09.018
Pancharatra and Core: Midday retreat of the Kaurava army after Shalya is slain by Yudhishthira. Duryodhana blocks his army from the back in an attempt to rally them. Bhima slaughters twenty-one thousand infantrymen who come after him. Duryodhana once again makes his last-ditch attempt to rally his army.
सञ्जय उवाच॥
पातिते युधि दुर्धर्षे मद्रराजे महारथे। तावकास्तव पुत्राश्च प्रायशो विमुखाभवन् ॥९-१८-१॥
वणिजो नावि भिन्नायां यथागाधेऽप्लवेऽर्णवे। अपारे पारमिच्छन्तो हते शूरे महात्मनि ॥९-१८-२॥
मद्रराजे महाराज वित्रस्ताः शरविक्षताः। अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥९-१८-३॥
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव। मध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना ॥९-१८-४॥
न सन्धातुमनीकानि न च राजन्पराक्रमे। आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ॥९-१८-५॥
भीष्मे द्रोणे च निहते सूतपुत्रे च भारत। यद्दुःखं तव योधानां भयं चासीद्विशां पते ॥ तद्भयं स च नः शोको भूय एवाभ्यवर्तत ॥९-१८-६॥
निराशाश्च जये तस्मिन्हते शल्ये महारथे। हतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैः ॥ मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ॥९-१८-७॥
अश्वानन्ये गजानन्ये रथानन्ये महारथाः। आरुह्य जवसम्पन्नाः पादाताः प्राद्रवन्भयात् ॥९-१८-८॥
द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः। सम्प्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः ॥९-१८-९॥
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः। धावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः ॥९-१८-१०॥
तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान्। अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ॥९-१८-११॥
बाणशब्दरवश्चापि सिंहनादश्च पुष्कलः। शङ्खशब्दश्च शूराणां दारुणः समपद्यत ॥९-१८-१२॥
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम्। अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ॥९-१८-१३॥
अद्य राजा सत्यधृतिर्जितामित्रो युधिष्ठिरः। अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया ॥९-१८-१४॥
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः। निःसञ्ज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम् ॥९-१८-१५॥
अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम्। अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ॥ अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् ॥९-१८-१६॥
अद्यप्रभृति पार्थांश्च प्रेष्यभूत उपाचरन्। विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ॥९-१८-१७॥
अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः। अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे ॥९-१८-१८॥
अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे। अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः ॥९-१८-१९॥
हते दुर्योधने युद्धे शक्रेणेवासुरे मये। यत्कृतं भीमसेनेन दुःशासनवधे तदा ॥ नान्यः कर्तास्ति लोके तदृते भीमं महाबलम् ॥९-१८-२०॥
जानीतामद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम्। मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ॥९-१८-२१॥
अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ महाबलौ। निहते सौबले शूरे गान्धारेषु च सर्वशः ॥९-१८-२२॥
कथं तेषां जयो न स्याद्येषां योद्धा धनञ्जयः। सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥९-१८-२३॥
द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ। शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ॥९-१८-२४॥
येषां च जगतां नाथो नाथः कृष्णो जनार्दनः। कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ॥९-१८-२५॥
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च। तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ॥९-१८-२६॥
कोऽन्यः शक्तो रणे जेतुमृते पार्थं युधिष्ठिरम्। यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः ॥९-१८-२७॥
इत्येवं वदमानास्ते हर्षेण महता युताः। प्रभग्नांस्तावकान्राजन्सृञ्जयाः पृष्ठतोऽन्वयुः ॥९-१८-२८॥
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान्। माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ॥९-१८-२९॥
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान्। दुर्योधनस्तदा सूतमब्रवीदुत्स्मयन्निव ॥९-१८-३०॥
