं कृष्ण त्रीँल्लोकान्वै समागतान्। प्रापयेयं परं लोकं किमु कर्णं महारणे ॥८-५२-४॥
पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन। पश्यामि कर्णं समरे विचरन्तमभीतवत् ॥८-५२-५॥
भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः। सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् ॥८-५२-६॥
अयं खलु स सङ्ग्रामो यत्र कृष्ण मया कृतम्। कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति ॥८-५२-७॥
अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे। गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ॥८-५२-८॥
अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते। दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् ॥८-५२-९॥
अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात्। पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते ॥८-५२-१०॥
अद्य दुर्योधनो राजा जीविताच्च निराशकः। भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते ॥८-५२-११॥
अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम्। स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ॥८-५२-१२॥
अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै शरान्। दुरोदरं च गाण्डीवं मण्डलं च रथं मम ॥८-५२-१३॥
योऽसौ रणे नरं नान्यं पृथिव्यामभिमन्यते। तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् ॥ गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् ॥८-५२-१४॥
अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत्। सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति ॥८-५२-१५॥
ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः। हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ॥८-५२-१६॥
अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत्। अनृतं तत्करिष्यन्ति मामका निशिताः शराः ॥८-५२-१७॥
हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽब्रवीत्। तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् ॥८-५२-१८॥
यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहन्मनाः। अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान् ॥ तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन ॥८-५२-१९॥
अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः। विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव ॥८-५२-२०॥
अद्य दुर्योधनो राजा पृथिवीमन्ववेक्षताम्। हते कर्णे मया सङ्ख्ये सपुत्रे ससुहृज्जने ॥८-५२-२१॥
अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः। जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् ॥८-५२-२२॥
अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम्। क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च ॥८-५२-२३॥
अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम्। हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव ॥८-५२-२४॥
अद्य कर्णे हते युद्धे सोमकानां महारथाः। कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि ॥८-५२-२५॥
न जाने च कथं प्रीतिः शैनेयस्याद्य माधव। भविष्यति हते कर्णे मयि चापि जयाधिके ॥८-५२-२६॥
अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम्। प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि ॥८-५२-२७॥
धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव। अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे ॥८-५२-२८॥
अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम्। युध्यन्तं कौरवान्सङ्ख्ये पातयन्तं च सूतजम् ॥ भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् ॥८-५२-२९॥
धनुर्वेदे मत्समो नास्ति लोके; पराक्रमे वा मम कोऽस्ति तुल्यः। को वाप्यन्यो मत्समोऽस्ति क्षमायां; तथा क्रोधे सदृशोऽन्यो न मेऽस्ति ॥८-५२-३०॥
अहं धनुष्मानसुरान्सुरांश्च; सर्वाणि भूतानि च सङ्गतानि। स्वबाहुवीर्याद्गमये पराभवं; मत्पौरुषं विद्धि परः परेभ्यः ॥८-५२-३१॥
शरार्चिषा गाण्डिवेनाहमेकः; सर्वान्कुरून्बाह्लिकांश्चाभिपत्य। हिमात्यये कक्षगतो यथाग्नि; स्तहा दहेयं सगणान्प्रसह्य ॥८-५२-३२॥
पाणौ पृषत्का लिखिता ममैते; धनुश्च सव्ये निहितं सबाणम्। पादौ च मे सरथौ सध्वजौ च; न मादृशं युद्धगतं जयन्ति ॥८-५२-३३॥