09.015
Pancharatra and Core: The Kaurava army retreats; Duryodhana faces defeat at the hands of Bhima; unable to withstand Yudhisthira, Shalya is taken away by Ashwatthama.
सञ्जय उवाच॥
ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः। पुनरभ्यद्रवन्पार्थान्वेगेन महता रणे ॥९-१५-१॥
पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः। क्षणेनैव च पार्थांस्ते बहुत्वात्समलोडयन् ॥९-१५-२॥
ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे। निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थयोः ॥९-१५-३॥
ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः। अवाकिरच्छरौघेण कृतवर्माणमेव च ॥९-१५-४॥
शकुनिं सहदेवस्तु सहसैन्यमवारयत्। नकुलः पार्श्वतः स्थित्वा मद्रराजमवैक्षत ॥९-१५-५॥
द्रौपदेया नरेन्द्रांश्च भूयिष्ठं समवारयन्। द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् ॥९-१५-६॥
भीमसेनस्तु राजानं गदापाणिरवारयत्। शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः ॥९-१५-७॥
ततः समभवद्युद्धं संसक्तं तत्र तत्र ह। तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ॥९-१५-८॥
तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे। यदेकः सर्वसैन्यानि पाण्डवानामयुध्यत ॥९-१५-९॥
व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः। रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः ॥९-१५-१०॥
पीडयित्वा तु राजानं शरैराशीविषोपमैः। अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् ॥९-१५-११॥
तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम्। अपूजयन्ननीकानि परेषां तावकानि च ॥९-१५-१२॥
पीड्यमानास्तु शल्येन पाण्डवा भृशविक्षताः। प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे ॥९-१५-१३॥
वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः। अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः ॥ ततः पौरुषमास्थाय मद्रराजमपीडयत् ॥९-१५-१४॥
जयो वास्तु वधो वेति कृतबुद्धिर्महारथः। समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च माधवम् ॥९-१५-१५॥
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः। कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः ॥९-१५-१६॥
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः। भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः ॥९-१५-१७॥
सोऽहमद्य युधा जेतुमाशंसे मद्रकेश्वरम्। तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः ॥९-१५-१८॥
चक्ररक्षाविमौ शूरौ मम माद्रवतीसुतौ। अजेयौ वासवेनापि समरे वीरसंमतौ ॥९-१५-१९॥
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ। मदर्थं प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ ॥९-१५-२०॥
मां वा शल्यो रणे हन्ता तं वाहं भद्रमस्तु वः। इति सत्यामिमां वाणीं लोकवीरा निबोधत ॥९-१५-२१॥
योत्स्येऽहं मातुलेनाद्य क्षत्रधर्मेण पार्थिवाः। स्वयं समभिसन्धाय विजयायेतराय वा ॥९-१५-२२॥
तस्य मेऽभ्यधिकं शस्त्रं सर्वोपकरणानि च। संयुञ्जन्तु रणे क्षिप्रं शास्त्रवद्रथयोजकाः ॥९-१५-२३॥
शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम्। पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः ॥९-१५-२४॥
पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः। एवमभ्यधिकः शल्याद्भविष्यामि महामृधे ॥९-१५-२५॥
एवमुक्तास्तथा चक्रुः सर्वे राज्ञः प्रियैषिणः। ततः प्रहर्षः सैन्यानां पुनरासीत्तदा नृप ॥९-१५-२६॥
पाञ्चालानां सोमकानां मत्स्यानां च विशेषतः। प्रतिज्ञां तां च सङ्ग्रामे धर्मराजस्य पूरयन् ॥९-१५-२७॥
ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान्। अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे ॥९-१५-२८॥
तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनः। महता हर्षजेनाथ नादेन कुरुपुङ्गवाः ॥९-१५-२९॥
ह्रादेन गजघण्टानां शङ्खानां निनदेन च। तूर्यशब्देन महता नादयन्तश्च मेदिनीम् ॥९-१५-३०॥
तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान्। महामेघानिव बहूञ्शैलावस्तोदयावुभौ ॥९-१५-३१॥
शल्यस्तु समरश्लाघी धर्मराजमरिंदमम्। ववर्ष शरवर्षेण वर्षेण मघवानिव ॥९-१५-३२॥
तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः। द्रोणोपदेशान्विविधान्दर्शयानो महामनाः ॥९-१५-३३॥
