Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.005
Pancharatra and Core: Vidura's allegory on the profound depths of worldly existence.
धृतराष्ट्र उवाच॥
यदिदं धर्मगहनं बुद्ध्या समनुगम्यते। एतद्विस्तरशः सर्वं बुद्धिमार्गं प्रशंस मे ॥११-५-१॥
विदुर उवाच॥
अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयम्भुवे। यथा संसारगहनं वदन्ति परमर्षयः ॥११-५-२॥
कश्चिन्महति संसारे वर्तमानो द्विजः किल। वनं दुर्गमनुप्राप्तो महत्क्रव्यादसङ्कुलम् ॥११-५-३॥
सिंहव्याघ्रगजाकारैरतिघोरैर्महाशनैः। समन्तात्सम्परिक्षिप्तं मृत्योरपि भयप्रदम् ॥११-५-४॥
तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम्। अभ्युच्छ्रयश्च रोम्णां वै विक्रियाश्च परन्तप ॥११-५-५॥
स तद्वनं व्यनुसरन्विप्रधावनितस्ततः। वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति ॥११-५-६॥
स तेषां छिद्रमन्विच्छन्प्रद्रुतो भयपीडितः। न च निर्याति वै दूरं न च तैर्विप्रयुज्यते ॥११-५-७॥
अथापश्यद्वनं घोरं समन्ताद्वागुरावृतम्। बाहुभ्यां सम्परिष्वक्तं स्त्रिया परमघोरया ॥११-५-८॥
पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः। नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम् ॥११-५-९॥
वनमध्ये च तत्राभूदुदपानः समावृतः। वल्लीभिस्तृणछन्नाभिर्गूढाभिरभिसंवृतः ॥११-५-१०॥
पपात स द्विजस्तत्र निगूढे सलिलाशये। विलग्नश्चाभवत्तस्मिँल्लतासन्तानसङ्कटे ॥११-५-११॥
पनसस्य यथा जातं वृन्तबद्धं महाफलम्। स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधःशिराः ॥११-५-१२॥
अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः। कूपवीनाहवेलायामपश्यत महागजम् ॥११-५-१३॥
षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम्। क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम् ॥११-५-१४॥
तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः। नानारूपा मधुकरा घोररूपा भयावहाः ॥ आसते मधु सम्भृत्य पूर्वमेव निकेतजाः ॥११-५-१५॥
भूयो भूयः समीहन्ते मधूनि भरतर्षभ। स्वादनीयानि भूतानां न यैर्बालोऽपि तृप्यते ॥११-५-१६॥
तेषां मधूनां बहुधा धारा प्रस्रवते सदा। तां लम्बमानः स पुमान्धारां पिबति सर्वदा ॥ न चास्य तृष्णा विरता पिबमानस्य सङ्कटे ॥११-५-१७॥
अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः। न चास्य जीविते राजन्निर्वेदः समजायत ॥११-५-१८॥
तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता। कृष्णाः श्वेताश्च तं वृक्षं कुट्टयन्ति स्म मूषकाः ॥११-५-१९॥
व्यालय्श्च वनदुर्गान्ते स्त्रिया च परमोग्रया। कूपाधस्ताच्च नागेन वीनाहे कुञ्जरेण च ॥११-५-२०॥
वृक्षप्रपाताच्च भयं मूषकेभ्यश्च पञ्चमम्। मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम् ॥११-५-२१॥
एवं स वसते तत्र क्षिप्तः संसारसागरे। न चैव जीविताशायां निर्वेदमुपगच्छति ॥११-५-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.