11.015
Core and Pancharatra: Pandavas, Kunti, Draupadi, Gandhari, and Dhritarashta reconcile and mourn their dear ones.
वैशम्पायन उवाच॥
एवमुक्त्वा तु गान्धारी युधिष्ठिरमपृच्छत। क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता ॥११-१५-१॥
तामभ्यगच्छद्राजेन्द्रो वेपमानः कृताञ्जलिः। युधिष्ठिर इदं चैनां मधुरं वाक्यमब्रवीत् ॥११-१५-२॥
पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः। शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम् ॥११-१५-३॥
न हि मे जीवितेनार्थो न राज्येन धनेन वा। तादृशान्सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः ॥११-१५-४॥
तमेवंवादिनं भीतं संनिकर्षगतं तदा। नोवाच किञ्चिद्गान्धारी निःश्वासपरमा भृशम् ॥११-१५-५॥
तस्यावनतदेहस्य पादयोर्निपतिष्यतः। युधिष्ठिरस्य नृपतेर्धर्मज्ञा धर्मदर्शिनी ॥ अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा ॥११-१५-६॥
ततः स कुनकीभूतो दर्शनीयनखो नृपः। तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः ॥११-१५-७॥
एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत। गान्धारी विगतक्रोधा सान्त्वयामास मातृवत् ॥११-१५-८॥
तया ते समनुज्ञाता मातरं वीरमातरम्। अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः ॥११-१५-९॥
चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता। बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम् ॥११-१५-१०॥
ततो बाष्पं समुत्सृज्य सह पुत्रैस्तथा पृथा। अपश्यदेताञ्शस्त्रौघैर्बहुधा परिविक्षतान् ॥११-१५-११॥
सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनः पुनः। अन्वशोचन्त दुःखार्ता द्रौपदीं च हतात्मजाम् ॥ रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि ॥११-१५-१२॥
द्रौपद्युवाच॥
आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः। न त्वां तेऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम् ॥ किं नु राज्येन वै कार्यं विहीनायाः सुतैर्मम ॥११-१५-१३॥
वैशम्पायन उवाच॥
तां समाश्वासयामास पृथा पृथुललोचना। उत्थाप्य याज्ञसेनीं तु रुदतीं शोककर्शिताम् ॥११-१५-१४॥
तयैव सहिता चापि पुत्रैरनुगता पृथा। अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम् ॥११-१५-१५॥
तामुवाचाथ गान्धारी सह वध्वा यशस्विनीम्। मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम् ॥११-१५-१६॥
मnye लोकविनाशोऽयं कालपर्यायचोदितः। अवश्यभावी सम्प्राप्तः स्वभावाल्लोमहर्षणः ॥११-१५-१७॥
इदं तत्समनुप्राप्तं विदुरस्य वचो महत्। असिद्धानुनये कृष्णे यदुवाच महामतिः ॥११-१५-१८॥
तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः। मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः ॥११-१५-१९॥
यथैव त्वं तथैवाहं को वा माश्वासयिष्यति। ममैव ह्यपराधेन कुलमग्र्यं विनाशितम् ॥११-१५-२०॥