09.064
सञ्जय उवाच॥
वातिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम्। हतशिष्टास्ततो राजन्कौरवाणां महारथाः ॥९-६४-१॥
विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः। अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥ त्वरिता जवनैरश्वैरायोधनमुपागमन् ॥९-६४-२॥
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम्। प्रभग्नं वायुवेगेन महाशालं यथा वने ॥९-६४-३॥
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम्। महागजमिवारण्ये व्याधेन विनिपातितम् ॥९-६४-४॥
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम्। यदृच्छया निपतितं चक्रमादित्यगोचरम् ॥९-६४-५॥
महावातसमुत्थेन संशुष्कमिव सागरम्। पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् ॥९-६४-६॥
रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम्। वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः ॥ यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् ॥९-६४-७॥
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम्। सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा ॥९-६४-८॥
ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम्। मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः ॥९-६४-९॥
अवतीर्य रथेभ्यस्तु प्राद्रवन्राजसंनिधौ। दुर्योधनं च सम्प्रेक्ष्य सर्वे भूमावुपाविशन् ॥९-६४-१०॥
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन्। उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् ॥९-६४-११॥
न नूनं विद्यतेऽसह्यं मानुष्ये किञ्चिदेव हि। यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः ॥९-६४-१२॥
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम्। कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने ॥९-६४-१३॥
दुःशासनं न पश्यामि नापि कर्णं महारथम्। नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ ॥९-६४-१४॥
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन। लोकानां च भवान्यत्र शेते पांसुषु रूषितः ॥९-६४-१५॥
एष मूर्धावसिक्तानामग्रे गत्वा परन्तपः। सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् ॥९-६४-१६॥
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव। सा च ते महती सेना क्व गता पार्थिवोत्तम ॥९-६४-१७॥
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे। यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः ॥९-६४-१८॥
अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीरुपलक्ष्यते। भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् ॥९-६४-१९॥
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः। उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः ॥९-६४-२०॥
विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन्। कृपादीन्स तदा वीरान्सर्वानेव नराधिपः ॥९-६४-२१॥
ईदृशो मर्त्यधर्मोऽयं धात्रा निर्दिष्ट उच्यते। विनाशः सर्वभूतानां कालपर्यायकारितः ॥९-६४-२२॥
सोऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः। पृथिवीं पालयित्वाहमेतां निष्ठामुपागतः ॥९-६४-२३॥
दिष्ट्या नाहं परावृत्तो युद्धे कस्याञ्चिदापदि। दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः ॥९-६४-२४॥
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता। दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः ॥९-६४-२५॥
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात्। स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम् ॥९-६४-२६॥
मा भवन्तोऽनुतप्यन्तां सौहृदान्निधनेन मे। यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः ॥९-६४-२७॥
मन्यमानः प्रभावं च कृष्णस्यामिततेजसः। तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् ॥९-६४-२८॥
स मया समनुप्राप्तो नास्मि शोच्यः कथञ्चन। कृतं भवद्भिः सदृशमनुरूपमिवात्मनः ॥ यतितं विजये नित्यं दैवं तु दुरतिक्रमम् ॥९-६४-२९॥
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः। तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम् ॥९-६४-३०॥
तथा तु दृष्ट्वा राजानं बाष्पशोकसमन्वितम्। द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये ॥९-६४-३१॥
स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च। बाष्पविह्वलया वाचा राजानमिदमब्रवीत् ॥९-६४-३२॥
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा। न तथा तेन तप्यामि यथा राजंस्त्वयाद्य वै ॥९-६४-३३॥
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो। इष्टापूर्तेन दानेन धर्मेण सुकृतेन च ॥९-६४-३४॥
अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः। सर्वोपायैर्हि नेष्यामि प्रेतराजनिवेशनम् ॥ अनुज्ञां तु महाराज भवान्मे दातुमर्हति ॥९-६४-३५॥
इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः। मनसः प्रीतिजननं कृपं वचनमब्रवीत् ॥ आचार्य शीघ्रं कलशं जलपूर्णं समानय ॥९-६४-३६॥
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः। कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत् ॥९-६४-३७॥
तमब्रवीन्महाराज पुत्रस्तव विशां पते। ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् ॥ सेनापत्येन भद्रं ते मम चेदिच्छसि प्रियम् ॥९-६४-३८॥
राज्ञो नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः। वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः ॥९-६४-३९॥
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः। द्रौणिं राज्ञो नियोगेन सेनापत्येऽभ्यषेचयत् ॥९-६४-४०॥
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम्। प्रययौ सिंहनादेन दिशः सर्वा विनादयन् ॥९-६४-४१॥
दुर्योधनोऽपि राजेन्द्र शोणितौघपरिप्लुतः। तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम् ॥९-६४-४२॥
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप। शोकसंविग्नमनसश्चिन्ताध्यानपराभवन् ॥९-६४-४३॥