Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.068
Pancharatra and Core: The death of Karna devastates Duryodhana. The sound of the conches Pāñcajanya and Devadatta resonated throughout the earth.
सञ्जय उवाच॥
शल्यस्तु कर्णार्जुनयोर्विमर्दे; बलानि दृष्ट्वा मृदितानि बाणैः। दुर्योधनं यान्तमवेक्षमाणो; संदर्शयद्भारत युद्धभूमिम् ॥८-६८-१॥
निपातितस्यन्दनवाजिनागं; दृष्ट्वा बलं तद्धतसूतपुत्रम्। दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो; मुहुर्मुहुर्न्यश्वसदार्तरूपः ॥८-६८-२॥
कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम्। यदृच्छया सूर्यमिवावनिस्थं; दिदृक्षवः सम्परिवार्य तस्थुः ॥८-६८-३॥
प्रहृष्टवित्रस्तविषण्णविस्मृता; स्तथापरे शोकगता इवाभवन्। परे त्वदीयाश्च परस्परेण; यथा यथैषां प्रकृतिस्तथाभवन् ॥८-६८-४॥
प्रविद्धवर्माभरणाम्बरायुधं; धनञ्जयेनाभिहतं हतौजसम्। निशम्य कर्णं कुरवः प्रदुद्रुवु; र्हतर्षभा गाव इवाकुलाकुलाः ॥८-६८-५॥
कृत्वा विमर्दं भृशमर्जुनेन; कर्णं हतं केसरिणेव नागम्। दृष्ट्वा शयानं भुवि मद्रराजो; भीतोऽपसर्पत्सरथः सुशीघ्रम् ॥८-६८-६॥
मद्राधिपश्चापि विमूढचेता; स्तूर्णं रथेनापहृतध्वजेन। दुर्योधनस्यान्तिकमेत्य शीघ्रं; सम्भाष्य दुःखार्तमुवाच वाक्यम् ॥८-६८-७॥
विशीर्णनागाश्वरथप्रवीरं; बलं त्वदियं यमराष्ट्रकल्पम्। अन्योन्यमासाद्य हतं महद्भि; र्नराश्वनागैर्गिरिकूटकल्पैः ॥८-६८-८॥
नैतादृशं भारत युद्धमासी; द्यथाद्य कर्णार्जुनयोर्बभूव। ग्रस्तौ हि कर्णेन समेत्य कृष्णा; वन्ये च सर्वे तव शत्रवो ये ॥८-६८-९॥
दैवं तु यत्तत्स्ववशं प्रवृत्तं; तत्पाण्डवान्पाति हिनस्ति चास्मान्। तवार्थसिद्ध्यर्थकरा हि सर्वे; प्रसह्य वीरा निहता द्विषद्भिः ॥८-६८-१०॥
कुबेरवैवस्वतवासवानां; तुल्यप्रभावाम्बुपतेश्च वीराः। वीर्येण शौर्येण बलेन चैव; तैस्तैश्च युक्ता विपुलैर्गुणौघैः ॥८-६८-११॥
अवध्यकल्पा निहता नरेन्द्रा; स्तवार्थकामा युधि पाण्डवेयैः। तन्मा शुचो भारत दिष्टमेत; त्पर्यायसिद्धिर्न सदास्ति सिद्धिः ॥८-६८-१२॥
एतद्वचो मद्रपतेर्निशम्य; स्वं चापनीतं मनसा निरीक्ष्य। दुर्योधनो दीनमना विसञ्ज्ञः; पुनः पुनर्न्यश्वसदार्तरूपः ॥८-६८-१३॥
तं ध्यानमूकं कृपणं भृशार्त; मार्तायनिर्दीनमुवाच वाक्यम्। पश्येदमुग्रं नरवाजिनागै; रायोधनं वीरहतैः प्रपन्नम् ॥८-६८-१४॥
महीधराभैः पतितैर्महागजैः; सकृत्प्रविद्धैः शरविद्धमर्मभिः। तैर्विह्वलद्भिश्च गतासुभिश्च; प्रध्वस्तयन्त्रायुधवर्मयोधैः ॥८-६८-१५॥
