09.016
Core and Pancharatra: Enabled by Bhima, Yudhishthira kills Shalya, his brother, and also defeats Kritaverma, Kripa and Ashwatthama.
सञ्जय उवाच॥
अथान्यद्धनुरादाय बलवद्वेगवत्तरम्। युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् ॥९-१६-१॥
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान्। अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥९-१६-२॥
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः। सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥९-१६-३॥
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान्। कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः ॥ रथांश्च रथिभिः सार्धं जघान रथिनां वरः ॥९-१६-४॥
बाहूंश्चिच्छेद च तथा सायुधान्केतनानि च। चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव ॥९-१६-५॥
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम्। परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ॥९-१६-६॥
तं भीमसेनश्च शिनेश्च नप्ता; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ। समागतं भीमबलेन राज्ञा; पर्यापुरन्योन्यमथाह्वयन्तः ॥९-१६-७॥
ततस्तु शूराः समरे नरेन्द्रं; मद्रेश्वरं प्राप्य युधां वरिष्ठम्। आवार्य चैनं समरे नृवीरा; जघ्नुः शरैः पत्रिभिरुग्रवेगैः ॥९-१६-८॥
संरक्षितो भीमसेनेन राजा; माद्रीसुताभ्यामथ माधवेन। मद्राधिपं पत्रिभिरुग्रवेगैः; स्तनान्तरे धर्मसुतो निजघ्ने ॥९-१६-९॥
ततो रणे तावकानां रथौघाः; समीक्ष्य मद्राधिपतिं शरार्तम्। पर्यावव्रुः प्रवराः सर्वशश्च; दुर्योधनस्यानुमते समन्तात् ॥९-१६-१०॥
ततो द्रुतं मद्रजनाधिपो रणे; युधिष्ठिरं सप्तभिरभ्यविध्यत्। तं चापि पार्थो नवभिः पृषत्कै; र्विव्याध राजंस्तुमुले महात्मा ॥९-१६-११॥
आकर्णपूर्णायतसम्प्रयुक्तैः; शरैस्तदा संयति तैलधौतैः। अन्योन्यमाच्छादयतां महारथौ; मद्राधिपश्चापि युधिष्ठिरश्च ॥९-१६-१२॥
ततस्तु तूर्णं समरे महारथौ; परस्परस्यान्तरमीक्षमाणौ। शरैर्भृशं विव्यधतुर्नृपोत्तमौ; महाबलौ शत्रुभिरप्रधृष्यौ ॥९-१६-१३॥
तयोर्धनुर्ज्यातलनिस्वनो महा; न्महेन्द्रवज्राशनितुल्यनिस्वनः। परस्परं बाणगणैर्महात्मनोः; प्रवर्षतोर्मद्रपपाण्डुवीरयोः ॥९-१६-१४॥
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ; महावनेष्वामिषगृद्धिनाविव। विषाणिनौ नागवराविवोभौ; ततक्षतुः संयुगजातदर्पौ ॥९-१६-१५॥
ततस्तु मद्राधिपतिर्महात्मा; युधिष्ठिरं भीमबलं प्रसह्य। विव्याध वीरं हृदयेऽतिवेगं; शरेण सूर्याग्निसमप्रभेण ॥९-१६-१६॥
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि; सुसम्प्रयुक्तेन शरेण राजन्। जघान मद्राधिपतिं महात्मा; मुदं च लेभे ऋषभः कुरूणाम् ॥९-१६-१७॥
ततो मुहूर्तादिव पार्थिवेन्द्रो; लब्ध्वा सञ्ज्ञां क्रोधसंरक्तनेत्रः। शतेन पार्थं त्वरितो जघान; सहस्रनेत्रप्रतिमप्रभावः ॥९-१६-१८॥
त्वरंस्ततो धर्मसुतो महात्मा; शल्यस्य क्रुद्धो नवभिः पृषत्कैः। भित्त्वा ह्युरस्तपनीयं च वर्म; जघान षड्भिस्त्वपरैः पृषत्कैः ॥९-१६-१९॥
ततस्तु मद्राधिपतिः प्रहृष्टो; धनुर्विकृष्य व्यसृजत्पृषत्कान्। द्वाभ्यां क्षुराभ्यां च तथैव राज्ञ; श्चिच्छेद चापं कुरुपुङ्गवस्य ॥९-१६-२०॥
