09.038
Library: Balarama visits Uśanas, known as Kapālamocana; hermitage of Rushanga; then comes to Sindhudvipa where the royal sage Devapi attained Brahminhood.
वैशम्पायन उवाच॥
उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः। तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ॥९-३८-१॥
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च। पूजितो मुनिसङ्घैश्च प्रातरुत्थाय लाङ्गली ॥९-३८-२॥
अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत। प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ॥९-३८-३॥
तत औशनसं तीर्थमाजगाम हलायुधः। कपालमोचनं नाम यत्र मुक्तो महामुनिः ॥९-३८-४॥
महता शिरसा राजन्ग्रस्तजङ्घो महोदरः। राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा ॥९-३८-५॥
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना। यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः ॥ तत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् ॥९-३८-६॥
तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम्। विधिवद्धि ददौ वित्तं ब्राह्मणानां महात्मनाम् ॥९-३८-७॥
जनमेजय उवाच॥
कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः। मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना ॥९-३८-८॥
वैशम्पायन उवाच॥
पुरा वै दण्डकारण्ये राघवेण महात्मना। वसता राजशार्दूल राक्षसास्तत्र हिंसिताः ॥९-३८-९॥
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः। क्षुरेण शितधारेण तत्पपात महावने ॥९-३८-१०॥
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया। वने विचरतो राजन्नस्थि भित्त्वास्फुरत्तदा ॥९-३८-११॥
स तेन लग्नेन तदा द्विजातिर्न शशाक ह। अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥९-३८-१२॥
स पूतिना विस्रवता वेदनार्तो महामुनिः। जगाम सर्वतीर्थानि पृथिव्यामिति नः श्रुतम् ॥९-३८-१३॥
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः। कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥९-३८-१४॥
आप्लुतः सर्वतीर्थेषु न च मोक्षमवाप्तवान्। स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् ॥९-३८-१५॥
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा। सर्वपापप्रशमनं सिद्धक्षेत्रमनुत्तमम् ॥९-३८-१६॥
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः। तत औशनसे तीर्थे तस्योपस्पृशतस्तदा ॥ तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा ॥९-३८-१७॥
ततः स विरुजो राजन्पूतात्मा वीतकल्मषः। आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः ॥९-३८-१८॥
सोऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः। कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥९-३८-१९॥
ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद। कपालमोचनमिति नाम चक्रुः समागताः ॥९-३८-२०॥
तत्र दत्त्वा बहून्दायान्विप्रान्सम्पूज्य माधवः। जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा ॥९-३८-२१॥
यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत। ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः ॥९-३८-२२॥
ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः। जगाम यत्र राजेन्द्र रुषङ्गुस्तनुमत्यजत् ॥९-३८-२३॥
रुषङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत। देहन्यासे कृतमना विचिन्त्य बहुधा बहु ॥९-३८-२४॥
ततः सर्वानुपादाय तनयान्वै महातपाः। रुषङ्गुरब्रवीत्तत्र नयध्वं मा पृथूदकम् ॥९-३८-२५॥
विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः। तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम् ॥९-३८-२६॥
स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम्। पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम् ॥९-३८-२७॥
स तत्र विधिना राजन्नाप्लुतः सुमहातपाः। ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः ॥ सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः ॥९-३८-२८॥
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्। पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ॥९-३८-२९॥
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः। दत्त्वा चैव बहून्दायान्विप्राणां विप्रवत्सलः ॥९-३८-३०॥
ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः। यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः ॥ तपसा महता राजन्प्राप्तवानृषिसत्तमः ॥९-३८-३१॥
सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः। ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः ॥ महातपस्वी भगवानुग्रतेजा महातपाः ॥९-३८-३२॥
तत्राजगाम बलवान्बलभद्रः प्रतापवान्।