वज्रापविद्धैरिव चाचलेन्द्रै; र्विभिन्नपाषाणमृगद्रुमौषधैः। प्रविद्धघण्टाङ्कुशतोमरध्वजैः; सहेममालै रुधिरौघसम्प्लुतैः ॥८-६८-१६॥
शरावभिन्नैः पतितैश्च वाजिभिः; श्वसद्भिरन्यैः क्षतजं वमद्भिः। दीनैः स्तनद्भिः परिवृत्तनेत्रै; र्महीं दशद्भिः कृपणं नदद्भिः ॥८-६८-१७॥
तथापविद्धैर्गजवाजियोधै; र्मन्दासुभिश्चैव गतासुभिश्च। नराश्वनागैश्च रथैश्च मर्दितै; र्मही महावैतरणीव दुर्दृशा ॥८-६८-१८॥
गजैर्निकृत्तापरहस्तगात्रै; रुद्वेपमानैः पतितैः पृथिव्याम्। यशस्विभिर्नागरथाश्वयोधिभिः; पदातिभिश्चाभिमुखैर्हतैः परैः ॥ विशीर्णवर्माभरणाम्बरायुधै; र्वृता निशान्तैरिव पावकैर्मही ॥८-६८-१९॥
शरप्रहाराभिहतैर्महाबलै; रवेक्ष्यमाणैः पतितैः सहस्रशः। प्रनष्टसञ्ज्ञैः पुनरुच्छ्वसद्भि; र्मही बभूवानुगतैरिवाग्निभिः ॥ दिवश्च्युतैर्भूरतिदीप्तिमद्भि; र्नक्तं ग्रहैर्द्यौरमलेव दीप्तैः ॥८-६८-२०॥
शरास्तु कर्णार्जुनबाहुमुक्ता; विदार्य नागाश्वमनुष्यदेहान्। प्राणान्निरस्याशु महीमतीयु; र्महोरगा वासमिवाभितोऽस्त्रैः ॥८-६८-२१॥
हतैर्मनुष्याश्वगजैश्च सङ्ख्ये; शरावभिन्नैश्च रथैर्बभूव। धनञ्जयस्याधिरथेश्च मार्गे; गजैरगम्या वसुधातिदुर्गा ॥८-६८-२२॥
रथैर्वरेषून्मथितैश्च योधैः; संस्यूतसूताश्ववरायुधध्वजैः। विशीर्णशस्त्रैर्विनिकृत्तबन्धुरै; र्निकृत्तचक्राक्षयुगत्रिवेणुभिः ॥८-६८-२३॥
विमुक्तयन्त्रैर्निहतैरयस्मयै; र्हतानुषङ्गैर्विनिषङ्गबन्धुरैः। प्रभग्ननीडैर्मणिहेममण्डितैः; स्तृता मही द्यौरिव शारदैर्घनैः ॥८-६८-२४॥
विकृष्यमणैर्जवनैरलङ्कृतै; र्हतेश्वरैराजिरथैः सुकल्पितैः। मनुष्यमातङ्गरथाश्वराशिभि; र्द्रुतं व्रजन्तो बहुधा विचूर्णिताः ॥८-६८-२५॥
सहेमपट्टाः परिघाः परश्वधाः; कडङ्गरायोमुसलानि पट्टिशाः। पेतुश्च खड्गा विमला विकोशा; गदाश्च जाम्बूनदपट्टबद्धाः ॥८-६८-२६॥
चापानि रुक्माङ्गदभूषणानि; शराश्च कार्तस्वरचित्रपुङ्खाः। ऋष्ट्यश्च पीता विमला विकोशाः; प्रासाः सखड्गाः कनकावभासाः ॥८-६८-२७॥
छत्राणि वालव्यजनानि शङ्खाः; स्रजश्च पुष्पोत्तमहेमचित्राः। कुथाः पताकाम्बरवेष्टिताश्च; किरीटमाला मुकुटाश्च शुभ्राः ॥८-६८-२८॥
प्रकीर्णका विप्रकीर्णाः कुथाश्च; प्रधानमुक्तातरलाश्च हाराः। आपीडकेयूरवराङ्गदानि; ग्रैवेयनिष्काः ससुवर्णसूत्राः ॥८-६८-२९॥
मण्युत्तमा वज्रसुवर्णमुक्ता; रत्नानि चोच्चावचमङ्गलानि। गात्राणि चात्यन्तसुखोचितानि; शिरांसि चेन्दुप्रतिमाननानि ॥८-६८-३०॥
