Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.006
Pancharatra-Ext: The allegory of the serpent, mice, well and wilderness explained.
धृतराष्ट्र उवाच॥
अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ। कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर ॥११-६-१॥
स देशः क्व नु यत्रासौ वसते धर्मसङ्कटे। कथं वा स विमुच्येत नरस्तस्मान्महाभयात् ॥११-६-२॥
एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तथा। कृपा मे महती जाता तस्याभ्युद्धरणेन हि ॥११-६-३॥
विदुर उवाच॥
उपमानमिदं राजन्मोक्षविद्भिरुदाहृतम्। सुगतिं विन्दते येन परलोकेषु मानवः ॥११-६-४॥
यत्तदुच्यति कान्तारं महत्संसार एव सः। वनं दुर्गं हि यत्त्वेतत्संसारगहनं हि तत् ॥११-६-५॥
ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः। या सा नारी बृहत्काया अधितिष्ठति तत्र वै ॥ तामाहुस्तु जरां प्राज्ञा वर्णरूपविनाशिनीम् ॥११-६-६॥
यस्तत्र कूपो नृपते स तु देहः शरीरिणाम्। यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः ॥ अन्तकः सर्वभूतानां देहिनां सर्वहार्यसौ ॥११-६-७॥
कूपमध्ये च या जाता वल्ली यत्र स मानवः। प्रताने लम्बते सा तु जीविताशा शरीरिणाम् ॥११-६-८॥
स यस्तु कूपवीनाहे तं वृक्षं परिसर्पति। षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः ॥ मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः ॥११-६-९॥
ये तु वृक्षं निकृन्तन्ति मूषकाः सततोत्थिताः। रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः ॥ ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः ॥११-६-१०॥
यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम्। तांस्तु कामरसान्विद्याद्यत्र मज्जन्ति मानवाः ॥११-६-११॥
एवं संसारचक्रस्य परिवृत्तिं स्म ये विदुः। ते वै संसारचक्रस्य पाशांश्छिन्दन्ति वै बुधाः ॥११-६-१२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.