Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.004
Pancharatra and Core: Duryodhana rejects Kripa's proposal, as he thinks he will go to heaven and enjoy with the ladies after death.
सञ्जय उवाच॥
एवमुक्तस्ततो राजा गौतमेन यशस्विना। निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते ॥९-४-१॥
ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः। कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ॥९-४-२॥
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम्। कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ॥९-४-३॥
गाहमानमनीकानि युध्यमानं महारथैः। पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ॥९-४-४॥
सुहृदा यदिदं वाच्यं भवता श्रावितो ह्यहम्। न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ॥९-४-५॥
हेतुकारणसंयुक्तं हितं वचनमुत्तमम्। उच्यमानं महाबाहो न मे विप्राग्र्य रोचते ॥९-४-६॥
राज्याद्विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत्। अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः ॥ स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ॥९-४-७॥
तथा दौत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः। प्रलब्धश्च हृषीकेशस्तच्च कर्म विरोधितम् ॥ स च मे वचनं ब्रह्मन्कथमेवाभिमंस्यते ॥९-४-८॥
विललाप हि यत्कृष्णा सभामध्ये समेयुषी। न तन्मर्षयते कृष्णो न राज्यहरणं तथा ॥९-४-९॥
एकप्राणावुभौ कृष्णावन्योन्यं प्रति संहतौ। पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ॥९-४-१०॥
स्वस्रीयं च हतं श्रुत्वा दुःखं स्वपिति केशवः। कृतागसो वयं तस्य स मदर्थं कथं क्षमेत् ॥९-४-११॥
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः। स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ॥९-४-१२॥
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः। प्रतिज्ञातं च तेनोग्रं स भज्येत न संनमेत् ॥९-४-१३॥
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ। कृतवैरावुभौ वीरौ यमावपि यमोपमौ ॥९-४-१४॥
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह। तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम ॥९-४-१५॥
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला। परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ॥९-४-१६॥
तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः। न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः ॥९-४-१७॥
यदा च द्रौपदी कृष्णा मद्विनाशाय दुःखिता। उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये ॥ स्थण्डिले नित्यदा शेते यावद्वैरस्य यातना ॥९-४-१८॥
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा। कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ॥९-४-१९॥
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन। अभिमन्योर्विनाशेन स सन्धेयः कथं मया ॥९-४-२०॥
कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम्। पाण्डवानां प्रसादेन भुञ्जीयां राज्यमल्पकम् ॥९-४-२१॥
उपर्युपरि राज्ञां वै ज्वलितो भास्करो यथा। युधिष्ठिरं कथं पश्चादनुयास्यामि दासवत् ॥९-४-२२॥
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान्। कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ॥९-४-२३॥
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया। न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन ॥९-४-२४॥
सुनीतमनुपश्यामि सुयुद्धेन परन्तप। नायं क्लीबयितुं कालः संयोद्धुं काल एव नः ॥९-४-२५॥
इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः। प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् ॥९-४-२६॥
भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धृतो जनः। यातानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् ॥९-४-२७॥
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया। पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः ॥९-४-२८॥
न ध्रुवं सुखमस्तीह कुतो राज्यं कुतो यशः। इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा ॥९-४-२९॥
गृहे यत्क्षत्रियस्यापि निधनं तद्विगर्हितम्। अधर्मः सुमहानेष यच्छय्यामरणं गृहे ॥९-४-३०॥
अरण्ये यो विमुञ्चेत सङ्ग्रामे वा तनुं नरः। क्रतूनाहृत्य महतो महिमानं स गच्छति ॥९-४-३१॥
कृपणं विलपन्नार्तो जरयाभिपरिप्लुतः। म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः ॥९-४-३२॥
त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम्। अपीदानीं सुयुद्धेन गच्छेयं सत्सलोकताम् ॥९-४-३३॥
शूराणामार्यवृत्तानां सङ्ग्रामेष्वनिवर्तिनाम्। धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम् ॥९-४-३४॥
शस्त्रावभृथमाप्तानां ध्रुवं वासस्त्रिविष्टपे। मुदा नूनं प्रपश्यन्ति शुभ्रा ह्यप्सरसां गणाः ॥९-४-३५॥
पश्यन्ति नूनं पितरः पूजिताञ्शक्रसंसदि। अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे ॥९-४-३६॥
पन्थानममरैर्यातं शूरैश्चैवानिवर्तिभिः। अपि तैः सङ्गतं मार्गं वयमप्यारुहेमहि ॥९-४-३७॥
पितामहेन वृद्धेन तथाचार्येण धीमता। जयद्रथेन कर्णेन तथा दुःशासनेन च ॥९-४-३८॥
घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः। शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः ॥९-४-३९॥
उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः। त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठिताः ॥९-४-४०॥
तैस्त्वयं रचितः पन्था दुर्गमो हि पुनर्भवेत्। सम्पतद्भिर्महावेगैरितो याद्भिश्च सद्गतिम् ॥९-४-४१॥
ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन्। ऋणं तत्प्रतिमुञ्चानो न राज्ये मन आदधे ॥९-४-४२॥
पातयित्वा वयस्यांश्च भ्रातॄनथ पितामहान्। जीवितं यदि रक्षेयं लोको मां गर्हयेद्ध्रुवम् ॥९-४-४३॥
कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः। सखिभिश्च सुहृद्भिश्च प्रणिपत्य च पाण्डवम् ॥९-४-४४॥
सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम्। सुयुद्धेन ततः स्वर्गं प्राप्स्यामि न तदन्यथा ॥९-४-४५॥
एवं दुर्योधनेनोक्तं सर्वे सम्पूज्य तद्वचः। साधु साध्विति राजानं क्षत्रियाः सम्बभाषिरे ॥९-४-४६॥
पराजयमशोचन्तः कृतचित्ताश्च विक्रमे। सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् ॥९-४-४७॥
ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः। ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः ॥९-४-४८॥
आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे। अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तज्जलम् ॥९-४-४९॥
तव पुत्राः कृतोत्साहाः पर्यवर्तन्त ते ततः। पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा ॥ सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः ॥९-४-५०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.