न मातिक्रमते पार्थो धनुष्पाणिमवस्थितम्। जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय ॥९-१८-३१॥
जघने युध्यमानं हि कौन्तेयो मां धनञ्जयः। नोत्सहेताभ्यतिक्रान्तुं वेलामिव महोदधिः ॥९-१८-३२॥
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम्। सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः ॥९-१८-३३॥
सिंहनादांश्च बहुशः शृणु घोरान्भयानकान्। तस्माद्याहि शनैः सूत जघनं परिपालय ॥९-१८-३४॥
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु। पुनरावर्तते तूर्णं मामकं बलमोजसा ॥९-१८-३५॥
तच्छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचः। सारथिर्हेमसञ्छन्नाञ्शनैरश्वानचोदयत् ॥९-१८-३६॥
गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः। एकविंशतिसाहस्राः संयुगायावतस्थिरे ॥९-१८-३७॥
नानादेशसमुद्भूता नानारञ्जितवाससः। अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ॥९-१८-३८॥
तेषामापततां तत्र संहृष्टानां परस्परम्। संमर्दः सुमहाञ्जज्ञे घोररूपो भयानकः ॥९-१८-३९॥
भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम्। बलेन चतुरङ्गेण नानादेश्या न्यवारयन् ॥९-१८-४०॥
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः। प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ॥९-१८-४१॥
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः। धार्तराष्ट्रा विनेदुर्हि नान्यां चाकथयन्कथाम् ॥ परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ॥९-१८-४२॥
स वध्यमानः समरे पदातिगणसंवृतः। न चचाल रथोपस्थे मैनाक इव पर्वतः ॥९-१८-४३॥
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम्। निग्रहीतुं प्रचक्रुर्हि योधांश्चान्यानवारयन् ॥९-१८-४४॥
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः। सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ॥९-१८-४५॥
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम्। अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥९-१८-४६॥
रथाश्वद्विपहीनांस्तु तान्भीमो गदया बली। एकविंशतिसाहस्रान्पदातीनवपोथयत् ॥९-१८-४७॥
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः। धृष्टद्युम्नं पुरस्कृत्य नचिरात्प्रत्यदृश्यत ॥९-१८-४८॥
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः। सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ॥९-१८-४९॥
नानापुष्पस्रजोपेता नानाकुण्डलधारिणः। नानाजात्या हतास्तत्र नानादेशसमागताः ॥९-१८-५०॥
पताकाध्वजसञ्छन्नं पदातीनां महद्बलम्। निकृत्तं विबभौ तत्र घोररूपं भयानकम् ॥९-१८-५१॥
युधिष्ठिरपुरोगास्तु सर्वसैन्यमहारथाः। अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव ॥९-१८-५२॥
ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान्। नाभ्यवर्तन्त ते पुत्रं वेलेव मकरालयम् ॥९-१८-५३॥
तदद्भुतमपश्याम तव पुत्रस्य पौरुषम्। यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् ॥९-१८-५४॥
नातिदूरापयातं तु कृतबुद्धिं पलायने। दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् ॥९-१८-५५॥
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वा। यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः ॥९-१८-५६॥
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ। यदि सर्वेऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् ॥९-१८-५७॥
विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्बिषान्। अनुसृत्य हनिष्यन्ति श्रेयो नः समरे स्थितम् ॥९-१८-५८॥
शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः। यदा शूरं च भीरुं च मारयत्यन्तकः सदा ॥ को नु मूढो न युध्येत पुरुषः क्षत्रियब्रुवः ॥९-१८-५९॥
श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम्। सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् ॥ जित्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् ॥९-१८-६०॥
न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः। अचिरेण जिताँल्लोकान्हतो युद्धे समश्नुते ॥९-१८-६१॥
श्रुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः। पुनरेवान्ववर्तन्त पाण्डवानाततायिनः ॥९-१८-६२॥
तानापतत एवाशु व्यूढानीकाः प्रहारिणः। प्रत्युद्ययुस्तदा पार्था जयगृध्राः प्रहारिणः ॥९-१८-६३॥
धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान्। विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः ॥९-१८-६४॥
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः। जवेनाभ्यपतन्हृष्टा यतो वै तावकं बलम् ॥९-१८-६५॥