11.013
Core and Pancharatra: Sage Vyasa intervenes, understanding Gandhari's anger and her wish to curse the Pandavas.
वैशम्पायन उवाच॥
धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः। अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः ॥११-१३-१॥
ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम्। गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता ॥११-१३-२॥
तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति। ऋषिः सत्यवतीपुत्रः प्रागेव समबुध्यत ॥११-१३-३॥
स गङ्गायामुपस्पृश्य पुण्यगन्धं पयः शुचि। तं देशमुपसम्पेदे परमर्षिर्मनोजवः ॥११-१३-४॥
दिव्येन चक्षुषा पश्यन्मनसानुद्धतेन च। सर्वप्राणभृतां भावं स तत्र समबुध्यत ॥११-१३-५॥
स स्नुषामब्रवीत्काले कल्यवादी महातपाः। शापकालमवाक्षिप्य शमकालमुदीरयन् ॥११-१३-६॥
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि। रजो निगृह्यतामेतच्छृणु चेदं वचो मम ॥११-१३-७॥
उक्तास्यष्टादशाहानि पुत्रेण जयमिच्छता। शिवमाशास्स्व मे मातर्युध्यमानस्य शत्रुभिः ॥११-१३-८॥
सा तथा याच्यमाना त्वं काले काले जयैषिणा। उक्तवत्यसि गान्धारि यतो धर्मस्ततो जयः ॥११-१३-९॥
न चाप्यतीतां गान्धारि वाचं ते वितथामहम्। स्मरामि भाषमाणायास्तथा प्रणिहिता ह्यसि ॥११-१३-१०॥
सा त्वं धर्मं परिस्मृत्य वाचा चोक्त्वा मनस्विनि। कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि ॥११-१३-११॥
गान्धार्युवाच॥
भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः। पुत्रशोकेन तु बलान्मनो विह्वलतीव मे ॥११-१३-१२॥
यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया। यथैव धृतराष्ट्रेण रक्षितव्यास्तथा मया ॥११-१३-१३॥
दुर्योधनापराधेन शकुनेः सौबलस्य च। कर्णदुःशासनाभ्यां च वृत्तोऽयं कुरुसङ्क्षयः ॥११-१३-१४॥
नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः। नकुलः सहदेवो वा नैव जातु युधिष्ठिरः ॥११-१३-१५॥
युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम्। निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम ॥११-१३-१६॥
यत्तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः। दुर्योधनं समाहूय गदायुद्धे महामनाः ॥११-१३-१७॥
शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे। अधो नाभ्यां प्रहृतवांस्तन्मे कोपमवर्धयत् ॥११-१३-१८॥
कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः। त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चन ॥११-१३-१९॥