11.009
Core and Panchartara-Ext: King along with mourning women goes towards the battlefield.
जनमेजय उवाच॥
गते भगवति व्यासे धृतराष्ट्रो महीपतिः। किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥११-९-१॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा नरश्रेष्ठ चिरं ध्यात्वा त्वचेतनः। सञ्जयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत ॥११-९-२॥
क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः। वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः ॥११-९-३॥
एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम्। शोकविप्रहतज्ञानो यानमेवान्वपद्यत ॥११-९-४॥
गान्धारी चैव शोकार्ता भर्तुर्वचनचोदिता। सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत् ॥११-९-५॥
ताः समासाद्य राजानं भृशं शोकसमन्विताः। आमन्त्र्यान्योन्यमीयुः स्म भृशमुच्चुक्रुशुस्ततः ॥११-९-६॥
ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम्। अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात् ॥११-९-७॥
ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु। आकुमारं पुरं सर्वमभवच्छोककर्शितम् ॥११-९-८॥
अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि। पृथग्जनेन दृश्यन्त तास्तदा निहतेश्वराः ॥११-९-९॥
प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च। एकवस्त्रधरा नार्यः परिपेतुरनाथवत् ॥११-९-१०॥
श्वेतपर्वतरूपेभ्यो गृहेभ्यस्तास्त्वपाक्रमन्। गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः ॥११-९-११॥
तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः। शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गने ॥११-९-१२॥
प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि। दर्शयन्तीव ता ह स्म युगान्ते लोकसङ्क्षयम् ॥११-९-१३॥
विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः। शोकेनाभ्याहतज्ञानाः कर्तव्यं न प्रजज्ञिरे ॥११-९-१४॥
व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः। ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन् ॥११-९-१५॥
परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्स्म याः। ताः शोकविह्वला राजन्नुपैक्षन्त परस्परम् ॥११-९-१६॥
ताभिः परिवृतो राजा रुदतीभिः सहस्रशः। निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति ॥११-९-१७॥
शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः। ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः ॥११-९-१८॥
तासां विक्रोशमानानामार्तानां कुरुसङ्क्षये। प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत ॥११-९-१९॥
युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव। अभावः स्यादयं प्राप्त इति भूतानि मेनिरे ॥११-९-२०॥
भृशमुद्विग्नमनसस्ते पौराः कुरुसङ्क्षये। प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम् ॥११-९-२१॥