नवं ततोऽन्यत्समरे प्रगृह्य; राजा धनुर्घोरतरं महात्मा। शल्यं तु विद्ध्वा निशितैः समन्ता; द्यथा महेन्द्रो नमुचिं शिताग्रैः ॥९-१६-२१॥
ततस्तु शल्यो नवभिः पृषत्कै; र्भीमस्य राज्ञश्च युधिष्ठिरस्य। निकृत्य रौक्मे पटुवर्मणी तयो; र्विदारयामास भुजौ महात्मा ॥९-१६-२२॥
ततोऽपरेण ज्वलितार्कतेजसा; क्षुरेण राज्ञो धनुरुन्ममाथ। कृपश्च तस्यैव जघान सूतं; षड्भिः शरैः सोऽभिमुखं पपात ॥९-१६-२३॥
मद्राधिपश्चापि युधिष्ठिरस्य; शरैश्चतुर्भिर्निजघान वाहान्। वाहांश्च हत्वा व्यकरोन्महात्मा; योधक्षयं धर्मसुतस्य राज्ञः ॥९-१६-२४॥
तथा कृते राजनि भीमसेनो; मद्राधिपस्याशु ततो महात्मा। छित्त्वा धनुर्वेगवता शरेण; द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ॥९-१६-२५॥
अथापरेणास्य जहार यन्तुः; कायाच्छिरः संनहनीयमध्यात्। जघान चाश्वांश्चतुरः स शीघ्रं; तथा भृशं कुपितो भीमसेनः ॥९-१६-२६॥
तमग्रणीः सर्वधनुर्धराणा; मेकं चरन्तं समरेऽतिवेगम्। भीमः शतेन व्यकिरच्छराणां; माद्रीपुत्रः सहदेवस्तथैव ॥९-१६-२७॥
तैः सायकैर्मोहितं वीक्ष्य शल्यं; भीमः शरैरस्य चकर्त वर्म। स भीमसेनेन निकृत्तवर्मा; मद्राधिपश्चर्म सहस्रतारम् ॥९-१६-२८॥
प्रगृह्य खड्गं च रथान्महात्मा; प्रस्कन्द्य कुन्तीसुतमभ्यधावत्। छित्त्वा रथेषां नकुलस्य सोऽथ; युधिष्ठिरं भीमबलोऽभ्यधावत् ॥९-१६-२९॥
तं चापि राजानमथोत्पतन्तं; क्रुद्धं यथैवान्तकमापतन्तम्। धृष्टद्युम्नो द्रौपदेयाः शिखण्डी; शिनेश्च नप्ता सहसा परीयुः ॥९-१६-३०॥
अथास्य चर्माप्रतिमं न्यकृन्त; द्भीमो महात्मा दशभिः पृषत्कः। खड्गं च भल्लैर्निचकर्त मुष्टौ; नदन्प्रहृष्टस्तव सैन्यमध्ये ॥९-१६-३१॥
तत्कर्म भीमस्य समीक्ष्य हृष्टा; स्ते पाण्डवानां प्रवरा रथौघाः। नादं च चक्रुर्भृशमुत्स्मयन्तः; शङ्खांश्च दध्मुः शशिसंनिकाशान् ॥९-१६-३२॥
तेनाथ शब्देन विभीषणेन; तवाभितप्तं बलमप्रहृष्टम्। स्वेदाभिभूतं रुधिरोक्षिताङ्गं; विसञ्ज्ञकल्पं च तथा विषण्णम् ॥९-१६-३३॥
स मद्रराजः सहसावकीर्णो; भीमाग्रगैः पाण्डवयोधमुख्यैः। युधिष्ठिरस्याभिमुखं जवेन; सिंहो यथा मृगहेतोः प्रयातः ॥९-१६-३४॥
स धर्मराजो निहताश्वसूतं; क्रोधेन दीप्तज्वलनप्रकाशम्। दृष्ट्वा तु मद्राधिपतिं स तूर्णं; समभ्यधावत्तमरिं बलेन ॥९-१६-३५॥
गोविन्दवाक्यं त्वरितं विचिन्त्य; दध्रे मतिं शल्यविनाशनाय। स धर्मराजो निहताश्वसूते; रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् ॥९-१६-३६॥
तच्चापि शल्यस्य निशम्य कर्म; महात्मनो भागमथावशिष्टम्। स्मृत्वा मनः शल्यवधे यतात्मा; यथोक्तमिन्द्रावरजस्य चक्रे ॥९-१६-३७॥
स धर्मराजो मणिहेमदण्डां; जग्राह शक्तिं कनकप्रकाशाम्। नेत्रे च दीप्ते सहसा विवृत्य; मद्राधिपं क्रुद्धमना निरैक्षत् ॥९-१६-३८॥
निरीक्षितो वै नरदेव राज्ञा; पूतात्मना निर्हृतकल्मषेण। अभून्न यद्भस्मसान्मद्रराज; स्तदद्भुतं मे प्रतिभाति राजन् ॥९-१६-३९॥
ततस्तु शक्तिं रुचिरोग्रदण्डां; मणिप्रवालोज्ज्वलितां प्रदीप्ताम्। चिक्षेप वेगात्सुभृशं महात्मा; मद्राधिपाय प्रवरः कुरूणाम् ॥९-१६-४०॥
दीप्तामथैनां महता बलेन; सविस्फुलिङ्गां सहसा पतन्तीम्। प्रैक्षन्त सर्वे कुरवः समेता; यथा युगान्ते महतीमिवोल्काम् ॥९-१६-४१॥
तां कालरात्रीमिव पाशहस्तां; यमस्य धात्रीमिव चोग्ररूपाम्। सब्रह्मदण्डप्रतिमाममोघां; ससर्ज यत्तो युधि धर्मराजः ॥९-१६-४२॥
