08.056
Pancharatra and Core: Praise for Karna's valour and description of how Pandava army was shattered by him single-handedly.
धृतराष्ट्र उवाच॥
ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे। दुर्योधनोऽब्रवीत्किं नु सौबलो वापि सञ्जय ॥८-५६-१॥
कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि। कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा ॥८-५६-२॥
अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम्। यथाप्रतिज्ञं योधानां राधेयः कृतवानपि ॥८-५६-३॥
कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः। शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय ॥८-५६-४॥
तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा। राधेयानामधिरथः कर्णः किमकरोद्युधि ॥८-५६-५॥
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः। एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय ॥८-५६-६॥
सञ्जय उवाच॥
अपराह्णे महाराज सूतपुत्रः प्रतापवान्। जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ॥
द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता। यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह ॥८-५६-८॥
मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान्। प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः ॥८-५६-९॥
प्रविश्य च स तां सेनां शल्यः परबलार्दनः। न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः ॥८-५६-१०॥
तं रथं मेघसङ्काशं वैयाघ्रपरिवारणम्। संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते ॥८-५६-११॥
ततो रथस्य निनदः प्रादुरासीन्महारणे। पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ॥८-५६-१२॥
ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः। जघान पाण्डवबलं शतशोऽथ सहस्रशः ॥८-५६-१३॥
तं तथा समरे कर्म कुर्वाणमतिमानुषम्। परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ॥८-५६-१४॥
तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः। नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः ॥ परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ॥८-५६-१५॥
सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः। अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ॥८-५६-१६॥
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः। द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः ॥ नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ॥८-५६-१७॥
भीमसेनस्तु राधेयं नवत्या नतपर्वणाम्। विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ॥८-५६-१८॥
ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम्। मुमोच निशितान्बाणान्पीडयन्सुमहाबलः ॥ तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ॥८-५६-१९॥
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः। अथैनं नवभिर्बाणैराजघान स्तनान्तरे ॥८-५६-२०॥
भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः। सारथिं च त्रिभिर्बाणैराजघान परन्तपः ॥८-५६-२१॥
विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः। अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ॥८-५६-२२॥
विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिः। पाञ्चालानहनच्छूरश्चेदीनां च महारथान् ॥८-५६-२३॥
ते वध्यमानाः समरे चेदिमत्स्या विशां पते। कर्णमेकमभिद्रुत्य शरसङ्घैः समार्दयन् ॥ ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः ॥८-५६-२४॥
एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत। यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ॥८-५६-२५॥
यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः। पाण्डवेयान्महाराज शरैर्वारितवान्रणे ॥८-५६-२६॥
तत्र भारत कर्णस्य लाघवेन महात्मनः। तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः ॥८-५६-२७॥
अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम्। कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ॥८-५६-२८॥
ततः कर्णो महाराज ददाह रिपुवाहिनीम्। कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ॥८-५६-२९॥
ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः। प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् ॥८-५६-३०॥
तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे। वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ॥८-५६-३१॥
तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः। कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ॥८-५६-३२॥
तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः। यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ॥८-५६-३३॥
यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते। तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ॥८-५६-३४॥
कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन्। दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ॥८-५६-३५॥
शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान्। बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ॥८-५६-३६॥
हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान्। रथांश्च विविधान्राजन्पताका व्यजनानि च ॥८-५६-३७॥
अक्षेषायुगयोक्त्राणि चक्राणि विविधानि च। चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः ॥८-५६-३८॥
तत्र भारत कर्णेन निहतैर्गजवाजिभिः। अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥८-५६-३९॥
विषमं च समं चैव हतैरश्वपदातिभिः। रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किञ्चन ॥८-५६-४०॥
नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम्। घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ॥८-५६-४१॥
राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैः। सञ्छादिता महाराज यतमाना महारथाः ॥८-५६-४२॥
ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः। अभज्यन्त महाराज यतमाना महारथाः ॥८-५६-४३॥
मृगसङ्घान्यथा क्रुद्धः सिंहो द्रावयते वने। कर्णस्तु समरे योधांस्तत्र तत्र महायशाः ॥ कालयामास तत्सैन्यं यथा पशुगणान्वृकः ॥८-५६-४४॥
दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम्। अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् ॥८-५६-४५॥
दुर्योधनो हि राजेन्द्र मुदा परमया युतः। वादयामास संहृष्टो नानावाद्यानि सर्वशः ॥८-५६-४६॥
पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः। न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् ॥८-५६-४७॥
तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः। अनेकशो महाराज बभञ्ज पुरुषर्षभः ॥८-५६-४८॥
तत्र भारत कर्णेन पाञ्चाला विंशती रथाः। निहताः सादयः क्रोधाच्चेदयश्च परःशताः ॥८-५६-४९॥
कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत। निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ॥८-५६-५०॥
आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परन्तपः। कालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह ॥८-५६-५१॥
एवमेतान्महाराज नरवाजिरथद्विपान्। हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ॥८-५६-५२॥
यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः। तथा स सोमकान्हत्वा तस्थावेको महारथः ॥८-५६-५३॥
तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम्। वध्यमानापि कर्णेन नाजहू रणमूर्धनि ॥८-५६-५४॥
राजा दुःशासनश्चैव कृपः शारद्वतस्तथा। अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः ॥ न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ॥८-५६-५५॥
कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौ। अनाशयेतां बलिनः पाञ्चालान्वै ततस्ततः ॥ तत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत् ॥८-५६-५६॥
तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ। द्रौपदेयाश्च सङ्क्रुद्धा अभ्यघ्नंस्तावकं बलम् ॥८-५६-५७॥
एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः। तावकानामपि रणे भीमं प्राप्य महाबलम् ॥८-५६-५८॥