Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.054
Core and Pancharatra: Bhima is concerned that Yudhishthira has got separated and has gone deep into the battlefield. He takes stock of his weapon inventory and expresses his confidence in annihilating the army of Duryodhana's brothers.
सञ्जय उवाच॥
अथ त्विदानीं तुमुले विमर्दे; द्विषद्भिरेको बहुभिः समावृतः। महाभये सारथिमित्युवाच; भीमश्चमूं वारयन्धार्तराष्ट्रीम् ॥ त्वं सारथे याहि जवेन वाहै; र्नयाम्येतान्धार्तराष्ट्रान्यमाय ॥८-५४-१॥
सञ्चोदितो भीमसेनेन चैवं; स सारथिः पुत्रबलं त्वदीयम्। प्रायात्ततः सारथिरुग्रवेगो; यतो भीमस्तद्बलं गन्तुमैच्छत् ॥८-५४-२॥
ततोऽपरे नागरथाश्वपत्तिभिः; प्रत्युद्ययुः कुरवस्तं समन्तात्। भीमस्य वाहाग्र्यमुदारवेगं; समन्ततो बाणगणैर्निजघ्नुः ॥८-५४-३॥
ततः शरानापततो महात्मा; चिच्छेद बाणैस्तपनीयपुङ्खैः। ते वै निपेतुस्तपनीयपुङ्खा; द्विधा त्रिधा भीमशरैर्निकृत्ताः ॥८-५४-४॥
ततो राजन्नागरथाश्वयूनां; भीमाहतानां तव राजमध्ये। घोरो निनादः प्रबभौ नरेन्द्र; वज्राहतानामिव पर्वतानाम् ॥८-५४-५॥
ते वध्यमानाश्च नरेन्द्रमुख्या; निर्भिन्ना वै भीमसेनप्रवेकैः। भीमं समन्तात्समरेऽध्यरोह; न्वृक्षं शकुन्ता इव पुष्पहेतोः ॥८-५४-६॥
ततोऽभिपातं तव सैन्यमध्ये; प्रादुश्चक्रे वेगमिवात्तवेगः। यथान्तकाले क्षपयन्दिधक्षु; र्भूतान्तकृत्काल इवात्तदण्डः ॥८-५४-७॥
तस्यातिवेगस्य रणेऽतिवेगं; नाशक्नुवन्धारयितुं त्वदीयाः। व्यात्ताननस्यापततो यथैव; कालस्य काले हरतः प्रजा वै ॥८-५४-८॥
ततो बलं भारत भारतानां; प्रदह्यमानं समरे महात्मन्। भीतं दिशोऽकीर्यत भीमनुन्नं; महानिलेनाभ्रगणो यथैव ॥८-५४-९॥
ततो धीमान्सारथिमब्रवीद्बली; स भीमसेनः पुनरेव हृष्टः। सूताभिजानीहि परान्स्वकान्वा; रथान्ध्वजांश्चापततः समेतान् ॥ युध्यन्नहं नाभिजानामि किं चि; न्मा सैन्यं स्वं छादयिष्ये पृषत्कैः ॥८-५४-१०॥
अरीन्विशोकाभिनिरीक्ष्य सर्वतो; मनस्तु चिन्ता प्रदुनोति मे भृशम्। राजातुरो नागमद्यत्किरीटी; बहूनि दुःखान्यभिजातोऽस्मि सूत ॥८-५४-११॥
एतद्दुःखं सारथे धर्मराजो; यन्मां हित्वा यातवाञ्शत्रुमध्ये। नैनं जीवन्नापि जानाम्यजीव; न्बीभत्सुं वा तन्ममाद्यातिदुःखम् ॥८-५४-१२॥
सोऽहं द्विषत्सैन्यमुदग्रकल्पं; विनाशयिष्ये परमप्रतीतः। एतान्निहत्याजिमध्ये समेता; न्प्रीतो भविष्यामि सह त्वयाद्य ॥८-५४-१३॥
सर्वांस्तूणीरान्मार्गणान्वान्ववेक्ष्य; किं शिष्टं स्यात्सायकानां रथे मे। का वा जातिः किं प्रमाणं च तेषां; ज्ञात्वा व्यक्तं तन्ममाचक्ष्व सूत ॥८-५४-१४॥
