09.017
Core and Pancharatra: Seven hundred Madra chariots attack the Pandavas and face destruction.
सञ्जय उवाच॥
शल्ये तु निहते राजन्मद्रराजपदानुगाः। रथाः सप्तशता वीरा निर्ययुर्महतो बलात् ॥९-१७-१॥
दुर्योधनस्तु द्विरदमारुह्याचलसंनिभम्। छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः ॥ न गन्तव्यं न गन्तव्यमिति मद्रानवारयत् ॥९-१७-२॥
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः। युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् ॥९-१७-३॥
ते तु शूरा महाराज कृतचित्ताः स्म योधने। धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः ॥९-१७-४॥
श्रुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम्। मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः ॥९-१७-५॥
आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः। पूरयन्रथघोषेण दिशः सर्वा महारथः ॥९-१७-६॥
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ। सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः ॥९-१७-७॥
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः। युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् ॥९-१७-८॥
ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभाः। क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा ॥९-१७-९॥
पुरोवातेन गङ्गेव क्षोभ्यमाना महानदी। अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी पुनः ॥९-१७-१०॥
प्रस्कन्द्य सेनां महतीं त्यक्तात्मानो महारथाः। वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः ॥९-१७-११॥
बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः। भ्रातरो वास्य ते शूरा दृश्यन्ते नेह केचन ॥९-१७-१२॥
पाञ्चालानां महावीर्याः शिखण्डी च महारथः। धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः ॥९-१७-१३॥
एवं तान्वादिनः शूरान्द्रौपदेया महारथाः। अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान् ॥९-१७-१४॥
चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः। प्रत्यदृश्यन्त समरे तावका निहताः परैः ॥९-१७-१५॥
आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः। वार्यमाणा ययुर्वेगात्तव पुत्रेण भारत ॥९-१७-१६॥
दुर्योधनस्तु तान्वीरान्वारयामास सान्त्वयन्। न चास्य शासनं कश्चित्तत्र चक्रे महारथः ॥९-१७-१७॥
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्। दुर्योधनं महाराज वचनं वचनक्षमः ॥९-१७-१८॥
किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते बलम्। न युक्तमेतत्समरे त्वयि तिष्ठति भारत ॥९-१७-१९॥
सहितैर्नाम योद्धव्यमित्येष समयः कृतः। अथ कस्मात्परानेव घ्नतो मर्षयसे नृप ॥९-१७-२०॥
दुर्योधन उवाच॥
वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम। एते हि निहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् ॥९-१७-२१॥
शकुनिरुवाच॥
न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः। अलं क्रोद्धुं तथैतेषां नायं काल उपेक्षितुम् ॥९-१७-२२॥
यामः सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः। परित्रातुं महेष्वासान्मद्रराजपदानुगान् ॥९-१७-२३॥
अन्योन्यं परिरक्षामो यत्नेन महता नृप। एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः ॥९-१७-२४॥
सञ्जय उवाच॥
एवमुक्तस्ततो राजा बलेन महता वृतः। प्रययौ सिंहनादेन कम्पयन्वै वसुन्धराम् ॥९-१७-२५॥
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत। इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत ॥९-१७-२६॥
पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान्। सहितानभ्यवर्तन्त गुल्ममास्थाय मध्यमम् ॥९-१७-२७॥
ते मुहूर्ताद्रणे वीरा हस्ताहस्तं विशां पते। निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः ॥९-१७-२८॥
ततो नः सम्प्रयातानां हतामित्रास्तरस्विनः। हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे ॥९-१७-२९॥
अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः। पपात महती चोल्का मध्येनादित्यमण्डलम् ॥९-१७-३०॥
रथैर्भग्नैर्युगाक्षैश्च निहतैश्च महारथैः। अश्वैर्निपतितैश्चैव सञ्छन्नाभूद्वसुन्धरा ॥९-१७-३१॥
वातायमानैस्तुरगैर्युगासक्तैस्तुरङ्गमैः। अदृश्यन्त महाराज योधास्तत्र रणाजिरे ॥९-१७-३२॥
भग्नचक्रान्रथान्केचिदवहंस्तुरगा रणे। रथार्धं केचिदादाय दिशो दश विबभ्रमुः ॥ तत्र तत्र च दृश्यन्ते योक्त्रैः श्लिष्टाः स्म वाजिनः ॥९-१७-३३॥
रथिनः पतमानाश्च व्यदृश्यन्त नरोत्तम। गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षये ॥९-१७-३४॥
निहतेषु च शूरेषु मद्रराजानुगेषु च। अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः ॥९-१७-३५॥
अभ्यवर्तन्त वेगेन जयगृध्राः प्रहारिणः। बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिस्वनैः ॥९-१७-३६॥
अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः। शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः ॥९-१७-३७॥
ततो हतमभिप्रेक्ष्य मद्रराजबलं महत्। मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् ॥ दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥९-१७-३८॥
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः। दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः ॥९-१७-३९॥