11.016
Pancharatra and Core: Gandhari observes the battlefield with the help of Krishna Dwaipayana's blessings and laments to Krishna regarding the horrors of the battlefield and regarding her slain sons and son-in-law.
वैशम्पायन उवाच॥
एवमुक्त्वा तु गान्धारी कुरूणामाविकर्तनम्। अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा ॥११-१६-१॥
पतिव्रता महाभागा समानव्रतचारिणी। उग्रेण तपसा युक्ता सततं सत्यवादिनी ॥११-१६-२॥
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः। दिव्यज्ञानबलोपेता विविधं पर्यदेवयत् ॥११-१६-३॥
ददर्श सा बुद्धिमती दूरादपि यथान्तिके। रणाजिरं नृवीराणामद्भुतं लोमहर्षणम् ॥११-१६-४॥
अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम्। शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः ॥११-१६-५॥
गजाश्वरथयोधानामावृतं रुधिराविलैः। शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः ॥११-१६-६॥
गजाश्वनरवीराणां निःसत्त्वैरभिसंवृतम्। सृगालबडकाकोलकङ्ककाकनिषेवितम् ॥११-१६-७॥
रक्षसां पुरुषादानां मोदनं कुरराकुलम्। अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम् ॥११-१६-८॥
ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः। पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः ॥११-१६-९॥
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम्। कुरुस्त्रियः समासाद्य जग्मुरायोधनं प्रति ॥११-१६-१०॥
समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः। अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन् ॥११-१६-११॥
क्रव्यादैर्भक्ष्यमाणान्वै गोमायुबडवायसैः। भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः ॥११-१६-१२॥
रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः। महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे ॥११-१६-१३॥
अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः। शरीरेष्वस्खलन्नन्या न्यपतंश्चापरा भुवि ॥११-१६-१४॥
श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना। पाञ्चालकुरुयोषाणां कृपणं तदभून्महत् ॥११-१६-१५॥
दुःखोपहतचित्ताभिः समन्तादनुनादितम्। दृष्ट्वायोधनमत्युग्रं धर्मज्ञा सुबलात्मजा ॥११-१६-१६॥
ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम्। कुरूणां वैशसं दृष्ट्वा दुःखाद्वचनमब्रवीत् ॥११-१६-१७॥
पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः। प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव ॥११-१६-१८॥
अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान्। पृथगेवाभ्यधावन्त पुत्रान्भ्रातॄन्पितॄन्पतीन् ॥११-१६-१९॥
वीरसूभिर्महाबाहो हतपुत्राभिरावृतम्। क्वचिच्च वीरपत्नीभिर्हतवीराभिराकुलम् ॥११-१६-२०॥
शोभितं पुरुषव्याघ्रैर्भीष्मकर्णाभिमन्युभिः। द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः ॥११-१६-२१॥
काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महात्मनाम्। अङ्गदैर्हस्तकेयूरैः स्रग्भिश्च समलङ्कृतम् ॥११-१६-२२॥
वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि। खड्गैश्च विमलैस्तीक्ष्णैः सशरैश्च शरासनैः ॥११-१६-२३॥
क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित्। क्वचिदाक्रीडमानैश्च शयानैरपरैः क्वचित् ॥११-१६-२४॥
एतदेवंविधं वीर सम्पश्यायोधनं विभो। पश्यमाना च दह्यामि शोकेनाहं जनार्दन ॥११-१६-२५॥
पाञ्चालानां कुरूणां च विनाशं मधुसूदन। पञ्चानामिव भूतानां नाहं वधमचिन्तयम् ॥११-१६-२६॥
तान्सुपर्णाश्च गृध्राश्च निष्कर्षन्त्यसृगुक्षितान्। निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः ॥११-१६-२७॥
जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः। अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति ॥११-१६-२८॥
अवध्यकल्पान्निहतान्दृष्ट्वाहं मधुसूदन। गृध्रकङ्कबडश्येनश्वसृगालादनीकृतान् ॥११-१६-२९॥
अमर्षवशमापन्नान्दुर्योधनवशे स्थितान्। पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव ॥११-१६-३०॥
शयनान्युचिताः सर्वे मृदूनि विमलानि च। विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते ॥११-१६-३१॥
बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः। शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः ॥११-१६-३२॥
ये पुरा शेरते वीराः शयनेषु यशस्विनः। चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते ॥११-१६-३३॥
तेषामाभरणान्येते गृध्रगोमायुवायसाः। आक्षिपन्त्यशिवा घोरा विनदन्तः पुनः पुनः ॥११-१६-३४॥
चापानि विशिखान्पीतान्निस्त्रिंशान्विमला गदाः। युद्धाभिमानिनः प्रीता जीवन्त इव बिभ्रति ॥११-१६-३५॥
सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः। ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः ॥११-१६-३६॥
अपरे पुनरालिङ्ग्य गदाः परिघबाहवः। शेरतेऽभिमुखाः शूरा दयिता इव योषितः ॥११-१६-३७॥
बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च। न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन ॥११-१६-३८॥
क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम्। शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः ॥११-१६-३९॥
एते गोमायवो भीमा निहतानां यशस्विनाम्। कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः ॥११-१६-४०॥
सर्वेष्वपररात्रेषु याननन्दन्त बन्दिनः। स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः ॥११-१६-४१॥
तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः। कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम् ॥११-१६-४२॥
रक्तोत्पलवनानीव विभान्ति रुचिराणि वै। मुखानि परमस्त्रीणां परिशुष्काणि केशव ॥११-१६-४३॥
रुदितोपरता ह्येता ध्यायन्त्यः सम्परिप्लुताः। कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः ॥११-१६-४४॥
एतान्यादित्यवर्णानि तपनीयनिभानि च। रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम् ॥११-१६-४५॥
आसामपरिपूर्णार्थं निशम्य परिदेवितम्। इतरेतरसङ्क्रन्दान्न विजानन्ति योषितः ॥११-१६-४६॥
एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च। विस्पन्दमाना दुःखेन वीरा जहति जीवितम् ॥११-१६-४७॥
बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च। पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः ॥११-१६-४८॥
शिरोभिः पतितैर्हस्तैः सर्वाङ्गैर्यूथशः कृतैः। इतरेतरसम्पृक्तैराकीर्णा भाति मेदिनी ॥११-१६-४९॥
विशिरस्कानथो कायान्दृष्ट्वा घोराभिनन्दिनः। मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च ॥११-१६-५०॥
शिरः कायेन सन्धाय प्रेक्षमाणा विचेतसः। अपश्यन्त्यो परं तत्र नेदमस्येति दुःखिताः ॥११-१६-५१॥
बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक्। संदधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनः पुनः ॥११-१६-५२॥
उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः। दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः ॥११-१६-५३॥
पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन। प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः ॥११-१६-५४॥
बाहुभिश्च सखड्गैश्च शिरोभिश्च सकुण्डलैः। अगम्यकल्पा पृथिवी मांसशोणितकर्दमा ॥११-१६-५५॥
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः। भ्रातृभिः पितृभिः पुत्रैरुपकीर्णां वसुन्धराम् ॥११-१६-५६॥
यूथानीव किशोरीणां सुकेशीनां जनार्दन। स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः ॥११-१६-५७॥
अतो दुःखतरं किं नु केशव प्रतिभाति मे। यदिमाः कुर्वते सर्वा रूपमुच्चावचं स्त्रियः ॥११-१६-५८॥
नूनमाचरितं पापं मया पूर्वेषु जन्मसु। या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च केशव ॥ एवमार्ता विलपती ददर्श निहतं सुतम् ॥११-१६-५९॥