09.039
Library: Sage Ārṣṭiṣeṇa's great austerities and attainment of Brahminhood by Sindhudvīpa.
जनमेजय उवाच॥
कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपः। सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा ॥९-३९-१॥
देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम। तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे ॥९-३९-२॥
वैशम्पायन उवाच॥
पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः। वसन्गुरुकुले नित्यं नित्यमध्ययने रतः ॥९-३९-३॥
तस्य राजन्गुरुकुले वसतो नित्यमेव ह। समाप्तिं नागमद्विद्या नापि वेदा विशां पते ॥९-३९-४॥
स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः। ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् ॥९-३९-५॥
स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः। तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः ॥९-३९-६॥
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः। आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् ॥९-३९-७॥
अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति। अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम् ॥९-३९-८॥
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः। एवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान् ॥९-३९-९॥
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान्। देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् ॥९-३९-१०॥
तथा च कौशिकस्तात तपोनित्यो जितेन्द्रियः। तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् ॥९-३९-११॥
गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि। तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् ॥९-३९-१२॥
स राजा कौशिकस्तात महायोग्यभवत्किल। स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः ॥९-३९-१३॥
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः। न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् ॥९-३९-१४॥
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्तदा। विश्वस्य जगतो गोप्ता भविष्यति सुतो मम ॥९-३९-१५॥
इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च। जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः ॥ न च शक्नोति पृथिवीं यत्नवानपि रक्षितुम् ॥९-३९-१६॥
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम्। निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः ॥९-३९-१७॥
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात्। तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् ॥९-३९-१८॥
ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात्। ददृशे च ततः सर्वं भज्यमानं महावनम् ॥९-३९-१९॥
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः। सृजस्व शबरान्घोरानिति स्वां गामुवाच ह ॥९-३९-२०॥
तथोक्ता सासृजद्धेनुः पुरुषान्घोरदर्शनान्। ते च तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् ॥९-३९-२१॥
तद्दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः। तपः परं मन्यमानस्तपस्येव मनो दधे ॥९-३९-२२॥
सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः। नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः ॥९-३९-२३॥
जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत्। तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक् ॥९-३९-२४॥
असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे। न चास्य नियमाद्बुद्धिरपयाति महात्मनः ॥९-३९-२५॥
ततः परेण यत्नेन तप्त्वा बहुविधं तपः। तेजसा भास्कराकारो गाधिजः समपद्यत ॥९-३९-२६॥
तपसा तु तथा युक्तं विश्वामित्रं पितामहः। अमन्यत महातेजा वरदो वरमस्य तत् ॥९-३९-२७॥
स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति। तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः ॥९-३९-२८॥
स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः। विचचार महीं कृत्स्नां कृतकामः सुरोपमः ॥९-३९-२९॥
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु। पयस्विनीस्तथा धेनूर्यानानि शयनानि च ॥९-३९-३०॥
तथा वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम्। अददान्मुदितो राजन्पूजयित्वा द्विजोत्तमान् ॥९-३९-३१॥
ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात्। यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः ॥९-३९-३२॥