11.008
Pancharatra-Ext: Vyasa visits and consoles Dhritarashtra.
वैशम्पायन उवाच॥
विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः। पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः ॥११-८-१॥
तं तथा पतितं भूमौ निःसञ्ज्ञं प्रेक्ष्य बान्धवाः। कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा ॥११-८-२॥
सञ्जयः सुहृदश्चान्ये द्वाःस्था ये चास्य संमताः। जलेन सुखशीतेन तालवृन्तैश्च भारत ॥११-८-३॥
पस्पृशुश्च करैर्गात्रं वीजमानाश्च यत्नतः। अन्वासन्सुचिरं कालं धृतराष्ट्रं तथागतम् ॥११-८-४॥
अथ दीर्घस्य कालस्य लब्धसञ्ज्ञो महीपतिः। विललाप चिरं कालं पुत्राधिभिरभिप्लुतः ॥११-८-५॥
धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम्। यतोमूलानि दुःखानि सम्भवन्ति मुहुर्मुहुः ॥११-८-६॥
पुत्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि। प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो ॥११-८-७॥
येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति। येनाभिभूतः पुरुषो मरणं बहु मन्यते ॥११-८-८॥
तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात्। तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम ॥११-८-९॥
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम्। धृतराष्ट्रोऽभवन्मूढः शोकं च परमं गतः ॥ अभूच्च तूष्णीं राजासौ ध्यायमानो महीपते ॥११-८-१०॥
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः। पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत् ॥११-८-११॥
धृतराष्ट्र महाबाहो यत्त्वां वक्ष्यामि तच्छृणु। श्रुतवानसि मेधावी धर्मार्थकुशलस्तथा ॥११-८-१२॥
न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप। अनित्यतां हि मर्त्यानां विजानासि न संशयः ॥११-८-१३॥
अध्रुवे जीवलोके च स्थाने वाशाश्वते सति। जीविते मरणान्ते च कस्माच्छोचसि भारत ॥११-८-१४॥
प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः। पुत्रं ते कारणं कृत्वा कालयोगेन कारितः ॥११-८-१५॥
अवश्यं भवितव्ये च कुरूणां वैशसे नृप। कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् ॥११-८-१६॥
जानता च महाबाहो विदुरेण महात्मना। यतितं सर्वयत्नेन शमं प्रति जनेश्वर ॥११-८-१७॥
न च दैवकृतो मार्गः शक्यो भूतेन केनचित्। घटतापि चिरं कालं नियन्तुमिति मे मतिः ॥११-८-१८॥
देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम्। तत्तेऽहं सम्प्रवक्ष्यामि कथं स्थैर्यं भवेत्तव ॥११-८-१९॥
पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमः। अपश्यं तत्र च तदा समवेतान्दिवौकसः ॥ नारदप्रमुखांश्चापि सर्वान्देवऋषींस्तथा ॥११-८-२०॥
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते। कार्यार्थमुपसम्प्राप्ता देवतानां समीपतः ॥११-८-२१॥
उपगम्य तदा धात्री देवानाह समागतान्। यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा ॥ प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् ॥११-८-२२॥
तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः। उवाच प्रहसन्वाक्यं पृथिवीं देवसंसदि ॥११-८-२३॥
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै। दुर्योधन इति ख्यातः स ते कार्यं करिष्यति ॥ तं च प्राप्य महीपालं कृतकृत्या भविष्यसि ॥११-८-२४॥
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः। अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः ॥११-८-२५॥
ततस्ते भविता देवि भारस्य युधि नाशनम्। गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने ॥११-८-२६॥
स एष ते सुतो राजँल्लोकसंहारकारणात्। कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप ॥११-८-२७॥
अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः। दैवयोगात्समुत्पन्ना भ्रातरश्चास्य तादृशाः ॥११-८-२८॥
शकुनिर्मातुलश्चैव कर्णश्च परमः सखा। समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः ॥ एतमर्थं महाबाहो नारदो वेद तत्त्वतः ॥११-८-२९॥
आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते। मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् ॥११-८-३०॥
न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत। पुत्रास्तव दुरात्मानो यैरियं घातिता मही ॥११-८-३१॥
नारदेन च भद्रं ते पूर्वमेव न संशयः। युधिष्ठिरस्य समितौ राजसूये निवेदितम् ॥११-८-३२॥
पाण्डवाः कौरवाश्चैव समासाद्य परस्परम्। न भविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर ॥११-८-३३॥
नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः। एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् ॥११-८-३४॥
कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो। स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् ॥११-८-३५॥
एष चार्थो महाबाहो पूर्वमेव मया श्रुतः। कथितो धर्मराजस्य राजसूये क्रतूत्तमे ॥११-८-३६॥
यतितं धर्मपुत्रेण मया गुह्ये निवेदिते। अविग्रहे कौरवाणां दैवं तु बलवत्तरम् ॥११-८-३७॥
अनतिक्रमणीयो हि विधी राजन्कथञ्चन। कृतान्तस्य हि भूतेन स्थावरेण त्रसेन च ॥११-८-३८॥
भवान्कर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत। मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च ॥११-८-३९॥
त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः। ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् ॥११-८-४०॥
कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि। स कथं त्वयि राजेन्द्र कृपां वै न करिष्यति ॥११-८-४१॥
मम चैव नियोगेन विधेश्चाप्यनिवर्तनात्। पाण्डवानां च कारुण्यात्प्राणान्धारय भारत ॥११-८-४२॥
एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति। धर्मश्च सुमहांस्तात तप्तं स्याच्च तपश्चिरात् ॥११-८-४३॥
पुत्रशोकसमुत्पन्नं हुताशं ज्वलितं यथा। प्रज्ञाम्भसा महाराज निर्वापय सदा सदा ॥११-८-४४॥
एतच्छ्रुत्वा तु वचनं व्यासस्यामिततेजसः। मुहूर्तं समनुध्याय धृतराष्ट्रोऽभ्यभाषत ॥११-८-४५॥
महताशोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम। नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः ॥११-८-४६॥
इदं तु वचनं श्रुत्वा तव दैवनियोगजम्। धारयिष्याम्यहं प्राणान्यतिष्ये च नशोचितुम् ॥११-८-४७॥
एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः। धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत ॥११-८-४८॥