Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.020
Core and Pancharatra: King Kshemadruti is killed by Satyaki; in the intense battle between two Shatvatas, Satyaki and Kritavarma, Kritavarma is defeated; Kripa who attacks following Kritavarma's defeat, is taken away; the Kaurava army flees, leaving behind Duryodhana.
सञ्जय उवाच॥
तस्मिंस्तु निहते शूरे शाल्वे समितिशोभने। तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः ॥९-२०-१॥
तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः। दधार समरे शूरः शत्रुसैन्यं महाबलः ॥९-२०-२॥
संनिवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे। शैलोपमं स्थितं राजन्कीर्यमाणं शरैर्युधि ॥९-२०-३॥
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह। निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ॥९-२०-४॥
तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सह। यदेको वारयामास पाण्डुसेनां दुरासदाम् ॥९-२०-५॥
तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे। सिंहनादः प्रहृष्टानां दिवःस्पृक्सुमहानभूत् ॥९-२०-६॥
तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ। शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः ॥९-२०-७॥
स समासाद्य राजानं क्षेमधूर्तिं महाबलम्। सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् ॥९-२०-८॥
तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान्। जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुङ्गवम् ॥९-२०-९॥
तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ। अन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ ॥९-२०-१०॥
पाण्डवाः सह पाञ्चालैर्योधाश्चान्ये नृपोत्तमाः। प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः ॥९-२०-११॥
नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ। अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ ॥९-२०-१२॥
चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ। मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् ॥९-२०-१३॥
चापवेगबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः। आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ॥९-२०-१४॥
तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः। अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् ॥९-२०-१५॥
स दीर्घबाहुः सङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः। अष्टाभिः कृतवर्माणमविध्यत्परमेषुभिः ॥९-२०-१६॥
ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः। सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ॥९-२०-१७॥
निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः। अन्यदादत्त वेगेन शैनेयः सशरं धनुः ॥९-२०-१८॥
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्। आरोप्य च महावीर्यो महाबुद्धिर्महाबलः ॥९-२०-१९॥
अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा। कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ॥९-२०-२०॥
ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः। जघान सूतमश्वांश्च ध्वजं च कृतवर्मणः ॥९-२०-२१॥
ततो राजन्महेष्वासः कृतवर्मा महारथः। हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम् ॥९-२०-२२॥
रोषेण महताविष्टः शूलमुद्यम्य मारिष। चिक्षेप भुजवेगेन जिघांसुः शिनिपुङ्गवम् ॥९-२०-२३॥
तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः। चूर्णितं पातयामास मोहयन्निव माधवम् ॥ ततोऽपरेण भल्लेन हृद्येनं समताडयत् ॥९-२०-२४॥
स युद्धे युयुधानेन हताश्वो हतसारथिः। कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत ॥९-२०-२५॥
तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते। समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ॥९-२०-२६॥
पुत्रस्य तव चात्यर्थं विषादः समपद्यत। हतसूते हताश्वे च विरथे कृतवर्मणि ॥९-२०-२७॥
हताश्वं च समालक्ष्य हतसूतमरिंदमम्। अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम् ॥९-२०-२८॥
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम्। अपोवाह महाबाहुस्तूर्णमायोधनादपि ॥९-२०-२९॥
शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि। दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥९-२०-३०॥
तत्परे नावबुध्यन्त सैन्येन रजसावृते। तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ॥९-२०-३१॥
दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात्। जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् ॥९-२०-३२॥
पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम्। शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः ॥९-२०-३३॥
केकयान्सोमकांश्चैव पाञ्चालांश्चैव मारिष। असम्भ्रमं दुराधर्षः शितैरस्त्रैरवारयत् ॥९-२०-३४॥
अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः। यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशयन् ॥९-२०-३५॥
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे। अथान्यं रथमास्थाय हार्दिक्यः समपद्यत ॥९-२०-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.