Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.012
Pancharatra and Core: As Shalya displays his valour and tactics, Yudhishthira kills the Madra prince Chakraraksha.
सञ्जय उवाच॥
पीडिते धर्मराजे तु मद्रराजेन मारिष। सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ॥ परिवार्य रथैः शल्यं पीडयामासुराहवे ॥९-१२-१॥
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः। साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः ॥ आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः ॥९-१२-२॥
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे। एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः ॥९-१२-३॥
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया। मद्रेश्वरमवाकीर्य सिंहनादमथानदत् ॥९-१२-४॥
नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिः। विद्ध्वा तं तु ततस्तूर्णं पुनर्विव्याध सप्तभिः ॥९-१२-५॥
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः। विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम् ॥९-१२-६॥
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष। भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस्तथा ॥९-१२-७॥
ततः सविशिखं चापं सहदेवस्य धन्विनः। छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः ॥९-१२-८॥
सहदेवस्तु समरे मातुलं भूरिवर्चसम्। सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत् ॥ शरैराशीविषाकारैर्ज्वलज्ज्वलनसंनिभैः ॥९-१२-९॥
सारथिं चास्य समरे शरेणानतपर्वणा। विव्याध भृशसङ्क्रुद्धस्तं च भूयस्त्रिभिः शरैः ॥९-१२-१०॥
भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिः शरैः। धर्मराजस्तथा षष्ट्या गात्रे शल्यं समर्पयत् ॥९-१२-११॥
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः। सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा ॥९-१२-१२॥
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः। विव्याध तरसा राजंस्तदद्भुतमिवाभवत् ॥९-१२-१३॥
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष। धनुश्चिच्छेद समरे सज्यं स सुमहारथः ॥९-१२-१४॥
अथान्यद्धनुरादाय धर्मपुत्रो महारथः। साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः ॥९-१२-१५॥
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः। युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः ॥९-१२-१६॥
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते। मद्राणामधिपं शूरं शरौघैः समवारयत् ॥९-१२-१७॥
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः। भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् ॥९-१२-१८॥
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः। तोमरं प्रेषयामास स्वर्णदण्डं महाधनम् ॥९-१२-१९॥
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम्। नकुलः समरे शक्तिं सहदेवो गदां शुभाम् ॥ धर्मराजः शतघ्नीं तु जिघांसुः शल्यमाहवे ॥९-१२-२०॥
तानापतत एवाशु पञ्चानां वै भुजच्युतान्। सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् ॥९-१२-२१॥
भीमेन प्रहितं चापि शरं कनकभूषणम्। द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् ॥९-१२-२२॥
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम्। गदां च सहदेवेन शरौघैः समवारयत् ॥९-१२-२३॥
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत। पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च ॥ नामृष्यत्तं तु शैनेयः शत्रोर्विजयमाहवे ॥९-१२-२४॥
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्छितः। द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः ॥९-१२-२५॥
ततः शल्यो महाराज सर्वांस्तान्दशभिः शरैः। विव्याध सुभृशं क्रुद्धस्तोत्त्रैरिव महाद्विपान् ॥९-१२-२६॥
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः। न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः ॥९-१२-२७॥
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम्। निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान् ॥९-१२-२८॥
ततो राजन्महाबाहुर्भीमसेनः प्रतापवान्। सन्त्यज्य मनसा प्राणान्मद्राधिपमयोधयत् ॥९-१२-२९॥
नकुलः सहदेवश्च सात्यकिश्च महारथः। परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः ॥९-१२-३०॥
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः। वृतस्तान्योधयामास मद्रराजः प्रतापवान् ॥९-१२-३१॥
तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे। चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव ॥९-१२-३२॥
तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे। मद्रराजोऽतिबलवान्सैनिकानास्तृणोच्छरैः ॥९-१२-३३॥
समाच्छन्नांस्ततस्तांस्तु राजन्वीक्ष्य स सैनिकान्। चिन्तयामास समरे धर्मराजो युधिष्ठिरः ॥९-१२-३४॥
कथं नु न भवेत्सत्यं तन्माधववचो महत्। न हि क्रुद्धो रणे राजा क्षपयेत बलं मम ॥९-१२-३५॥
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज। मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः ॥९-१२-३६॥
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम्। व्यधमत्समरे राजन्महाभ्राणीव मारुतः ॥९-१२-३७॥
ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम्। शरवृष्टिमपश्याम शलभानामिवाततिम् ॥९-१२-३८॥
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि। सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव ॥९-१२-३९॥
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः। निरन्तरमिवाकाशं सम्बभूव जनाधिप ॥९-१२-४०॥
न पाण्डवानां नास्माकं तत्र कश्चिद्व्यदृश्यत। बाणान्धकारे महति कृते तत्र महाभये ॥९-१२-४१॥
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः। लोड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम् ॥ विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥९-१२-४२॥
स तु तान्सर्वतो यत्ताञ्शरैः सम्पीड्य मारिष। धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः ॥९-१२-४३॥
ते छन्नाः समरे तेन पाण्डवानां महारथाः। न शेकुस्तं तदा युद्धे प्रत्युद्यातुं महारथम् ॥९-१२-४४॥
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः। न जहुः समरे शूरं शल्यमाहवशोभिनम् ॥९-१२-४५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.