विशोक उवाच॥
षण्मार्गणानामयुतानि वीर; क्षुराश्च भल्लाश्च तथायुताख्याः। नाराचानां द्वे सहस्रे तु वीर; त्रीण्येव च प्रदराणां च पार्थ ॥८-५४-१५॥
अस्त्यायुधं पाण्डवेयावशिष्टं; न यद्वहेच्छकटं षड्गवीयम्। एतद्विद्वन्मुञ्च सहस्रशोऽपि; गदासिबाहुद्रविणं च तेऽस्ति ॥८-५४-१६॥
भीम उवाच॥
सूताद्येमं पश्य भीमप्रमुक्तैः; सम्भिन्दद्भिः पार्थिवानाशुवेगैः। उग्रैर्बाणैराहवं घोररूपं; नष्टादित्यं मृत्युलोकेन तुल्यम् ॥८-५४-१७॥
अद्यैव तद्विदितं पार्थिवानां; भविष्यति आकुमारं च सूत। निमग्नो वा समरे भीमसेन; एकः कुरून्वा समरे विजेता ॥८-५४-१८॥
सर्वे सङ्ख्ये कुरवो निष्पतन्तु; मां वा लोकाः कीर्तयन्त्वाकुमारम्। सर्वानेकस्तानहं पातयिष्ये; ते वा सर्वे भीमसेनं तुदन्तु ॥८-५४-१९॥
आशास्तारः कर्म चाप्युत्तमं वा; तन्मे देवाः केवलं साधयन्तु। आयात्विहाद्यार्जुनः शत्रुघाती; शक्रस्तूर्णं यज्ञ इवोपहूतः ॥८-५४-२०॥
ईक्षस्वैतां भारतीं दीर्यमाणा; मेते कस्माद्विद्रवन्ते नरेन्द्राः। व्यक्तं धीमान्सव्यसाची नराग्र्यः; सैन्यं ह्येतच्छादयत्याशु बाणैः ॥८-५४-२१॥
पश्य ध्वजांश्च द्रवतो विशोक; नागान्हयान्पत्तिसङ्घांश्च सङ्ख्ये। रथान्विशीर्णाञ्शरशक्तिताडिता; न्पश्यस्वैतान्रथिनश्चैव सूत ॥८-५४-२२॥
आपूर्यते कौरवी चाप्यभीक्ष्णं; सेना ह्यसौ सुभृशं हन्यमाना। धनञ्जयस्याशनितुल्यवेगै; र्ग्रस्ता शरैर्बर्हिसुवर्णवाजैः ॥८-५४-२३॥
एते द्रवन्ति स्म रथाश्वनागाः; पदातिसङ्घानवमर्दयन्तः। संमुह्यमानाः कौरवाः सर्व एव; द्रवन्ति नागा इव दावभीताः ॥ हाहाकृताश्चैव रणे विशोक; मुञ्चन्ति नादान्विपुलान्गजेन्द्राः ॥८-५४-२४॥
विशोक उवाच॥
सर्वे कामाः पाण्डव ते समृद्धाः; कपिध्वजो दृश्यते हस्तिसैन्ये। नीलाद्धनाद्विद्युतमुच्चरन्तीं; तथापश्यं विस्फुरद्वै धनुस्तत् ॥८-५४-२५॥
कपिर्ह्यसौ वीक्ष्यते सर्वतो वै; ध्वजाग्रमारुह्य धनञ्जयस्य। दिवाकराभो मणिरेष दिव्यो; विभ्राजते चैव किरीटसंस्थः ॥८-५४-२६॥
पार्श्वे भीमं पाण्डुराभ्रप्रकाशं; पश्येमं त्वं देवदत्तं सुघोषम्। अभीशुहस्तस्य जनार्दनस्य; विगाहमानस्य चमूं परेषाम् ॥८-५४-२७॥
रविप्रभं वज्रनाभं क्षुरान्तं; पार्श्वे स्थितं पश्य जनार्दनस्य। चक्रं यशो वर्धयत्केशवस्य; सदार्चितं यदुभिः पश्य वीर ॥८-५४-२८॥
भीम उवाच॥
ददामि ते ग्रामवरांश्चतुर्दश; प्रियाख्याने सारथे सुप्रसन्नः। दसीशतं चापि रथांश्च विंशतिं; यदर्जुनं वेदयसे विशोक ॥८-५४-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.