गन्धस्रगग्र्यासनपानभोजनै; रभ्यर्चितां पाण्डुसुतैः प्रयत्नात्। संवर्तकाग्निप्रतिमां ज्वलन्तीं; कृत्यामथर्वाङ्गिरसीमिवोग्राम् ॥९-१६-४३॥
ईशानहेतोः प्रतिनिर्मितां तां; त्वष्ट्रा रिपूणामसुदेहभक्षाम्। भूम्यन्तरिक्षादिजलाशयानि; प्रसह्य भूतानि निहन्तुमीशाम् ॥९-१६-४४॥
घण्टापताकामणिवज्रभाजं; वैडूर्यचित्रां तपनीयदण्डाम्। त्वष्ट्रा प्रयत्नान्नियमेन कॢप्तां; ब्रह्मद्विषामन्तकरीममोघाम् ॥९-१६-४५॥
बलप्रयत्नादधिरूढवेगां; मन्त्रैश्च घोरैरभिमन्त्रयित्वा। ससर्ज मार्गेण च तां परेण; वधाय मद्राधिपतेस्तदानीम् ॥९-१६-४६॥
हतोऽस्यसावित्यभिगर्जमानो; रुद्रोऽन्तकायान्तकरं यथेषुम्। प्रसार्य बाहुं सुदृढं सुपाणिं; क्रोधेन नृत्यन्निव धर्मराजः ॥९-१६-४७॥
तां सर्वशक्त्या प्रहितां स शक्तिं; युधिष्ठिरेणाप्रतिवार्यवीर्याम्। प्रतिग्रहायाभिननर्द शल्यः; सम्यग्घुतामग्निरिवाज्यधाराम् ॥९-१६-४८॥
सा तस्य मर्माणि विदार्य शुभ्र; मुरो विशालं च तथैव वर्म। विवेश गां तोयमिवाप्रसक्ता; यशो विशालं नृपतेर्दहन्ती ॥९-१६-४९॥
नासाक्षिकर्णास्यविनिःसृतेन; प्रस्यन्दता च व्रणसम्भवेन। संसिक्तगात्रो रुधिरेण सोऽभूत्क्रौञ्चो यथा स्कन्दहतो महाद्रिः ॥९-१६-५०॥
प्रसार्य बाहू स रथाद्गतो गां; सञ्छिन्नवर्मा कुरुनन्दनेन। महेन्द्रवाहप्रतिमो महात्मा; वज्राहतं शृङ्गमिवाचलस्य ॥९-१६-५१॥
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट्। ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः ॥९-१६-५२॥
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः। प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः ॥९-१६-५३॥
प्रियया कान्तया कान्तः पतमान इवोरसि। चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः ॥ सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव सोऽभवत् ॥९-१६-५४॥
धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना। सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे ॥९-१६-५५॥
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम्। संशान्तमपि मद्रेशं लक्ष्मीर्नैव व्यमुञ्चत ॥९-१६-५६॥
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम्। व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान् ॥ देहासून्निशितैर्भल्लै रिपूणां नाशयन्क्षणात् ॥९-१६-५७॥
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव। निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः ॥ संन्यस्तकवचा देहैर्विपत्रायुधजीविताः ॥९-१६-५८॥
ततः शल्ये निपतिते मद्रराजानुजो युवा। भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् ॥९-१६-५९॥
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन्। हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः ॥९-१६-६०॥
तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव। कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ॥९-१६-६१॥
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च। प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ॥९-१६-६२॥
सकुण्डलं तद्ददृशे पतमानं शिरो रथात्। पुण्यक्षयमिव प्राप्य पतन्तं स्वर्गवासिनम् ॥९-१६-६३॥
तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात्। रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ॥९-१६-६४॥
