Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.004
Pancharatra and Core: Vidura advises: In this impermanent world, whoever practices righteousness from birth and lives accordingly may attain the highest state.
धृतराष्ट्र उवाच॥
कथं संसारगहनं विज्ञेयं वदतां वर। एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः ॥११-४-१॥
विदुर उवाच॥
जन्मप्रभृति भूतानां क्रियाः सर्वाः शृणु प्रभो। पूर्वमेवेह कलले वसते किञ्चिदन्तरम् ॥११-४-२॥
ततः स पञ्चमेऽतीते मासे मांसं प्रकल्पयेत्। ततः सर्वाङ्गसम्पूर्णो गर्भो मासे प्रजायते ॥११-४-३॥
अमेध्यमध्ये वसति मांसशोणितलेपने। ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधःशिराः ॥११-४-४॥
योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति। योनिसम्पीडनाच्चैव पूर्वकर्मभिरन्वितः ॥११-४-५॥
तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान्। ग्रहास्तमुपसर्पन्ति सारमेया इवामिषम् ॥११-४-६॥
ततः प्राप्तोत्तरे काले व्याधयश्चापि तं तथा। उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः ॥११-४-७॥
बद्धमिन्द्रियपाशैस्तं सङ्गस्वादुभिरातुरम्। व्यसनान्युपवर्तन्ते विविधानि नराधिप ॥ बध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः ॥११-४-८॥
अयं न बुध्यते तावद्यमलोकमथागतम्। यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति ॥११-४-९॥
वाग्घीनस्य च यन्मात्रमिष्टानिष्टं कृतं मुखे। भूय एवात्मनात्मानं बध्यमानमुपेक्षते ॥११-४-१०॥
अहो विनिकृतो लोको लोभेन च वशीकृतः। लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते ॥११-४-११॥
कुलीनत्वेन रमते दुष्कुलीनान्विकुत्सयन्। धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन् ॥११-४-१२॥
मूर्खानिति परानाह नात्मानं समवेक्षते। शिक्षां क्षिपति चान्येषां नात्मानं शास्तुमिच्छति ॥११-४-१३॥
अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन्। जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम् ॥११-४-१४॥
एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते। स प्रमोक्षाय लभते पन्थानं मनुजाधिप ॥११-४-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.