08.060
Core and Pancharatra: Karna loses his son, killed by Satyaki. Panchala army under attack by Karna is rescued by Draupadi's sons and Satyaki. Bhima is covering the rear of Arjuna. The intense battle between Bhima and Dushasana begins.
सञ्जय उवाच॥
ततः कर्णः कुरुषु प्रद्रुतेषु; वरूथिना श्वेतहयेन राजन्। पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो; महेषुभिर्वात इवाभ्रसङ्घान् ॥८-६०-१॥
सूतं रथादञ्जलिकेन पात्य; जघान चाश्वाञ्जनमेजयस्य। शतानीकं सुतसोमं च भल्लै; रवाकिरद्धनुषी चाप्यकृन्तत् ॥८-६०-२॥
धृष्टद्युम्नं निर्बिभेदाथ षड्भि; र्जघान चाश्वं दक्षिणं तस्य सङ्ख्ये। हत्वा चाश्वान्सात्यकेः सूतपुत्रः; कैकेयपुत्रं न्यवधीद्विशोकम् ॥८-६०-३॥
तमभ्यधावन्निहते कुमारे; कैकेयसेनापतिरुग्रधन्वा। शरैर्विभिन्नं भृशमुग्रवेगैः; कर्णात्मजं सोऽभ्यहनत्सुषेणम् ॥८-६०-४॥
तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त; प्रसह्य बाहू च शिरश्च कर्णः। स स्यन्दनाद्गामपतद्गतासुः; परश्वधैः शाल इवावरुग्णः ॥८-६०-५॥
हताश्वमञ्जोगतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः। प्रच्छाद्य नृत्यन्निव सौतिपुत्रः; शैनेयबाणाभिहतः पपात ॥८-६०-६॥
पुत्रे हते क्रोधपरीतचेताः; कर्णः शिनीनामृषभं जिघांसुः। हतोऽसि शैनेय इति ब्रुवन्स; व्यवासृजद्बाणममित्रसाहम् ॥८-६०-७॥
स तस्य चिच्छेद शरं शिखण्डी; त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम्। शिखण्डिनः कार्मुकं स ध्वजं च; च्छित्त्वा शराभ्यामहनत्सुजातम् ॥८-६०-८॥
शिखण्डिनं षड्भिरविध्यदुग्रो; दान्तो धार्ष्टद्युम्नशिरश्चकर्त। अथाभिनत्सुतसोमं शरेण; स संशितेनाधिरथिर्महात्मा ॥८-६०-९॥
अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः। अपाञ्चाल्यं क्रियते याहि पार्थ; कर्णं जहीत्यब्रवीद्राजसिंह ॥८-६०-१०॥
ततः प्रहस्याशु नरप्रवीरो; रथं रथेनाधिरथेर्जगाम। भये तेषां त्राणमिच्छन्सुबाहु; रभ्याहतानां रथयूथपेन ॥८-६०-११॥
विस्फार्य गाण्डीवमथोग्रघोषं; ज्यया समाहत्य तले भृशं च। बाणान्धकारं सहसैव कृत्वा; जघान नागाश्वरथान्नरांश्च ॥८-६०-१२॥
तं भीमसेनोऽनु ययौ रथेन; पृष्ठे रक्षन्पाण्डवमेकवीरम्। तौ राजपुत्रौ त्वरितौ रथाभ्यां; कर्णाय यातावरिभिर्विमुक्तौ ॥८-६०-१३॥
अत्रान्तरे सुमहत्सूतपुत्र; श्चक्रे युद्धं सोमकान्सम्प्रमृद्नन्। रथाश्वमातङ्गगणाञ्जघान; प्रच्छादयामास दिशः शरैश्च ॥८-६०-१४॥
तमुत्तमौजा जनमेजयश्च; क्रुद्धौ युधामन्युशिखण्डिनौ च। कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन ॥८-६०-१५॥
ते पञ्च पाञ्चालरथाः सुरूपै; र्वैकर्तनं कर्णमभिद्रवन्तः। तस्माद्रथाच्च्यावयितुं न शेकु; र्धैर्यात्कृतात्मानमिवेन्द्रियाणि ॥८-६०-१६॥
