09.011
Pancharatra and Core: Duryodhana kills Chekitana; the fight between Shalya and Yudhisthira commences; Yudhisthira gains the upper hand by cutting down the flagpole of Shalya.
सञ्जय उवाच॥
पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम्। आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः ॥९-११-१॥
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम्। सशृङ्गमिव कैलासं सवज्रमिव वासवम् ॥९-११-२॥
सशूलमिव हर्यक्षं वने मत्तमिव द्विपम्। जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥९-११-३॥
ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः। सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः ॥९-११-४॥
प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ। तावकाश्च परे चैव साधु साध्वित्यथाब्रुवन् ॥९-११-५॥
न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात्। सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ॥९-११-६॥
तथा मद्राधिपस्यापि गदावेगं महात्मनः। सोढुमुत्सहते नान्यो योधो युधि वृकोदरात् ॥९-११-७॥
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः। आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ ॥९-११-८॥
मण्डलावर्तमार्गेषु गदाविहरणेषु च। निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ॥९-११-९॥
तप्तहेममयैः शुभ्रैर्बभूव भयवर्धनी। अग्निज्वालैरिवाविद्धा पट्टैः शल्यस्य सा गदा ॥९-११-१०॥
तथैव चरतो मार्गान्मण्डलेषु महात्मनः। विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा ॥९-११-११॥
ताडिता मद्रराजेन भीमस्य गदया गदा। दीप्यमानेव वै राजन्ससृजे पावकार्चिषः ॥९-११-१२॥
तथा भीमेन शल्यस्य ताडिता गदया गदा। अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् ॥९-११-१३॥
दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ। तोत्त्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः ॥९-११-१४॥
तौ गदानिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ। प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ ॥९-११-१५॥
गदया मद्रराजेन सव्यदक्षिणमाहतः। भीमसेनो महाबाहुर्न चचालाचलो यथा ॥९-११-१६॥
तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः। शल्यो न विव्यथे राजन्दन्तिनेवाहतो गिरिः ॥९-११-१७॥
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः। गदानिपातसंह्रादो वज्रयोरिव निस्वनः ॥९-११-१८॥
निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ। पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ॥९-११-१९॥
अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत्तयोः। उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः ॥९-११-२०॥
प्रार्थयानौ तदान्योऽन्यं मण्डलानि विचेरतुः। क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा ॥९-११-२१॥
अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ। तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ ॥९-११-२२॥
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ। युगपत्पेततुर्वीरावुभाविन्द्रध्वजाविव ॥९-११-२३॥
उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन्। भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ ॥९-११-२४॥
ततः सगदमारोप्य मद्राणामृषभं रथे। अपोवाह कृपः शल्यं तूर्णमायोधनादपि ॥९-११-२५॥
क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः। भीमसेनो गदापाणिः समाह्वयत मद्रपम् ॥९-११-२६॥
ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः। नानावादित्रशब्देन पाण्डुसेनामयोधयन् ॥९-११-२७॥
भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः। अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः ॥९-११-२८॥
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः। प्रययुः सिंहनादेन दुर्योधनवधेप्सया ॥९-११-२९॥
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ। प्रासेन चेकितानं वै विव्याध हृदये भृशम् ॥९-११-३०॥
स पपात रथोपस्थे तव पुत्रेण ताडितः। रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः ॥९-११-३१॥
चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः। प्रसक्तमभ्यवर्षन्त शरवर्षाणि भागशः ॥९-११-३२॥
तावकानामनीकेषु पाण्डवा जितकाशिनः। व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः ॥९-११-३३॥
कृपश्च कृतवर्मा च सौबलश्च महाबलः। अयोधयन्धर्मराजं मद्रराजपुरस्कृताः ॥९-११-३४॥
भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम्। दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् ॥९-११-३५॥
त्रिसाहस्रा रथा राजंस्तव पुत्रेण चोदिताः। अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः ॥९-११-३६॥
विजये धृतसङ्कल्पाः समभित्यक्तजीविताः। प्राविशंस्तावका राजन्हंसा इव महत्सरः ॥९-११-३७॥
ततो युद्धमभूद्घोरं परस्परवधैषिणाम्। अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् ॥९-११-३८॥
तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षये। अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः ॥९-११-३९॥
श्रवणान्नामधेयानां पाण्डवानां च कीर्तनात्। परस्परं विजानीमो ये चायुध्यन्नभीतवत् ॥९-११-४०॥
तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम्। दिशश्च विमला जज्ञुस्तस्मिन्रजसि शामिते ॥९-११-४१॥
तथा प्रवृत्ते सङ्ग्रामे घोररूपे भयानके। तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥९-११-४२॥
ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि। सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः ॥९-११-४३॥
भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः। स्वर्गसंसक्तमनसो योधा युयुधिरे तदा ॥९-११-४४॥
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः। अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् ॥९-११-४५॥
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत। इति स्म वाचः श्रूयन्ते तव तेषां च वै बले ॥९-११-४६॥
ततः शल्यो महाराज धर्मराजं युधिष्ठिरम्। विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् ॥९-११-४७॥
तस्य पार्थो महाराज नाराचान्वै चतुर्दश। मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव ॥९-११-४८॥
तं वार्य पाण्डवं बाणैर्हन्तुकामो महायशाः। विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः ॥९-११-४९॥
अथ भूयो महाराज शरेण नतपर्वणा। युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः ॥९-११-५०॥
धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महायशाः। विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः ॥९-११-५१॥
चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः। द्रुमसेनं चतुःषष्ट्या निजघान महारथः ॥९-११-५२॥
चक्ररक्षे हते शल्यः पाण्डवेन महात्मना। निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम् ॥९-११-५३॥
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः। माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः ॥९-११-५४॥
एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम। सम्प्रेषयच्छितान्पार्थः शरानाशीविषोपमान् ॥९-११-५५॥
ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः। प्रमुखे वर्तमानस्य भल्लेनापहरद्रथात् ॥९-११-५६॥
पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना। निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् ॥९-११-५७॥
ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम्। सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह ॥९-११-५८॥
शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान्। अभ्यवर्षदमेयात्मा क्षत्रियं क्षत्रियर्षभः ॥९-११-५९॥
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ। एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥९-११-६०॥
ततो बाणमयं जालं विततं पाण्डवोरसि। अपश्याम महाराज मेघजालमिवोद्गतम् ॥९-११-६१॥
तस्य शल्यो रणे क्रुद्धो बाणैः संनतपर्वभिः। दिशः प्रच्छादयामास प्रदिशश्च महारथः ॥९-११-६२॥
ततो युधिष्ठिरो राजा बाणजालेन पीडितः। बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा ॥९-११-६३॥