11.007
Pancharatra-Ext: Allegory of chariot and how one can attain Brahman!
धृतराष्ट्र उवाच॥
अहोऽभिहितमाख्यानं भवता तत्त्वदर्शिना। भूय एव तु मे हर्षः श्रोतुं वागमृतं तव ॥११-७-१॥
विदुर उवाच॥
शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम्। यच्छ्रुत्वा विप्रमुच्यन्ते संसारेभ्यो विचक्षणाः ॥११-७-२॥
यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः। क्वचित्क्वचिच्छ्रमात्स्थाता कुरुते वासमेव वा ॥११-७-३॥
एवं संसारपर्याये गर्भवासेषु भारत। कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः ॥११-७-४॥
तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः। यत्तु संसारगहनं वनमाहुर्मनीषिणः ॥११-७-५॥
सोऽयं लोकसमावर्तो मर्त्यानां भरतर्षभ। चराणां स्थावराणां च गृध्येत्तत्र न पण्डितः ॥११-७-६॥
शारीरा मानसाश्चैव मर्त्यानां ये तु व्याधयः। प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः ॥११-७-७॥
क्लिश्यमानाश्च तैर्नित्यं हन्यमानाश्च भारत। स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः ॥११-७-८॥
अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप। आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी ॥११-७-९॥
शब्दरूपरसस्पर्शैर्गन्धैश्च विविधैरपि। मज्जमानं महापङ्के निरालम्बे समन्ततः ॥११-७-१०॥
संवत्सरर्तवो मासाः पक्षाहोरात्रसन्धयः। क्रमेणास्य प्रलुम्पन्ति रूपमायुस्तथैव च ॥११-७-११॥
एते कालस्य निधयो नैताञ्जानन्ति दुर्बुधाः। अत्राभिलिखितान्याहुः सर्वभूतानि कर्मणा ॥११-७-१२॥
रथं शरीरं भूतानां सत्त्वमाहुस्तु सारथिम्। इन्द्रियाणि हयानाहुः कर्म बुद्धिश्च रश्मयः ॥११-७-१३॥
तेषां हयानां यो वेगं धावतामनुधावति। स तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते ॥११-७-१४॥
यस्तान्यमयते बुद्ध्या स यन्ता न निवर्तते। याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः ॥११-७-१५॥
स चैतत्प्राप्नुते राजन्यत्त्वं प्राप्तो नराधिप। राज्यनाशं सुहृन्नाशं सुतनाशं च भारत ॥११-७-१६॥
अनुतर्षुलमेवैतद्दुःखं भवति भारत। साधुः परमदुःखानां दुःखभैषज्यमाचरेत् ॥११-७-१७॥
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः। तथोन्मोचयते दुःखाद्यथात्मा स्थिरसंयमः ॥११-७-१८॥
तस्मान्मैत्रं समास्थाय शीलमापद्य भारत। दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः ॥११-७-१९॥
शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे। त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति ॥११-७-२०॥