Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.057
Pancharatra and Core: Praise of Karna's valour by Arjuna, and vice versa, recounting the past events. Then Karna makes a strategy to attack Arjuna comprehensively with all major Kaurava warriors.
सञ्जय उवाच॥
अर्जुनस्तु महाराज कृत्वा सैन्यं पृथग्विधम्। सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे ॥८-५७-१॥
शोणितोदां महीं कृत्वा मांसमज्जास्थिवाहिनीम्। वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभ ॥८-५७-२॥
एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते। भीमसेनादयश्चैते योधयन्ति महारथान् ॥ एते द्रवन्ति पाञ्चालाः कर्णात्त्रस्ता जनार्दन ॥८-५७-३॥
एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता। कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते ॥८-५७-४॥
कृपश्च कृतवर्मा च द्रौणिश्चैव महाबलः। एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः ॥ अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान् ॥८-५७-५॥
एष शल्यो रथोपस्थे रश्मिसञ्चारकोविदः। सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते ॥८-५७-६॥
तत्र मे बुद्धिरुत्पन्ना वाहयात्र महारथम्। नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन ॥८-५७-७॥
राधेयोऽप्यन्यथा पार्थान्सृञ्जयांश्च महारथान्। निःशेषान्समरे कुर्यात्पश्यतोर्नौ जनार्दन ॥८-५७-८॥
ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम्। कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना ॥८-५७-९॥
प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः। आश्वासयन्रथेनैव पाण्डुसैन्यानि सर्वशः ॥८-५७-१०॥
रथघोषः स सङ्ग्रामे पाण्डवेयस्य सम्बभौ। वासवाशनितुल्यस्य महौघस्येव मारिष ॥८-५७-११॥
महता रथघोषेण पाण्डवः सत्यविक्रमः। अभ्ययादप्रमेयात्मा विजयस्तव वाहिनीम् ॥८-५७-१२॥
तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम्। मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ॥८-५७-१३॥
अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः। निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ॥८-५७-१४॥
एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः। तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति ॥८-५७-१५॥
एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः। अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् ॥८-५७-१६॥
वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः। त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ॥८-५७-१७॥
न ह्यवस्थाप्यते पार्थो युयुत्सुः केनचित्सह। त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ॥८-५७-१८॥
विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम्। शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ॥८-५७-१९॥
द्रौपदेयान्युधामन्युमुत्तमौजसमेव च। नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च ॥८-५७-२०॥
सहसैकरथः पार्थस्त्वामभ्येति परन्तप। क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम् ॥८-५७-२१॥
त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम्। त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः ॥८-५७-२२॥
न तं पश्यामि लोकेऽस्मिंस्त्वत्तोऽप्यन्यं धनुर्धरम्। अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत् ॥८-५७-२३॥
