09.040
Library: Story of Dalbhya and Baka and why animal sacrifice is inappropriate.
वैशम्पायन उवाच॥
ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः। यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः ॥ जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः ॥९-४०-१॥
तपसा घोररूपेण कर्शयन्देहमात्मनः। क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान् ॥९-४०-२॥
पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके। वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ॥९-४०-३॥
तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः। बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम् ॥९-४०-४॥
तानब्रवीद्बको वृद्धो विभजध्वं पशूनिति। पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ॥९-४०-५॥
एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान्। जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ॥९-४०-६॥
स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम्। अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ॥९-४०-७॥
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तम। एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि ॥९-४०-८॥
ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित्। अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ॥९-४०-९॥
चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः। मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ॥९-४०-१०॥
स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः। जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ॥९-४०-११॥
अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम्। बको दाल्भ्यो महाराज नियमं परमास्थितः ॥ स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः ॥९-४०-१२॥
तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे। अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ॥९-४०-१३॥
छिद्यमानं यथानन्तं वनं परशुना विभो। बभूवापहतं तच्चाप्यवकीर्णमचेतनम् ॥९-४०-१४॥
दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः। बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः ॥९-४०-१५॥
मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा। अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप ॥९-४०-१६॥
यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप। अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय ॥९-४०-१७॥
ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया। मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः ॥९-४०-१८॥
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान्। तस्यैतत्तपसः कर्म येन ते ह्यनयो महान् ॥ अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ॥९-४०-१९॥
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत्। निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ ॥९-४०-२०॥
प्रसादये त्वा भगवन्नपराधं क्षमस्व मे। मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः ॥ त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ॥९-४०-२१॥
तं तथा विलपन्तं तु शोकोपहतचेतसम्। दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत् ॥९-४०-२२॥
ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः। मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम् ॥९-४०-२३॥
मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून्बहून्। हृष्टात्मा नैमिषारण्यं जगाम पुनरेव हि ॥९-४०-२४॥
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः। स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत् ॥९-४०-२५॥
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः। असुराणामभावाय भावाय च दिवौकसाम् ॥९-४०-२६॥
मांसैरपि जुहावेष्टिमक्षीयन्त ततोऽसुराः। दैवतैरपि सम्भग्ना जितकाशिभिराहवे ॥९-४०-२७॥
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः। वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान् ॥९-४०-२८॥
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम्। ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ॥९-४०-२९॥
यत्र यज्ञे ययातेस्तु महाराज सरस्वती। सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ॥९-४०-३०॥
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः। आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान् ॥९-४०-३१॥
ययातेर्यजमानस्य यत्र राजन्सरस्वती। प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम् ॥९-४०-३२॥
यत्र यत्र हि यो विप्रो यान्यान्कामानभीप्सति। तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून्रसान् ॥९-४०-३३॥
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा। विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम् ॥९-४०-३४॥
ततस्तालकेतुर्महाधर्मसेतु; र्महात्मा कृतात्मा महादाननित्यः। वसिष्ठापवाहं महाभीमवेगं; धृतात्मा जितात्मा समभ्याजगाम ॥९-४०-३५॥