तेषां धनूंषि ध्वजवाजिसूतां; स्तूणं पताकाश्च निकृत्य बाणैः। तान्पञ्चभिः स त्वहनत्पृषत्कैः; कर्णस्ततः सिंह इवोन्ननाद ॥८-६०-१७॥
तस्यास्यतस्तानभिनिघ्नतश्च; ज्याबाणहस्तस्य धनुःस्वनेन। साद्रिद्रुमा स्यात्पृथिवी विशीर्णा; इत्येव मत्वा जनता व्यषीदत् ॥८-६०-१८॥
स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान्सृजन्। बभौ रणे दीप्तमरीचिमण्डलो; यथांशुमाली परिवेषवांस्तथा ॥८-६०-१९॥
शिखण्डिनं द्वादशभिः पराभिन; च्छितैः शरैः षड्भिरथोत्तमौजसम्। त्रिभिर्युधामन्युमविध्यदाशुगै; स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ ॥८-६०-२०॥
पराजिताः पञ्च महारथास्तु ते; महाहवे सूतसुतेन मारिष। निरुद्यमास्तस्थुरमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः ॥८-६०-२१॥
निमज्जतस्तानथ कर्णसागरे; विपन्ननावो वणिजो यथार्णवे। उद्दध्रिरे नौभिरिवार्णवाद्रथैः; सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ॥८-६०-२२॥
ततः शिनीनामृषभः शितैः शरै; र्निकृत्य कर्णप्रहितानिषून्बहून्। विदार्य कर्णं निशितैरयस्मयै; स्तवात्मजं ज्येष्ठमविध्यदष्टभिः ॥८-६०-२३॥
कृपोऽथ भोजश्च तवात्मजस्तथा; स्वयं च कर्णो निशितैरताडयत्। स तैश्चतुर्भिर्युयुधे यदूत्तमो; दिगीश्वरैर्दैत्यपतिर्यथा तथा ॥८-६०-२४॥
समानतेनेष्वसनेन कूजता; भृशाततेनामितबाणवर्षिणा। बभूव दुर्धर्षतरः स सात्यकिः; शरन्नभोमध्यगतो यथा रविः ॥८-६०-२५॥
पुनः समासाद्य रथान्सुदंशिताः; शिनिप्रवीरं जुगुपुः परन्तपाः। समेत्य पाञ्चालरथा महारणे; मरुद्गणाः शक्रमिवारिनिग्रहे ॥८-६०-२६॥
ततोऽभवद्युद्धमतीव दारुणं; तवाहितानां तव सैनिकैः सह। रथाश्वमातङ्गविनाशनं तथा; यथा सुराणामसुरैः पुराभवत् ॥८-६०-२७॥
रथद्विपा वाजिपदातयोऽपि वा; भ्रमन्ति नानाविधशस्त्रवेष्टिताः। परस्परेणाभिहताश्च चस्खलु; र्विनेदुरार्ता व्यसवोऽपतन्त च ॥८-६०-२८॥
तथा गते भीममभीस्तवात्मजः; ससार राजावरजः किरञ्शरैः। तमभ्यधावत्त्वरितो वृकोदरो; महारुरुं सिंह इवाभिपेतिवान् ॥८-६०-२९॥
ततस्तयोर्युद्धमतीतमानुषं; प्रदीव्यतोः प्राणदुरोदरेऽभवत्। परस्परेणाभिनिविष्टरोषयो; रुदग्रयोः शम्बरशक्रयोर्यथा ॥८-६०-३०॥
शरैः शरीरान्तकरैः सुतेजनै; र्निजघ्नतुस्तावितरेतरं भृशम्। सकृत्प्रभिन्नाविव वाशितान्तरे; महागजौ मन्मथसक्तचेतसौ ॥८-६०-३१॥
तवात्मजस्याथ वृकोदरस्त्वर; न्धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत्। ललाटमप्यस्य बिभेद पत्रिणा; शिरश्च कायात्प्रजहार सारथेः ॥८-६०-३२॥
स राजपुत्रोऽन्यदवाप्य कार्मुकं; वृकोदरं द्वादशभिः पराभिनत्। स्वयं नियच्छंस्तुरगानजिह्मगैः; शरैश्च भीमं पुनरभ्यवीवृषत् ॥८-६०-३३॥