08.069
Pancharatra and Core: Then, the great warriors, filled with joy, praised the king, who was surrounded by all his brothers including Bhima.
सञ्जय उवाच॥
तथा निपातिते कर्णे तव सैन्ये च विद्रुते। आश्लिष्य पार्थं दाशार्हो हर्षाद्वचनमब्रवीत् ॥८-६९-१॥
हतो बलभिदा वृत्रस्त्वया कर्णो धनञ्जय। वधं वै कर्णवृत्राभ्यां कथयिष्यन्ति मानवाः ॥८-६९-२॥
वज्रिणा निहतो वृत्रः संयुगे भूरितेजसा। त्वया तु निहतः कर्णो धनुषा निशितैः शरैः ॥८-६९-३॥
तमिमं विक्रमं लोके प्रथितं ते यशोवहम्। निवेदयावः कौन्तेय धर्मराजाय धीमते ॥८-६९-४॥
वधं कर्णस्य सङ्ग्रामे दीर्घकालचिकीर्षितम्। निवेद्य धर्मराजस्य त्वमानृण्यं गमिष्यसि ॥८-६९-५॥
तथेत्युक्ते केशवस्तु पार्थेन यदुपुङ्गवः। पर्यवर्तयदव्यग्रो रथं रथवरस्य तम् ॥८-६९-६॥
धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम्। युयुधानं च गोविन्द इदं वचनमब्रवीत् ॥८-६९-७॥
परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः। यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै ॥८-६९-८॥
स तैः शूरैरनुज्ञातो ययौ राजनिवेशनम्। पार्थमादाय गोविन्दो ददर्श च युधिष्ठिरम् ॥८-६९-९॥
शयानं राजशार्दूलं काञ्चने शयनोत्तमे। अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ ॥८-६९-१०॥
तयोः प्रहर्षमालक्ष्य प्रहारांश्चातिमानुषान्। राधेयं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः ॥८-६९-११॥
ततोऽस्मै तद्यथावृत्तं वासुदेवः प्रियंवदः। कथयामास कर्णस्य निधनं यदुनन्दनः ॥८-६९-१२॥
ईषदुत्स्मयमानस्तु कृष्णो राजानमब्रवीत्। युधिष्ठिरं हतामित्रं कृताञ्जलिरथाच्युतः ॥८-६९-१३॥
दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः। त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ॥८-६९-१४॥
मुक्ता वीरक्षयादस्मात्सङ्ग्रामाल्लोमहर्षणात्। क्षिप्रमुत्तरकालानि कुरु कार्याणि पार्थिव ॥८-६९-१५॥
हतो वैकर्तनः क्रूरः सूतपुत्रो महाबलः। दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव ॥८-६९-१६॥
यः स द्यूतजितां कृष्णां प्राहसत्पुरुषाधमः। तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम् ॥८-६९-१७॥
शेतेऽसौ शरदीर्णाङ्गः शत्रुस्ते कुरुपुङ्गव। तं पश्य पुरुषव्याघ्र विभिन्नं बहुधा शरैः ॥८-६९-१८॥
युधिष्ठिरस्तु दाशार्हं प्रहृष्टः प्रत्यपूजयत्। दिष्ट्या दिष्ट्येति राजेन्द्र प्रीत्या चेदमुवाच ह ॥८-६९-१९॥
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन। त्वया सारथिना पार्थो यत्कुर्यादद्य पौरुषम् ॥८-६९-२०॥
प्रगृह्य च कुरुश्रेष्ठः साङ्गदं दक्षिणं भुजम्। उवाच धर्मभृत्पार्थ उभौ तौ केशवार्जुनौ ॥८-६९-२१॥
नरनारायणौ देवौ कथितौ नारदेन ह। धर्मसंस्थापने युक्तौ पुराणौ पुरुषोत्तमौ ॥८-६९-२२॥
असकृच्चापि मेधावी कृष्णद्वैपायनो मम। कथामेतां महाबाहो दिव्यामकथयत्प्रभुः ॥८-६९-२३॥
तव कृष्ण प्रभावेण गाण्डीवेन धनञ्जयः। जयत्यभिमुखाञ्शत्रून्न चासीद्विमुखः क्वचित् ॥८-६९-२४॥
जयश्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजयः। यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान् ॥८-६९-२५॥
एवमुक्त्वा महाराज तं रथं हेमभूषितम्। दन्तवर्णैर्हयैर्युक्तं कालवालैर्महारथः ॥८-६९-२६॥
आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः। कृष्णार्जुनाभ्यां वीराभ्यामनुमन्य ततः प्रियम् ॥८-६९-२७॥
आगतो बहुवृत्तान्तं द्रष्टुमायोधनं तदा। आभाषमाणस्तौ वीरावुभौ माधवफल्गुनौ ॥८-६९-२८॥
स ददर्श रणे कर्णं शयानं पुरुषर्षभम्। गाण्डीवमुक्तैर्विशिखैः सर्वतः शकलीकृतम् ॥८-६९-२९॥
सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः। प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ ॥८-६९-३०॥
अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह। त्वया नाथेन वीरेण विदुषा परिपालितः ॥८-६९-३१॥
हतं दृष्ट्वा नरव्याघ्रं राधेयमभिमानिनम्। निराशोऽद्य दुरात्मासौ धार्तराष्ट्रो भविष्यति ॥ जीविताच्चापि राज्याच्च हते कर्णे महारथे ॥८-६९-३२॥
त्वत्प्रसादाद्वयं चैव कृतार्थाः पुरुषर्षभ। त्वं च गाण्डीवधन्वा च विजयी यदुनन्दन ॥ दिष्ट्या जयसि गोविन्द दिष्ट्या कर्णो निपातितः ॥८-६९-३३॥
एवं स बहुशो हृष्टः प्रशशंस जनार्दनम्। अर्जुनं चापि राजेन्द्र धर्मराजो युधिष्ठिरः ॥८-६९-३४॥
ततो भीमप्रभृतिभिः सर्वैश्च भ्रातृभिर्वृतम्। वर्धयन्ति स्म राजानं हर्षयुक्ता महारथाः ॥८-६९-३५॥
नकुलः सहदेवश्च पाण्डवश्च वृकोदरः। सात्यकिश्च महाराज वृष्णीनां प्रवरो रथः ॥८-६९-३६॥
धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चालसृञ्जयाः। पूजयन्ति स्म कौन्तेयं निहते सूतनन्दने ॥८-६९-३७॥
ते वर्धयित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम्। जितकाशिनो लब्धलक्षा युद्धशौण्डाः प्रहारिणः ॥८-६९-३८॥
स्तुवन्तः स्तवयुक्ताभिर्वाग्भिः कृष्णौ परन्तपौ। जग्मुः स्वशिबिरायैव मुदा युक्ता महारथाः ॥८-६९-३९॥
एवमेष क्षयो वृत्तः सुमहाँल्लोमहर्षणः। तव दुर्मन्त्रिते राजन्नतीतं किं नु शोचसि ॥८-६९-४०॥
वैशम्पायन उवाच॥
श्रुत्वा तदप्रियं राजन्धृतराष्ट्रो महीपतिः। पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान् ॥ तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी ॥८-६९-४१॥
तं प्रत्यगृह्णाद्विदुरो नृपतिं सञ्जयस्तथा। पर्याश्वासयतश्चैवं तावुभावेव भूमिपम् ॥८-६९-४२॥
तथैवोत्थापयामासुर्गान्धारीं राजयोषितः। ताभ्यामाश्वासितो राजा तूष्णीमासीद्विचेतनः ॥८-६९-४३॥