Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.003
Pancharatra and Core: Vidura's advice on the temporary nature of life.
धृतराष्ट्र उवाच॥
सुभाषितैर्महाप्राज्ञ शोकोऽयं विगतो मम। भुय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः ॥११-३-१॥
अनिष्टानां च संसर्गादिष्टानां च विवर्जनात्। कथं हि मानसैर्दुःखैः प्रमुच्यन्तेऽत्र पण्डिताः ॥११-३-२॥
विदुर उवाच॥
यतो यतो मनो दुःखात्सुखाद्वापि प्रमुच्यते। ततस्ततः शमं लब्ध्वा सुगतिं विन्दते बुधः ॥११-३-३॥
अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ। कदलीसंनिभो लोकः सारो ह्यस्य न विद्यते ॥११-३-४॥
गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः। कालेन विनियुज्यन्ते सत्त्वमेकं तु शोभनम् ॥११-३-५॥
यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु वै नरः। अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम् ॥११-३-६॥
वैचित्रवीर्य वासं हि दुःखं वा यदि वा सुखम्। प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा ॥११-३-७॥
कर्मणा प्राप्यते स्वर्गं सुखं दुःखं च भारत। ततो वहति तं भारमवशः स्ववशोऽपि वा ॥११-३-८॥
यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते। किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा ॥११-३-९॥
छिन्नं वाप्यवरोप्यन्तमवतीर्णमथापि वा। आर्द्रं वाप्यथ वा शुष्कं पच्यमानमथापि वा ॥११-३-१०॥
अवतार्यमाणमापाकादुद्धृतं वापि भारत। अथ वा परिभुज्यन्तमेवं देहाः शरीरिणाम् ॥११-३-११॥
गर्भस्थो वा प्रसूतो वाप्यथ वा दिवसान्तरः। अर्धमासगतो वापि मासमात्रगतोऽपि वा ॥११-३-१२॥
संवत्सरगतो वापि द्विसंवत्सर एव वा। यौवनस्थोऽपि मध्यस्थो वृद्धो वापि विपद्यते ॥११-३-१३॥
प्राक्कर्मभिस्तु भूतानि भवन्ति न भवन्ति च। एवं सांसिद्धिके लोके किमर्थमनुतप्यसे ॥११-३-१४॥
यथा च सलिले राजन्क्रीडार्थमनुसञ्चरन्। उन्मज्जेच्च निमज्जेच्च किञ्चित्सत्त्वं नराधिप ॥११-३-१५॥
एवं संसारगहनादुन्मज्जननिमज्जनात्। कर्मभोगेन बध्यन्तः क्लिश्यन्ते येऽल्पबुद्धयः ॥११-३-१६॥
ये तु प्राज्ञाः स्थिताः सत्ये संसारान्तगवेषिणः। समागमज्ञा भूतानां ते यान्ति परमां गतिम् ॥११-३-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.