Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.001
Pancharatra and Core: Lamentation of Dhritarashtra absolving himself of any blame, and Sanjaya asking him to take the responsibility.
जनमेजय उवाच॥
हते दुर्योधने चैव हते सैन्ये च सर्वशः। धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने ॥११-१-१॥
तथैव कौरवो राजा धर्मपुत्रो महामनाः। कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ॥११-१-२॥
अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः। वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः ॥११-१-३॥
वैशम्पायन उवाच॥
हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम्। पुत्रशोकाभिसन्तप्तं धृतराष्ट्रं महीपतिम् ॥११-१-४॥
ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम्। अभिगम्य महाप्राज्ञः सञ्जयो वाक्यमब्रवीत् ॥११-१-५॥
किं शोचसि महाराज नास्ति शोके सहायता। अक्षौहिण्यो हताश्चाष्टौ दश चैव विशां पते ॥ निर्जनेयं वसुमती शून्या सम्प्रति केवला ॥११-१-६॥
नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः। सहितास्तव पुत्रेण सर्वे वै निधनं गताः ॥११-१-७॥
पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा। गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय ॥११-१-८॥
वैशम्पायन उवाच॥
तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः। पपात भुवि दुर्धर्षो वाताहत इव द्रुमः ॥११-१-९॥
धृतराष्ट्र उवाच॥
हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः। दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम् ॥११-१-१०॥
किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै। लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः ॥११-१-११॥
हृतराज्यो हतसुहृद्धतचक्षुश्च वै तथा। न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान् ॥११-१-१२॥
न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः। नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥११-१-१३॥
सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम। अलं वैरेण ते राजन्पुत्रः सङ्गृह्यतामिति ॥११-१-१४॥
तच्च वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः। न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम् ॥११-१-१५॥
दुर्योधनस्य च तथा वृषभस्येव नर्दतः। दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् ॥ द्रोणसूर्योपरागं च हृदयं मे विदीर्यते ॥११-१-१६॥
न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय दुष्कृतम्। यस्येदं फलमद्येह मया मूढेन भुज्यते ॥११-१-१७॥
नूनं ह्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु। येन मां दुःखभागेषु धाता कर्मसु युक्तवान् ॥११-१-१८॥
परिणामश्च वयसः सर्वबन्धुक्षयश्च मे। सुहृन्मित्रविनाशश्च दैवयोगादुपागतः ॥ कोऽन्योऽस्ति दुःखिततरो मया लोके पुमानिह ॥११-१-१९॥
तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रतम्। विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम् ॥११-१-२०॥
वैशम्पायन उवाच॥
तस्य लालप्यमानस्य बहुशोकं विचिन्वतः। शोकापहं नरेन्द्रस्य सञ्जयो वाक्यमब्रवीत् ॥११-१-२१॥
शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः। शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम ॥ सृञ्जये पुत्रशोकार्ते यदूचुर्मुनयः पुरा ॥११-१-२२॥
तथा यौवनजं दर्पमास्थिते ते सुते नृप। न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम् ॥ स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना ॥११-१-२३॥
तव दुःशासनो मन्त्री राधेयश्च दुरात्मवान्। शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः ॥ शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत् ॥११-१-२४॥
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च। न कृतं वचनं तेन तव पुत्रेण भारत ॥११-१-२५॥
न धर्मः सत्कृतः कश्चिन्नित्यं युद्धमिति ब्रुवन्। क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः ॥११-१-२६॥
मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान्। धूर्धरेण त्वया भारस्तुलया न समं धृतः ॥११-१-२७॥
आदावेव मनुष्येण वर्तितव्यं यथा क्षमम्। यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ॥११-१-२८॥
पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षता। पश्चात्तापमिदं प्राप्तं न त्वं शोचितुमर्हसि ॥११-१-२९॥
मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति। स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान् ॥११-१-३०॥
अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम्। न शोचञ्श्रियमाप्नोति न शोचन्विन्दते परम् ॥११-१-३१॥
स्वयमुत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत्। दह्यमानो मनस्तापं भजते न स पण्डितः ॥११-१-३२॥
त्वयैव ससुतेनायं वाक्यवायुसमीरितः। लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः ॥११-१-३३॥
तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः। तान्केशवार्चिर्निर्दग्धान्न त्वं शोचितुमर्हसि ॥११-१-३४॥
यच्चाश्रुपातकलिलं वदनं वहसे नृप। अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः ॥११-१-३५॥
विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान्। जहीहि मन्युं बुद्ध्या वै धारयात्मानमात्मना ॥११-१-३६॥
एवमाश्वासितस्तेन सञ्जयेन महात्मना। विदुरो भूय एवाह बुद्धिपूर्वं परन्तप ॥११-१-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.