Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.014
Core and Pancharatra: In sprite of Bhima clarifying his acts against Duryodhana and Dushasana, Gandhari asks - "both of us are old and have lost our kingdom; how is it that even a single offspring has not been left for these two blind couple".
वैशम्पायन उवाच॥
तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत्। गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा ॥११-१४-१॥
अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः। आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि ॥११-१४-२॥
न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः। शक्यः केनचिदुद्यन्तुमतो विषममाचरम् ॥११-१४-३॥
सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान्। मां हत्वा न हरेद्राज्यमिति चैतत्कृतं मया ॥११-१४-४॥
राजपुत्रीं च पाञ्चालीमेकवस्त्रां रजस्वलाम्। भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव ॥११-१४-५॥
सुयोधनमसङ्गृह्य न शक्या भूः ससागरा। केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया ॥११-१४-६॥
तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत्। द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत् ॥११-१४-७॥
तत्रैव वध्यः सोऽस्माकं दुराचारोऽम्ब ते सुतः। धर्मराजाज्ञया चैव स्थिताः स्म समये तदा ॥११-१४-८॥
वैरमुद्धुक्षितं राज्ञि पुत्रेण तव तन्महत्। क्लेशिताश्च वने नित्यं तत एतत्कृतं मया ॥११-१४-९॥
वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे। राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः ॥११-१४-१०॥
गान्धार्युवाच॥
न तस्यैष वधस्तात यत्प्रशंससि मे सुतम्। कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि ॥११-१४-११॥
हताश्वे नकुले यत्तद्वृषसेनेन भारत। अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम् ॥११-१४-१२॥
सद्भिर्विगर्हितं घोरमनार्यजनसेवितम्। क्रूरं कर्माकरोः कस्मात्तदयुक्तं वृकोदर ॥११-१४-१३॥
भीमसेन उवाच॥
अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम्। यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन ॥११-१४-१४॥
रुधिरं न व्यतिक्रामद्दन्तोष्ठं मेऽम्ब मा शुचः। वैवस्वतस्तु तद्वेद हस्तौ मे रुधिरोक्षितौ ॥११-१४-१५॥
हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे। भ्रातॄणां सम्प्रहृष्टानां त्रासः सञ्जनितो मया ॥११-१४-१६॥
केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते। क्रोधाद्यदब्रुवं चाहं तच्च मे हृदि वर्तते ॥११-१४-१७॥
क्षत्रधर्माच्च्युतो राज्ञि भवेयं शास्वतीः समाः। प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् ॥११-१४-१८॥
न मामर्हसि गान्धारि दोषेण परिशङ्कितुम्। अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु ॥११-१४-१९॥
गान्धार्युवाच॥
वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः। कस्मान्न शेषयः कञ्चिद्येनाल्पमपराधितम् ॥११-१४-२०॥
सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः। कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता ॥११-१४-२१॥
शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वयि। न मे दुःखं भवेदेतद्यदि त्वं धर्ममाचरः ॥११-१४-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.