न चास्य रक्षां पश्यामि पृष्ठतो न च पार्श्वतः। एक एवाभियाति त्वां पश्य साफल्यमात्मनः ॥८-५७-२४॥
त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे। तवैष भारो राधेय प्रत्युद्याहि धनञ्जयम् ॥८-५७-२५॥
त्वं कृतो ह्येव भीष्मेण द्रोणद्रौणिकृपैरपि। सव्यसाचिप्रतिरथस्तं निवर्तय पाण्डवम् ॥८-५७-२६॥
लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा। लयस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम् ॥८-५७-२७॥
एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः। अर्जुनस्य भयात्तूर्णं निरपेक्षा जनाधिपाः ॥८-५७-२८॥
द्रवतामथ तेषां तु युधि नान्योऽस्ति मानवः। भयहा यो भवेद्वीर त्वामृते सूतनन्दन ॥८-५७-२९॥
एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे। विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ॥८-५७-३०॥
वैदेहाम्बष्ठकाम्बोजास्तथा नग्नजितस्त्वया। गान्धाराश्च यया धृत्या जिताः सङ्ख्ये सुदुर्जयाः ॥८-५७-३१॥
तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम्। वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना ॥८-५७-३२॥
कर्ण उवाच॥
प्रकृतिस्थो हि मे शल्य इदानीं संमतस्तथा। प्रतिभासि महाबाहो विभीश्चैव धनञ्जयात् ॥८-५७-३३॥
पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे। एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् ॥८-५७-३४॥
कृष्णौ च पुरुषव्याघ्रौ तच्च सत्यं ब्रवीमि ते। नाहत्वा युधि तौ वीरावपयास्ये कथञ्चन ॥८-५७-३५॥
स्वप्स्ये वा निहतस्ताभ्यामसत्यो हि रणे जयः। कृतार्थो वा भविष्यामि हत्वा तावथ वा हतः ॥८-५७-३६॥
नैतादृशो जातु बभूव लोके; रथोत्तमो यावदनुश्रुतं नः। तमीदृशं प्रतियोत्स्यामि पार्थं; महाहवे पश्य च पौरुषं मे ॥८-५७-३७॥
रथे चरत्येष रथप्रवीरः; शीघ्रैर्हयैः कौरवराजपुत्रः। स वाद्य मां नेष्यति कृच्छ्रमेत; त्कर्णस्यान्तादेतदन्ताः स्थ सर्वे ॥८-५७-३८॥
अस्वेदिनौ राजपुत्रस्य हस्ता; ववेपिनौ जातकिणौ बृहन्तौ। दृढायुधः कृतिमान्क्षिप्रहस्तो; न पाण्डवेयेन समोऽस्ति योधः ॥८-५७-३९॥
गृह्णात्यनेकानपि कङ्कपत्रा; नेकं यथा तान्क्षितिपान्प्रमथ्य। ते क्रोशमात्रं निपतन्त्यमोघाः; कस्तेन योधोऽस्ति समः पृथिव्याम् ॥८-५७-४०॥
अतोषयत्पाण्डवेयो हुताशं; कृष्णद्वितीयोऽतिरथस्तरस्वी। लेभे चक्रं यत्र कृष्णो महात्मा; धनुर्गाण्डीवं पाण्डवः सव्यसाची ॥८-५७-४१॥
श्वेताश्वयुक्तं च सुघोषमग्र्यं; रथं महाबाहुरदीनसत्त्वः। महेषुधी चाक्षयौ दिव्यरूपौ; शस्त्राणि दिव्यानि च हव्यवाहात् ॥८-५७-४२॥
तथेन्द्रलोके निजघान दैत्या; नसङ्ख्येयान्कालकेयांश्च सर्वान्। लेभे शङ्खं देवदत्तं स्म तत्र; को नाम तेनाभ्यधिकः पृथिव्याम् ॥८-५७-४३॥
महादेवं तोषयामास चैव; साक्षात्सुयुद्धेन महानुभावः। लेभे ततः पाशुपतं सुघोरं; त्रैलोक्यसंहारकरं महास्त्रम् ॥८-५७-४४॥
पृथक्पृथग्लोकपालाः समेता; ददुर्ह्यस्त्राण्यप्रमेयाणि यस्य। यैस्ताञ्जघानाशु रणे नृसिंहा; न्स कालखञ्जानसुरान्समेतान् ॥८-५७-४५॥
तथा विराटस्य पुरे समेता; न्सर्वानस्मानेकरथेन जित्वा। जहार तद्गोधनमाजिमध्ये; वस्त्राणि चादत्त महारथेभ्यः ॥८-५७-४६॥
तमीदृशं वीर्यगुणोपपन्नं; कृष्णद्वितीयं वरये रणाय। अनन्तवीर्येण च केशवेन; नारायणेनाप्रतिमेन गुप्तम् ॥८-५७-४७॥
वर्षायुतैर्यस्य गुणा न शक्या; वक्तुं समेतैरपि सर्वलोकैः। महात्मनः शङ्खचक्रासिपाणे; र्विष्णोर्जिष्णोर्वसुदेवात्मजस्य ॥
