09.063
Pancharatra and Core: Duryodhana gives instructions to kill the Pandavas when they are sleeping, and the message is conveyed to Ashwatthama.
धृतराष्ट्र उवाच॥
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः। शौटीरमानी पुत्रो मे कान्यभाषत सञ्जय ॥९-६३-१॥
अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु। व्यसनं परमं प्राप्तः किमाह परमाहवे ॥९-६३-२॥
सञ्जय उवाच॥
शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप। राज्ञा यदुक्तं भग्नेन तस्मिन्व्यसन आगते ॥९-६३-३॥
भग्नसक्थो नृपो राजन्पांसुना सोऽवगुण्ठितः। यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश ॥९-६३-४॥
केशान्नियम्य यत्नेन निःश्वसन्नुरगो यथा। संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम् ॥९-६३-५॥
बाहू धरण्यां निष्पिष्य मुहुर्मत्त इव द्विपः। प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन् ॥ गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत् ॥९-६३-६॥
भीष्मे शान्तनवे नाथे कर्णे चास्त्रभृतां वरे। गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे ॥९-६३-७॥
अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि। इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः ॥९-६३-८॥
एकादशचमूभर्ता सोऽहमेतां दशां गतः। कालं प्राप्य महाबाहो न कश्चिदतिवर्तते ॥९-६३-९॥
आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति सङ्गरे। यथाहं भीमसेनेन व्युत्क्रम्य समयं हतः ॥९-६३-१०॥
बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः। भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति ॥९-६३-११॥
इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम्। येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः ॥९-६३-१२॥
का प्रीतिः सत्त्वयुक्तस्य कृत्वोपधिकृतं जयम्। को वा समयभेत्तारं बुधः संमन्तुमर्हति ॥९-६३-१३॥
अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः। यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः ॥९-६३-१४॥
किं नु चित्रमतस्त्वद्य भग्नसक्थस्य यन्मम। क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः ॥९-६३-१५॥
प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु। एवं कुर्यान्नरो यो हि स वै सञ्जय पूजितः ॥९-६३-१६॥
अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च मे। तौ हि सञ्जय दुःखार्तौ विज्ञाप्यौ वचनान्मम ॥९-६३-१७॥
इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा। मूर्ध्नि स्थितममित्राणां जीवतामेव सञ्जय ॥९-६३-१८॥
दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम्। अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया ॥९-६३-१९॥
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत्। प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया ॥९-६३-२०॥
मानिता बान्धवाः सर्वे मान्यः सम्पूजितो जनः। त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया ॥९-६३-२१॥
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः। आजानेयैस्तथा यातं को नु स्वन्ततरो मया ॥९-६३-२२॥
अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम्। स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया ॥९-६३-२३॥
दिष्ट्या नाहं जितः सङ्ख्ये परान्प्रेष्यवदाश्रितः। दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यं गता विभो ॥९-६३-२४॥
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम्। निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया ॥९-६३-२५॥
दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवज्जितः। दिष्ट्या न विमतिं काञ्चिद्भजित्वा तु पराजितः ॥९-६३-२६॥
सुप्तं वाथ प्रमत्तं वा यथा हन्याद्विषेण वा। एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः ॥९-६३-२७॥
अश्वत्थामा महाभागः कृतवर्मा च सात्वतः। कृपः शारद्वतश्चैव वक्तव्या वचनान्मम ॥९-६३-२८॥
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः। विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ ॥९-६३-२९॥
वातिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः। अधर्माद्भीमसेनेन निहतोऽहं यथा रणे ॥९-६३-३०॥
सोऽहं द्रोणं स्वर्गगतं शल्यकर्णावुभौ तथा। वृषसेनं महावीर्यं शकुनिं चापि सौबलम् ॥९-६३-३१॥
जलसन्धं महावीर्यं भगदत्तं च पार्थिवम्। सौमदत्तिं महेष्वासं सैन्धवं च जयद्रथम् ॥९-६३-३२॥
दुःशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा। दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ ॥९-६३-३३॥
एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः। पृष्ठतोऽनुगमिष्यामि सार्थहीन इवाध्वगः ॥९-६३-३४॥
कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम। रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति ॥९-६३-३५॥
स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम। गान्धारीसहितः क्रोशन्कां गतिं प्रतिपत्स्यते ॥९-६३-३६॥
नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा। विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना ॥९-६३-३७॥
यदि जानाति चार्वाकः परिव्राड्वाग्विशारदः। करिष्यति महाभागो ध्रुवं सोऽपचितिं मम ॥९-६३-३८॥
समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते। अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान् ॥९-६३-३९॥
ततो जनसहस्राणि बाष्पपूर्णानि मारिष। प्रलापं नृपतेः श्रुत्वा विद्रवन्ति दिशो दश ॥९-६३-४०॥
ससागरवना घोरा पृथिवी सचराचरा। चचालाथ सनिर्ह्रादा दिशश्चैवाविलाभवन् ॥९-६३-४१॥
ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन्। व्यवहारं गदायुद्धे पार्थिवस्य च घातनम् ॥९-६३-४२॥
तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत। ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम् ॥९-६३-४३॥