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च। न चास्य विवरं कश्चिद्ददर्श चरतो रणे ॥९-१५-३४॥
तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम्। शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे ॥९-१५-३५॥
भीमस्तु तव पुत्रेण रणशौण्डेन सङ्गतः। पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः ॥९-१५-३६॥
तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम्। तावकानां परेषां च राजन्दुर्मन्त्रिते तव ॥९-१५-३७॥
दुर्योधनस्तु भीमस्य शरेणानतपर्वणा। चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमविभूषितम् ॥९-१५-३८॥
सकिङ्किणीकजालेन महता चारुदर्शनः। पपात रुचिरः सिंहो भीमसेनस्य नानदन् ॥९-१५-३९॥
पुनश्चास्य धनुश्चित्रं गजराजकरोपमम्। क्षुरेण शितधारेण प्रचकर्त नराधिपः ॥९-१५-४०॥
स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव। बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् ॥९-१५-४१॥
तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः। यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा ॥९-१५-४२॥
हतसूता हयास्तस्य रथमादाय भारत। व्यद्रवन्त दिशो राजन्हाहाकारस्तदाभवत् ॥९-१५-४३॥
तमभ्यधावत्त्राणार्थं द्रोणपुत्रो महारथः। कृपश्च कृतवर्मा च पुत्रं तेऽभिपरीप्सवः ॥९-१५-४४॥
तस्मिन्विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः। गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः ॥९-१५-४५॥
युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः। स्वयं सञ्चोदयन्नश्वान्दन्तवर्णान्मनोजवान् ॥९-१५-४६॥
तत्राद्भुतमपश्याम कुन्तीपुत्रे युधिष्ठिरे। पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् ॥९-१५-४७॥
विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना। चिच्छेद योधान्निशितैः शरैः शतसहस्रशः ॥९-१५-४८॥
यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः। शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः ॥९-१५-४९॥
साश्वसूतध्वजरथान्रथिनः पातयन्बहून्। आक्रीडदेको बलवान्पवनस्तोयदानिव ॥९-१५-५०॥
साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रशः। व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव ॥९-१५-५१॥
शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः। अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत् ॥९-१५-५२॥
तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे भीमकर्मणः। वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् ॥९-१५-५३॥
ततस्तौ तु सुसंरब्धौ प्रध्माप्य सलिलोद्भवौ। समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः ॥९-१५-५४॥
शल्यस्तु शरवर्षेण युधिष्ठिरमवाकिरत्। मद्रराजं च कौन्तेयः शरवर्षैरवाकिरत् ॥९-१५-५५॥
व्यदृश्येतां तदा राजन्कङ्कपत्रिभिराहवे। उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ ॥९-१५-५६॥
पुष्पिताविव रेजाते वने शल्मलिकिंशुका। दीप्यमानौ महात्मानौ प्राणयोर्युद्धदुर्मदौ ॥९-१५-५७॥
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम्। हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम् ॥९-१५-५८॥
शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम्। इतीव निश्चयो नाभूद्योधानां तत्र भारत ॥९-१५-५९॥
प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः। ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे। धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत ॥९-१५-६१॥
सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः। अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत ॥९-१५-६२॥
अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः। द्वाभ्यामथ शिताग्राभ्यामुभौ च पार्ष्णिसारथी ॥९-१५-६३॥
ततोऽस्य दीप्यमानेन पीतेन निशितेन च। प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम् ॥ ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिंदम ॥९-१५-६४॥
ततो मद्राधिपं द्रौणिरभ्यधावत्तथाकृतम्। आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे ॥९-१५-६५॥
मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे। स्थित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः ॥९-१५-६६॥
विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम्। सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् ॥९-१५-६७॥