Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.006
Pancharatra and Core: King Shlaya was anointed as commander-in-chief. Krishna advises Yudhisthira to take on Shalya directly, himself.
सञ्जय उवाच॥
एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान्। दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह ॥९-६-१॥
दुर्योधन महाबाहो शृणु वाक्यविदां वर। यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ ॥ न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन ॥९-६-२॥
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम्। योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान् ॥ विजेष्ये च रणे पार्थान्सोमकांश्च समागतान् ॥९-६-३॥
अहं सेनाप्रणेता ते भविष्यामि न संशयः। तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे ॥ इति सत्यं ब्रवीम्येष दुर्योधन न संशयः ॥९-६-४॥
एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा। अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम ॥ विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते ॥९-६-५॥
अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत्। तव सैन्येष्ववाद्यन्त वादित्राणि च भारत ॥९-६-६॥
हृष्टाश्चासंस्तदा योधा मद्रकाश्च महारथाः। तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् ॥९-६-७॥
जय राजंश्चिरं जीव जहि शत्रून्समागतान्। तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः ॥ निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः ॥९-६-८॥
त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान्। मर्त्यधर्माण इह तु किमु सोमकसृञ्जयान् ॥९-६-९॥
एवं संस्तूयमानस्तु मद्राणामधिपो बली। हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः ॥९-६-१०॥
शल्य उवाच॥
अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः। निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः ॥९-६-११॥
अद्य पश्यन्तु मां लोका विचरन्तमभीतवत्। अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः ॥९-६-१२॥
पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः। धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः ॥९-६-१३॥
विक्रमं मम पश्यन्तु धनुषश्च महद्बलम्। लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि ॥९-६-१४॥
अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः। यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे ॥९-६-१५॥
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः। प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः ॥९-६-१६॥
अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः। द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे ॥ विचरिष्ये रणे युध्यन्प्रियार्थं तव कौरव ॥९-६-१७॥
सञ्जय उवाच॥
अभिषिक्ते तदा शल्ये तव सैन्येषु मानद। न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत ॥९-६-१८॥
हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः। मेनिरे निहतान्पार्थान्मद्रराजवशं गतान् ॥९-६-१९॥
प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ। तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव साभवत् ॥९-६-२०॥
सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः। वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य शृण्वतः ॥९-६-२१॥
मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव। सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः ॥९-६-२२॥
एतच्छ्रुत्वा यथाभूतं कुरु माधव यत्क्षमम्। भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम् ॥९-६-२३॥
तमब्रवीन्महाराज वासुदेवो जनाधिपम्। आर्तायनिमहं जाने यथातत्त्वेन भारत ॥९-६-२४॥
वीर्यवांश्च महातेजा महात्मा च विशेषतः। कृती च चित्रयोधी च संयुक्तो लाघवेन च ॥९-६-२५॥
यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे। तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम ॥९-६-२६॥
युध्यमानस्य तस्याजौ चिन्तयन्नेव भारत। योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप ॥९-६-२७॥
शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत। धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे ॥९-६-२८॥
मद्रराजो महाराज सिंहद्विरदविक्रमः। विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव ॥९-६-२९॥
तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे। त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् ॥९-६-३०॥
सदेवलोके कृत्स्नेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत्। मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन ॥ अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव ॥९-६-३१॥
तस्माज्जहि रणे शल्यं मघवानिव शम्बरम्। अतिपश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः ॥९-६-३२॥
तवैव हि जयो नूनं हते मद्रेश्वरे युधि। तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् ॥९-६-३३॥
एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम्। प्रत्युद्याहि रणे पार्थ मद्रराजं महाबलम् ॥ जहि चैनं महाबाहो वासवो नमुचिं यथा ॥९-६-३४॥
न चैवात्र दया कार्या मातुलोऽयं ममेति वै। क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम् ॥९-६-३५॥
भीष्मद्रोणार्णवं तीर्त्वा कर्णपातालसम्भवम्। मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम् ॥९-६-३६॥
यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव। तद्दर्शय रणे सर्वं जहि चैनं महारथम् ॥९-६-३७॥
एतावदुक्त्वा वचनं केशवः परवीरहा। जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः ॥९-६-३८॥
केशवे तु तदा याते धर्मराजो युधिष्ठिरः। विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान् ॥ सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः ॥९-६-३९॥
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा। कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा ॥९-६-४०॥
गतज्वरं महेष्वासं तीर्णपारं महारथम्। बभूव पाण्डवेयानां सैन्यं प्रमुदितं निशि ॥ सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष ॥९-६-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.