Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.041
Library: Sarasvati, Sage Vasishtha and Sage Vishwamitra
जनमेजय उवाच॥
वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः। किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ॥९-४१-१॥
केन चास्याभवद्वैरं कारणं किं च तत्प्रभो। शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम् ॥९-४१-२॥
वैशम्पायन उवाच॥
विश्वामित्रस्य चैवर्षेर्वसिष्ठस्य च भारत। भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् ॥९-४१-३॥
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान्। पूर्वतः पश्चिमश्चासीद्विश्वामित्रस्य धीमतः ॥९-४१-४॥
यत्र स्थाणुर्महाराज तप्तवान्सुमहत्तपः। यत्रास्य कर्म तद्घोरं प्रवदन्ति मनीषिणः ॥९-४१-५॥
यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम्। स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो ॥९-४१-६॥
तत्र सर्वे सुराः स्कन्दमभ्यषिञ्चन्नराधिप। सेनापत्येन महता सुरारिविनिबर्हणम् ॥९-४१-७॥
तस्मिन्सरस्वतीतीर्थे विश्वामित्रो महामुनिः। वसिष्ठं चालयामास तपसोग्रेण तच्छृणु ॥९-४१-८॥
विश्वामित्रवसिष्ठौ तावहन्यहनि भारत। स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ ॥९-४१-९॥
तत्राप्यधिकसन्तापो विश्वामित्रो महामुनिः। दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह ॥ तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत ॥९-४१-१०॥
इयं सरस्वती तूर्णं मत्समीपं तपोधनम्। आनयिष्यति वेगेन वसिष्ठं जपतां वरम् ॥ इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः ॥९-४१-११॥
एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः। सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः ॥९-४१-१२॥
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह। जज्ञे चैनं महावीर्यं महाकोपं च भामिनी ॥९-४१-१३॥
तत एनं वेपमाना विवर्णा प्राञ्जलिस्तदा। उपतस्थे मुनिवरं विश्वामित्रं सरस्वती ॥९-४१-१४॥
हतवीरा यथा नारी साभवद्दुःखिता भृशम्। ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् ॥९-४१-१५॥
तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय। यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी ॥९-४१-१६॥
साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा। विव्यथे सुविरूढेव लता वायुसमीरिता ॥९-४१-१७॥
तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम्। विश्वामित्रोऽब्रवीत्क्रुद्धो वसिष्ठं शीघ्रमानय ॥९-४१-१८॥
ततो भीता सरिच्छ्रेष्ठा चिन्तयामास भारत। उभयोः शापयोर्भीता कथमेतद्भविष्यति ॥९-४१-१९॥
साभिगम्य वसिष्ठं तु इममर्थमचोदयत्। यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता ॥९-४१-२०॥
उभयोः शापयोर्भीता वेपमाना पुनः पुनः। चिन्तयित्वा महाशापमृषिवित्रासिता भृशम् ॥९-४१-२१॥
तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम्। उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः ॥९-४१-२२॥
त्राह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी। विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम् ॥९-४१-२३॥
तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित्। चिन्तयामास कौरव्य किं कृतं सुकृतं भवेत् ॥९-४१-२४॥
तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि। कृतवान्हि दयां नित्यं तस्य कार्यं हितं मया ॥९-४१-२५॥
अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम्। जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत् ॥९-४१-२६॥
इदमन्तरमित्येव ततः सा सरितां वरा। कूलापहारमकरोत्स्वेन वेगेन सा सरित् ॥९-४१-२७॥
तेन कूलापहारेण मैत्रावरुणिरौह्यत। उह्यमानश्च तुष्टाव तदा राजन्सरस्वतीम् ॥९-४१-२८॥
पितामहस्य सरसः प्रवृत्तासि सरस्वति। व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः ॥९-४१-२९॥
त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः। सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहे ॥९-४१-३०॥
पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्वृद्धिरुमा तथा। त्वमेव वाणी स्वाहा त्वं त्वय्यायत्तमिदं जगत् ॥ त्वमेव सर्वभूतेषु वससीह चतुर्विधा ॥९-४१-३१॥
एवं सरस्वती राजन्स्तूयमाना महर्षिणा। वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ॥ न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम् ॥९-४१-३२॥
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः। अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा ॥९-४१-३३॥
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी। अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता ॥ उभयोः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम् ॥९-४१-३४॥
ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम्। अब्रवीदथ सङ्क्रुद्धो विश्वामित्रो ह्यमर्षणः ॥९-४१-३५॥
यस्मान्मा त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता। शोणितं वह कल्याणि रक्षोग्रामणिसंमतम् ॥९-४१-३६॥
ततः सरस्वती शप्ता विश्वामित्रेण धीमता। अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ॥९-४१-३७॥
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तथा। सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः ॥९-४१-३८॥
एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप। आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा ॥९-४१-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.