11.002
Pancharatra and Core: Vidura's advice to Dhritarashtra on life, karma, and the need for valour.
वैशम्पायन उवाच॥
ततोऽमृतसमैर्वाक्यैर्ह्लादयन्पुरुषर्षभम्। वैचित्रवीर्यं विदुरो यदुवाच निबोध तत् ॥११-२-१॥
विदुर उवाच॥
उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना। स्थिरजङ्गममर्त्यानां सर्वेषामेष निर्णयः ॥११-२-२॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥११-२-३॥
यदा शूरं च भीरुं च यमः कर्षति भारत। तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ ॥११-२-४॥
अयुध्यमानो म्रियते युध्यमानश्च जीवति। कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥११-२-५॥
न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि। प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् ॥११-२-६॥
सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः। सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ॥११-२-७॥
अदर्शनादापतिताः पुनश्चादर्शनं गताः। न ते तव न तेषां त्वं तत्र का परिदेवना ॥११-२-८॥
हतोऽपि लभते स्वर्गं हत्वा च लभते यशः। उभयं नो बहुगुणं नास्ति निष्फलता रणे ॥११-२-९॥
तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पयिष्यति। इन्द्रस्यातिथयो ह्येते भवन्ति पुरुषर्षभ ॥११-२-१०॥
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया। स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ॥११-२-११॥
मातापितृसहस्राणि पुत्रदारशतानि च। संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥११-२-१२॥
शोकस्थानसहस्राणि भयस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥११-२-१३॥
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम। न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति ॥११-२-१४॥
अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः। आरोग्यं प्रियसंवासो गृध्येदेषु न पण्डितः ॥११-२-१५॥
न जानपदिकं दुःखमेकः शोचितुमर्हसि। अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥११-२-१६॥
अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम्। भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ॥ चिन्त्यमानं हि न व्येति भूयश्चापि विवर्धते ॥११-२-१७॥
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च। मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ॥११-२-१८॥
नार्थो न धर्मो न सुखं यदेतदनुशोचसि। न च नापैति कार्यार्थात्त्रिवर्गाच्चैव भ्रश्यते ॥११-२-१९॥
अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः। असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः ॥११-२-२०॥
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः। एतज्ज्ञानस्य सामर्थ्यं न बालैः समतामियात् ॥११-२-२१॥
शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति। अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥११-२-२२॥
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम्। तस्यां तस्यामवस्थायां तत्तत्फलमुपाश्नुते ॥११-२-२३॥