देहांश्च भोगांश्च परिच्छदांश्च; त्यक्त्वा मनोज्ञानि सुखानि चापि। स्वधर्मनिष्ठां महतीमवाप्य; व्याप्तांश्च लोकान्यशसा समीयुः ॥८-६८-३१॥
इत्येवमुक्त्वा विरराम शल्यो; दुर्योधनः शोकपरीतचेताः। हा कर्ण हा कर्ण इति ब्रुवाण; आर्तो विसञ्ज्ञो भृशमश्रुनेत्रः ॥८-६८-३२॥
तं द्रोणपुत्रप्रमुखा नरेन्द्राः; सर्वे समाश्वास्य सह प्रयान्ति। निरीक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं यशसा ज्वलन्तम् ॥८-६८-३३॥
नराश्वमातङ्गशरीरजेन; रक्तेन सिक्ता रुधिरेण भूमिः। रक्ताम्बरस्रक्तपनीययोगा; न्नारी प्रकाशा इव सर्वगम्या ॥८-६८-३४॥
प्रच्छन्नरूपा रुधिरेण राज; न्रौद्रे मुहूर्तेऽतिविराजमानाः। नैवावतस्थुः कुरवः समीक्ष्य; प्रव्राजिता देवलोकाश्च सर्वे ॥८-६८-३५॥
वधेन कर्णस्य सुदुःखितास्ते; हा कर्ण हा कर्ण इति ब्रुवाणाः। द्रुतं प्रयाताः शिबिराणि राज; न्दिवाकरं रक्तमवेक्षमाणाः ॥८-६८-३६॥
गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः; शितैः शरैः शोणितदिग्धवाजैः। शरैश्चिताङ्गो भुवि भाति कर्णो; हतोऽपि सन्सूर्य इवांशुमाली ॥८-६८-३७॥
कर्णस्य देहं रुधिरावसिक्तं; भक्तानुकम्पी भगवान्विवस्वान्। स्पृष्ट्वा करैर्लोहितरक्तरूपः; सिष्णासुरभ्येति परं समुद्रम् ॥८-६८-३८॥
इतीव सञ्चिन्त्य सुरर्षिसङ्घाः; सम्प्रस्थिता यान्ति यथानिकेतम्। सञ्चिन्तयित्वा च जना विसस्रु; र्यथासुखं खं च महीतलं च ॥८-६८-३९॥
तदद्भुतं प्राणभृतां भयङ्करं; निशम्य युद्धं कुरुवीरमुख्ययोः। धनञ्जयस्याधिरथेश्च विस्मिताः; प्रशंसमानाः प्रययुस्तदा जनाः ॥८-६८-४०॥
शरैः सङ्कृत्तवर्माणं वीरं विशसने हतम्। गतासुमपि राधेयं नैव लक्ष्मीर्व्यमुञ्चत ॥८-६८-४१॥
नानाभरणवान्राजन्मृष्टजाम्बूनदाङ्गदः। हतो वैकर्तनः शेते पादपोऽङ्कुरवानिव ॥८-६८-४२॥
कनकोत्तमसङ्काशः प्रदीप्त इव पावकः। सपुत्रः पुरुषव्याघ्रः संशान्तः पार्थतेजसा ॥ प्रताप्य पाण्डवान्राजन्पाञ्चालांश्चास्त्रतेजसा ॥८-६८-४३॥
ददानीत्येव योऽवोचन्न नास्तीत्यर्थितोऽर्थिभिः। सद्भिः सदा सत्पुरुषः स हतो द्वैरथे वृषः ॥८-६८-४४॥
यस्य ब्राह्मणसात्सर्वमात्मार्थं न महात्मनः। नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् ॥८-६८-४५॥
सदा नॄणां प्रियो दाता प्रियदानो दिवं गतः। आदाय तव पुत्राणां जयाशां शर्म वर्म च ॥८-६८-४६॥
हते स्म कर्णे सरितो न स्रवन्ति; जगाम चास्तं कलुषो दिवाकरः। ग्रहश्च तिर्यग्ज्वलितार्कवर्णो; यमस्य पुत्रोऽभ्युदियाय राजन् ॥८-६८-४७॥