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे। हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः ॥९-१६-६५॥
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः। वित्रेसुः पाण्डवभयाद्रजोध्वस्तास्तथा भृशम् ॥९-१६-६६॥
तांस्तथा भज्यतस्त्रस्तान्कौरवान्भरतर्षभ। शिनेर्नप्ता किरन्बाणैरभ्यवर्तत सात्यकिः ॥९-१६-६७॥
तमायान्तं महेष्वासमप्रसह्यं दुरासदम्। हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ॥९-१६-६८॥
तौ समेतौ महात्मानौ वार्ष्णेयावपराजितौ। हार्दिक्यः सात्यकिश्चैव सिंहाविव मदोत्कटौ ॥९-१६-६९॥
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम्। अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ॥९-१६-७०॥
चापमार्गबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः। आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ॥९-१६-७१॥
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः। चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ॥९-१६-७२॥
तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुङ्गवः। अन्यदादत्त वेगेन वेगवत्तरमायुधम् ॥९-१६-७३॥
तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम्। हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥९-१६-७४॥
ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः। अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ॥९-१६-७५॥
मद्रराजे हते राजन्विरथे कृतवर्मणि। दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥९-१६-७६॥
तत्परे नावबुध्यन्त सैन्येन रजसा वृते। बलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् ॥९-१६-७७॥
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम्। विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ॥९-१६-७८॥
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात्। जवेनापततः पार्थानेकः सर्वानवारयत् ॥९-१६-७९॥
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम्। आनर्तं च दुराधर्षं शितैर्बाणैरवाकिरत् ॥९-१६-८०॥
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम्। अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ॥९-१६-८१॥
ततो युधिष्ठिरो राजा त्वरमाणो महारथः। चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः ॥ विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः ॥९-१६-८२॥
अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम्। समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ॥९-१६-८३॥
ततः शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम्। विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ॥९-१६-८४॥
एवमेतन्महाराज युद्धशेषमवर्तत। तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ॥९-१६-८५॥
तस्मिन्महेष्वासवरे विशस्ते; सङ्ग्राममध्ये कुरुपुङ्गवेन। पार्थाः समेताः परमप्रहृष्टाः; शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ॥९-१६-८६॥
युधिष्ठिरं च प्रशशंसुराजौ; पुरा सुरा वृत्रवधे यथेन्द्रम्। चक्रुश्च नानाविधवाद्यशब्दा; न्निनादयन्तो वसुधां समन्तात् ॥९-१६-८७॥