उभौ हि शूरौ कृतिनौ दृढास्त्रौ; महारथौ संहननोपपन्नौ। एतादृशौ फल्गुनवासुदेवौ; कोऽन्यः प्रतीयान्मदृते नु शल्य ॥८-५७-४९॥
एतावहं युधि वा पातयिष्ये; मां वा कृष्णौ निहनिष्यतोऽद्य। इति ब्रुवञ्शल्यममित्रहन्ता; कर्णो रणे मेघ इवोन्ननाद ॥८-५७-५०॥
अभ्येत्य पुत्रेण तवाभिनन्दितः; समेत्य चोवाच कुरुप्रवीरान्। कृपं च भोजं च महाभुजावुभौ; तथैव गान्धारनृपं सहानुजम् ॥ गुरोः सुतं चावरजं तथात्मनः; पदातिनोऽथ द्विपसादिनोऽन्यान् ॥८-५७-५१॥
निरुन्धताभिद्रवताच्युतार्जुनौ; श्रमेण संयोजयताशु सर्वतः। यथा भवद्भिर्भृशविक्षतावुभौ; सुखेन हन्यामहमद्य भूमिपाः ॥८-५७-५२॥
तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं; जिघांसवो वीरतमाः समभ्ययुः। नदीनदान्भूरिजलो महार्णवो; यथा तथा तान्समरेऽर्जुनोऽग्रसत् ॥८-५७-५३॥
न संदधानो न तथा शरोत्तमा; न्प्रमुञ्चमानो रिपुभिः प्रदृश्यते। धनञ्जयस्तस्य शरैश्च दारिता; हताश्च पेतुर्नरवाजिकुञ्जराः ॥८-५७-५४॥
शरार्चिषं गाण्डिवचारुमण्डलं; युगान्तसूर्यप्रतिमानतेजसम्। न कौरवाः शेकुरुदीक्षितुं जयं; यथा रविं व्याधितचक्षुषो जनाः ॥८-५७-५५॥
तमभ्यधावद्विसृजञ्शरान्कृप; स्तथैव भोजस्तव चात्मजः स्वयम्। जिघांसुभिस्तान्कुशलैः शरोत्तमा; न्महाहवे सञ्जवितान्प्रयत्नतः ॥ शरैः प्रचिच्छेद च पाण्डवस्त्वर; न्पराभिनद्वक्षसि च त्रिभिस्त्रिभिः ॥८-५७-५६॥
स गाण्डिवाभ्यायतपूर्णमण्डल; स्तपन्रिपूनर्जुनभास्करो बभौ। शरोग्ररश्मिः शुचिशुक्रमध्यगो; यथैव सूर्यः परिवेषगस्तथा ॥८-५७-५७॥
अथाग्र्यबाणैर्दशभिर्धनञ्जयं; पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः। चतुर्भिरश्वांश्चतुरः कपिं तथा; शरैः स नाराचवरैरवाकिरत् ॥८-५७-५८॥
तथा तु तत्तत्स्फुरदात्तकार्मुकं; त्रिभिः शरैर्यन्तृशिरः क्षुरेण। हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं; धनञ्जयो द्रौणिरथान्न्यपातयत् ॥८-५७-५९॥
स रोषपूर्णोऽशनिवज्रहाटकै; रलङ्कृतं तक्षकभोगवर्चसम्। सुबन्धनं कार्मुकमन्यदाददे; यथा महाहिप्रवरं गिरेस्तथा ॥८-५७-६०॥
स्वमायुधं चोपविकीर्य भूतले; धनुश्च कृत्वा सगुणं गुणाधिकः। समानयानावजितौ नरोत्तमौ; शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ॥८-५७-६१॥
कृपश्च भोजश्च तथात्मजश्च ते; तमोनुदं वारिधरा इवापतन्। कृपस्य पार्थः सशरं शरासनं; हयान्ध्वजं सारथिमेव पत्रिभिः ॥८-५७-६२॥
शरैः प्रचिच्छेद तवात्मजस्य; ध्वजं धनुश्च प्रचकर्त नर्दतः। जघान चाश्वान्कृतवर्मणः शुभा; न्ध्वजं च चिच्छेद ततः प्रतापवान् ॥८-५७-६३॥
सवाजिसूतेष्वसनान्सकेतना; ञ्जघान नागाश्वरथांस्त्वरंश्च सः। ततः प्रकीर्णं सुमहद्बलं तव; प्रदारितं सेतुरिवाम्भसा यथा ॥ ततोऽर्जुनस्याशु रथेन केशव; श्चकार शत्रूनपसव्यमातुरान् ॥८-५७-६४॥
ततः प्रयान्तं त्वरितं धनञ्जयं; शतक्रतुं वृत्रनिजघ्नुषं यथा। समन्वधावन्पुनरुच्छ्रितैर्ध्वजै; रथैः सुयुक्तैरपरे युयुत्सवः ॥८-५७-६५॥
अथाभिसृत्य प्रतिवार्य तानरी; न्धनञ्जयस्याभि रथं महारथाः। शिखण्डिशैनेययमाः शितैः शरै; र्विदारयन्तो व्यनदन्सुभैरवम् ॥८-५७-६६॥
ततोऽभिजघ्नुः कुपिताः परस्परं; शरैस्तदाञ्जोगतिभिः सुतेजनैः। कुरुप्रवीराः सह सृञ्जयैर्यथा; सुराः पुरा देववरैरयोधयन् ॥८-५७-६७॥
जयेप्सवः स्वर्गमनाय चोत्सुकाः; पतन्ति नागाश्वरथाः परन्तप। जगर्जुरुच्चैर्बलवच्च विव्यधुः; शरैः सुमुक्तैरितरेतरं पृथक् ॥८-५७-६८॥
शरान्धकारे तु महात्मभिः कृते; महामृधे योधवरैः परस्परम्। बभुर्दशाशा न दिवं च पार्थिव; प्रभा च सूर्यस्य तमोवृताभवत् ॥८-५७-६९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.