08.059
Pancharatra and Core: The combined strength of Bhima and Arjuna foils the attack of the Kaurava army strategized by Karna.
सञ्जय उवाच॥
तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम्। युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः ॥ परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ॥८-५९-१॥
कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान्। मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ॥८-५९-२॥
ततः कर्णरथं यान्तमरीन्घ्नन्तं धनञ्जयम्। बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः ॥८-५९-३॥
त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान्। जघान नवतिं वीरानर्जुनो निशितैः शरैः ॥८-५९-४॥
तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना। सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा ॥८-५९-५॥
ततः सरथनागाश्वाः कुरवः कुरुसत्तम। निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ॥८-५९-६॥
तदायस्तममुक्तास्त्रमुदीर्णवरवारणम्। पुत्राणां ते महत्सैन्यं समरौत्सीद्धनञ्जयः ॥८-५९-७॥
शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः। प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ॥८-५९-८॥
तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम्। व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ॥८-५९-९॥
ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः। पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात् ॥८-५९-१०॥
कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिः। कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ॥८-५९-११॥
तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन्। चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ॥८-५९-१२॥
अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैः। सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत् ॥८-५९-१३॥
ते हेमपुङ्खैरिषुभिराचिता हेममालिनः। हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः ॥८-५९-१४॥
ततो गाण्डीवनिर्घोषो महानासीद्विशां पते। स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ॥८-५९-१५॥
कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततः। अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥८-५९-१६॥
रथा हीना महाराज रथिभिर्वाजिभिस्तथा। गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ॥८-५९-१७॥
अश्वारोहा महाराज धावमानास्ततस्ततः। तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः ॥८-५९-१८॥
तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत। यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ॥८-५९-१९॥
ततस्त्र्यङ्गेण महता बलेन भरतर्षभ। दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ॥८-५९-२०॥
हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान्। जवेनाभ्यद्रवद्राजन्धनञ्जयरथं प्रति ॥८-५९-२१॥
ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम्। दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति ॥८-५९-२२॥
हतावशिष्टांस्तुरगानर्जुनेन महाजवान्। भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे ॥८-५९-२३॥
कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम्। प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ॥८-५९-२४॥
ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत्। सा जघान बहूनश्वानश्वारोहांश्च मारिष ॥८-५९-२५॥
कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवः। पोथयामास गदया सशब्दं तेऽपतन्हताः ॥८-५९-२६॥
हत्वा तु तद्गजानीकं भीमसेनो महाबलः। पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात् ॥८-५९-२७॥
हतं पराङ्मुखप्रायं निरुत्साहं परं बलम्। व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् ॥८-५९-२८॥
विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम्। दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः ॥८-५९-२९॥
ततः कुरूणामभवदार्तनादो महामृधे। रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः ॥८-५९-३०॥
हाहाकृतं भृशं तस्थौ लीयमानं परस्परम्। अलातचक्रवत्सैन्यं तदाभ्रमत तावकम् ॥८-५९-३१॥
आदीप्तं तव तत्सैन्यं शरैश्छिन्नतनुच्छदम्। आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा ॥८-५९-३२॥
तद्दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनः। निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ॥८-५९-३३॥
अविषह्यं तु पार्थस्य शरसम्पातमाहवे। मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ॥८-५९-३४॥
ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः। प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ॥८-५९-३५॥
अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून्। हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान् ॥८-५९-३६॥
पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रति। अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ॥८-५९-३७॥
कुरवो हि महाराज निर्विषाः पन्नगा इव। कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः ॥८-५९-३८॥
यथा सर्वाणि भूतानि मृत्योर्भीतानि भारत। धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च ॥८-५९-३९॥
तथा कर्णं महेष्वासं पुत्रास्तव नराधिप। उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः ॥८-५९-४०॥
ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान्। मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च ॥८-५९-४१॥
सम्भग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम्। धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ॥ पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ॥८-५९-४२॥
ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः। कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् ॥८-५९-४३॥
ततः शरसहस्राणि कर्णमुक्तानि मारिष। व्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर ॥८-५९-४४॥
ततो रणो महानासीत्पाञ्चालानां विशां पते। वध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम् ॥८-५९-४५॥