नभः पफालाथ ननाद चोर्वी; ववुश्च वाताः परुषातिवेलम्। दिशः सधूमाश्च भृशं प्रजज्वलु; र्महार्णवाश्चुक्षुभिरे च सस्वनाः ॥८-६८-४८॥
सकाननाः साद्रिचयाश्चकम्पुः; प्रविव्यथुर्भूतगणाश्च मारिष। बृहस्पती रोहिणीं सम्प्रपीड्य; बभूव चन्द्रार्कसमानवर्णः ॥८-६८-४९॥
हते कर्णे न दिशो विप्रजज्ञु; स्तमोवृता द्यौर्विचचाल भूमिः। पपात चोल्का ज्वलनप्रकाशा; निशाचराश्चाप्यभवन्प्रहृष्टाः ॥८-६८-५०॥
शशिप्रकाशाननमर्जुनो यदा; क्षुरेण कर्णस्य शिरो न्यपातयत्। अथान्तरिक्षे दिवि चेह चासकृ; द्बभूव हाहेति जनस्य निस्वनः ॥८-६८-५१॥
स देवगन्धर्वमनुष्यपूजितं; निहत्य कर्णं रिपुमाहवेऽर्जुनः। रराज पार्थः परमेण तेजसा; वृत्रं निहत्येव सहस्रलोचनः ॥८-६८-५२॥
ततो रथेनाम्बुदवृन्दनादिना; शरन्नभोमध्यगभास्करत्विषा। पताकिना भीमनिनादकेतुना; हिमेन्दुशङ्खस्फटिकावभासिना ॥ सुवर्णमुक्तामणिवज्रविद्रुमै; रलङ्कृतेनाप्रतिमानरंहसा ॥८-६८-५३॥
नरोत्तमौ पाण्डवकेशिमर्दना; वुदाहितावग्निदिवाकरोपमौ। रणाजिरे वीतभयौ विरेजतुः; समानयानाविव विष्णुवासवौ ॥८-६८-५४॥
ततो धनुर्ज्यातलनेमिनिस्वनैः; प्रसह्य कृत्वा च रिपून्हतप्रभान्। संसाधयित्वैव कुरूञ्शरौघैः; कपिध्वजः पक्षिवरध्वजश्च ॥ प्रसह्य शङ्खौ धमतुः सुघोषौ; मनांस्यरीणामवसादयन्तौ ॥८-६८-५५॥
सुवर्णजालावततौ महास्वनौ; हिमावदातौ परिगृह्य पाणिभिः। चुचुम्बतुः शङ्खवरौ नृणां वरौ; वराननाभ्यां युगपच्च दध्मतुः ॥८-६८-५६॥
पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः। पृथिवीमन्तरिक्षं च द्यामपश्चाप्यपूरयत् ॥८-६८-५७॥
तौ शङ्खशब्देन निनादयन्तौ; वनानि शैलान्सरितो दिशश्च। वित्रासयन्तौ तव पुत्रसेनां; युधिष्ठिरं नन्दयतः स्म वीरौ ॥८-६८-५८॥
ततः प्रयाताः कुरवो जवेन; श्रुत्वैव शङ्खस्वनमीर्यमाणम्। विहाय मद्राधिपतिं पतिं च; दुर्योधनं भारत भारतानाम् ॥८-६८-५९॥
महाहवे तं बहु शोभमानं; धनञ्जयं भूतगणाः समेताः। तदान्वमोदन्त जनार्दनं च; प्रभाकरावभ्युदितौ यथैव ॥८-६८-६०॥
समाचितौ कर्णशरैः परन्तपा; वुभौ व्यभातां समरेऽच्युतार्जुनौ। तमो निहत्याभ्युदितौ यथामलौ; शशाङ्कसूर्याविव रश्मिमालिनौ ॥८-६८-६१॥
विहाय तान्बाणगणानथागतौ; सुहृद्वृतावप्रतिमानविक्रमौ। सुखं प्रविष्टौ शिबिरं स्वमीश्वरौ; सदस्यहूताविव वासवाच्युतौ ॥८-६८-६२॥
सदेवगन्धर्वमनुष्यचारणै; र्महर्षिभिर्यक्षमहोरगैरपि। जयाभिवृद्ध्या परयाभिपूजितौ; निहत्य कर्णं परमाहवे तदा ॥८-६८-६३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.