09.005
Core and Pancharatra: When asked, Ashwatthama suggests Shalya as commander. Duryodhana appoints Shalya to command the Kaurava army.
सञ्जय उवाच॥
अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः। सर्व एव महाराज योधास्तत्र समागताः ॥९-५-१॥
शल्यश्च चित्रसेनश्च शकुनिश्च महारथः। अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥९-५-२॥
सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान्। जयत्सेनश्च राजानस्ते रात्रिमुषितास्ततः ॥९-५-३॥
रणे कर्णे हते वीरे त्रासिता जितकाशिभिः। नालभञ्शर्म ते पुत्रा हिमवन्तमृते गिरिम् ॥९-५-४॥
तेऽब्रुवन्सहितास्तत्र राजानं सैन्यसंनिधौ। कृतयत्ना रणे राजन्सम्पूज्य विधिवत्तदा ॥९-५-५॥
कृत्वा सेनाप्रणेतारं परांस्त्वं योद्धुमर्हसि। येनाभिगुप्ताः सङ्ग्रामे जयेमासुहृदो वयम् ॥९-५-६॥
ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम्। सर्वयुद्धविभागज्ञमन्तकप्रतिमं युधि ॥९-५-७॥
स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम्। व्याकोशपद्माभिमुखं व्याघ्रास्यं मेरुगौरवम् ॥९-५-८॥
स्थाणोर्वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः। पुष्टश्लिष्टायतभुजं सुविस्तीर्णघनोरसम् ॥९-५-९॥
जवे बले च सदृशमरुणानुजवातयोः। आदित्यस्य त्विषा तुल्यं बुद्ध्या चोशनसा समम् ॥९-५-१०॥
कान्तिरूपमुखैश्वर्यैस्त्रिभिश्चन्द्रमसोपमम्। काञ्चनोपलसङ्घातैः सदृशं श्लिष्टसन्धिकम् ॥९-५-११॥
सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम्। स्मृत्वा स्मृत्वैव च गुणान्धात्रा यत्नाद्विनिर्मितम् ॥९-५-१२॥
सर्वलक्षणसम्पन्नं निपुणं श्रुतिसागरम्। जेतारं तरसारीणामजेयं शत्रुभिर्बलात् ॥९-५-१३॥
दशाङ्गं यश्चतुष्पादमिष्वस्त्रं वेद तत्त्वतः। साङ्गांश्च चतुरो वेदान्सम्यगाख्यानपञ्चमान् ॥९-५-१४॥
आराध्य त्र्यम्बकं यत्नाद्व्रतैरुग्रैर्महातपाः। अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः ॥९-५-१५॥
तमप्रतिमकर्माणं रूपेणासदृशं भुवि। पारगं सर्वविद्यानां गुणार्णवमनिन्दितम् ॥ तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमब्रवीत् ॥९-५-१६॥
यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान्। गुरुपुत्रोऽद्य सर्वेषामस्माकं परमा गतिः ॥ भवांस्तस्मान्नियोगात्ते कोऽस्तु सेनापतिर्मम ॥९-५-१७॥
द्रौणिरुवाच॥
अयं कुलेन वीर्येण तेजसा यशसा श्रिया। सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः ॥९-५-१८॥
भागिनेयान्निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः। महासेनो महाबाहुर्महासेन इवापरः ॥९-५-१९॥
एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम। शक्यः प्राप्तुं जयोऽस्माभिर्देवैः स्कन्दमिवाजितम् ॥९-५-२०॥
तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः। परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे ॥ युद्धाय च मतिं चक्रूरावेशं च परं ययुः ॥९-५-२१॥
ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम्। उवाच प्राञ्जलिर्भूत्वा रामभीष्मसमं रणे ॥९-५-२२॥
अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल। यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः ॥९-५-२३॥
स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे। रणं च याते भवति पाण्डवा मन्दचेतसः ॥ भविष्यन्ति सहामात्याः पाञ्चालाश्च निरुद्यमाः ॥९-५-२४॥
शल्य उवाच॥
यत्तु मां मन्यसे राजन्कुरुराज करोमि तत्। त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च ॥९-५-२५॥
दुर्योधन उवाच॥
सेनापत्येन वरये त्वामहं मातुलातुलम्। सोऽस्मान्पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे ॥९-५-२६॥
अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः। जहि शत्रून्रणे वीर महेन्द्रो दानवानिव ॥९-५-२७॥