Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.019
Core and Pancharatra: The elephant army of King Shalva attacks the Pandavas. Dhrishtadyumna kills the elephant on which the King Shaalva was riding, while Satyaki kills the falling King.
सञ्जय उवाच॥
संनिवृत्ते बलौघे तु शाल्वो म्लेच्छगणाधिपः। अभ्यवर्तत सङ्क्रुद्धः पाण्डूनां सुमहद्बलम् ॥९-१९-१॥
आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम्। दृप्तमैरावतप्रख्यममित्रगणमर्दनम् ॥९-१९-२॥
योऽसौ महाभद्रकुलप्रसूतः; सुपूजितो धार्तराष्ट्रेण नित्यम्। सुकल्पितः शास्त्रविनिश्चयज्ञैः; सदोपवाह्यः समरेषु राजन् ॥९-१९-३॥
तमास्थितो राजवरो बभूव; यथोदयस्थः सविता क्षपान्ते। स तेन नागप्रवरेण राज; न्नभ्युद्ययौ पाण्डुसुतान्समन्तात् ॥ शितैः पृषत्कैर्विददार चापि; महेन्द्रवज्रप्रतिमैः सुघोरैः ॥९-१९-४॥
ततः शरान्वै सृजतो महारणे; योधांश्च राजन्नयतो यमाय। नास्यान्तरं ददृशुः स्वे परे वा; यथा पुरा वज्रधरस्य दैत्याः ॥९-१९-५॥
ते पाण्डवाः सोमकाः सृञ्जयाश्च; तमेव नागं ददृशुः समन्तात्। सहस्रशो वै विचरन्तमेकं; यथा महेन्द्रस्य गजं समीपे ॥९-१९-६॥
संद्राव्यमाणं तु बलं परेषां; परीतकल्पं विबभौ समन्तात्। नैवावतस्थे समरे भृशं भया; द्विमर्दमानं तु परस्परं तदा ॥९-१९-७॥
ततः प्रभग्ना सहसा महाचमूः; सा पाण्डवी तेन नराधिपेन। दिशश्चतस्रः सहसा प्रधाविता; गजेन्द्रवेगं तमपारयन्ती ॥९-१९-८॥
दृष्ट्वा च तां वेगवता प्रभग्नां; सर्वे त्वदीया युधि योधमुख्याः। अपूजयंस्तत्र नराधिपं तं; दध्मुश्च शङ्खाञ्शशिसंनिकाशान् ॥९-१९-९॥
श्रुत्वा निनादं त्वथ कौरवाणां; हर्षाद्विमुक्तं सह शङ्खशब्दैः। सेनापतिः पाण्डवसृञ्जयानां; पाञ्चालपुत्रो न ममर्ष रोषात् ॥९-१९-१०॥
ततस्तु तं वै द्विरदं महात्मा; प्रत्युद्ययौ त्वरमाणो जयाय। जम्भो यथा शक्रसमागमे वै; नागेन्द्रमैरावणमिन्द्रवाह्यम् ॥९-१९-११॥
तमापतन्तं सहसा तु दृष्ट्वा; पाञ्चालराजं युधि राजसिंहः। तं वै द्विपं प्रेषयामास तूर्णं; वधाय राजन्द्रुपदात्मजस्य ॥९-१९-१२॥
स तं द्विपं सहसाभ्यापतन्त; मविध्यदर्कप्रतिमैः पृषत्कैः। कर्मारधौतैर्निशितैर्ज्वलद्भि; र्नाराचमुख्यैस्त्रिभिरुग्रवेगैः ॥९-१९-१३॥
ततोऽपरान्पञ्च शितान्महात्मा; नाराचमुख्यान्विससर्ज कुम्भे। स तैस्तु विद्धः परमद्विपो रणे; तदा परावृत्य भृशं प्रदुद्रुवे ॥९-१९-१४॥
तं नागराजं सहसा प्रणुन्नं; विद्राव्यमाणं च निगृह्य शाल्वः। तोत्त्राङ्कुशैः प्रेषयामास तूर्णं; पाञ्चालराजस्य रथं प्रदिश्य ॥९-१९-१५॥
दृष्ट्वापतन्तं सहसा तु नागं; धृष्टद्युम्नः स्वरथाच्छीघ्रमेव। गदां प्रगृह्याशु जवेन वीरो; भूमिं प्रपन्नो भयविह्वलाङ्गः ॥९-१९-१६॥
स तं रथं हेमविभूषिताङ्गं; साश्वं ससूतं सहसा विमृद्य। उत्क्षिप्य हस्तेन तदा महाद्विपो; विपोथयामास वसुन्धरातले ॥९-१९-१७॥
पाञ्चालराजस्य सुतं स दृष्ट्वा; तदार्दितं नागवरेण तेन। तमभ्यधावत्सहसा जवेन; भीमः शिखण्डी च शिनेश्च नप्ता ॥९-१९-१८॥
शरैश्च वेगं सहसा निगृह्य; तस्याभितोऽभ्यापततो गजस्य। स सङ्गृहीतो रथिभिर्गजो वै; चचाल तैर्वार्यमाणश्च सङ्ख्ये ॥९-१९-१९॥
ततः पृषत्कान्प्रववर्ष राजा; सूर्यो यथा रश्मिजालं समन्तात्। तेनाशुगैर्वध्यमाना रथौघाः; प्रदुद्रुवुस्तत्र ततस्तु सर्वे ॥९-१९-२०॥
तत्कर्म शाल्वस्य समीक्ष्य सर्वे; पाञ्चालमत्स्या नृप सृञ्जयाश्च। हाहाकारैर्नादयन्तः स्म युद्धे; द्विपं समन्ताद्रुरुधुर्नराग्र्याः ॥९-१९-२१॥
पाञ्चालराजस्त्वरितस्तु शूरो; गदां प्रगृह्याचलशृङ्गकल्पाम्। असम्भ्रमं भारत शत्रुघाती; जवेन वीरोऽनुससार नागम् ॥९-१९-२२॥
ततोऽथ नागं धरणीधराभं; मदं स्रवन्तं जलदप्रकाशम्। गदां समाविध्य भृशं जघान; पाञ्चालराजस्य सुतस्तरस्वी ॥९-१९-२३॥
स भिन्नकुम्भः सहसा विनद्य; मुखात्प्रभूतं क्षतजं विमुञ्चन्। पपात नागो धरणीधराभः; क्षितिप्रकम्पाच्चलितो यथाद्रिः ॥९-१९-२४॥
निपात्यमाने तु तदा गजेन्द्रे; हाहाकृते तव पुत्रस्य सैन्ये। स शाल्वराजस्य शिनिप्रवीरो; जहार भल्लेन शिरः शितेन ॥९-१९-२५॥
हृतोत्तमाङ्गो युधि सात्वतेन; पपात भूमौ सह नागराज्ञा। यथाद्रिशृङ्गं सुमहत्प्रणुन्नं; वज्रेण देवाधिपचोदितेन ॥९-१९-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.