Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.017
Pancharatra and Core: Gandhari continues her lamentation, addressed to Lord Krishna.
वैशम्पायन उवाच॥
ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता। सहसा न्यपतद्भूमौ छिन्नेव कदली वने ॥११-१७-१॥
सा तु लब्ध्वा पुनः सञ्ज्ञां विक्रुश्य च पुनः पुनः। दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् ॥११-१७-२॥
परिष्वज्य च गान्धारी कृपणं पर्यदेवयत्। हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया ॥११-१७-३॥
सुगूढजत्रु विपुलं हारनिष्कनिषेवितम्। वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता ॥ समीपस्थं हृषीकेशमिदं वचनमब्रवीत् ॥११-१७-४॥
उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां सङ्क्षये विभो। मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः ॥ अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे ॥११-१७-५॥
इत्युक्ते जानती सर्वमहं स्वं व्यसनागमम्। अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः ॥११-१७-६॥
यथा न युध्यमानस्त्वं सम्प्रमुह्यसि पुत्रक। ध्रुवं शस्त्रजिताँल्लोकान्प्राप्तास्यमरवद्विभो ॥११-१७-७॥
इत्येवमब्रुवं पूर्वं नैनं शोचामि वै प्रभो। धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् ॥११-१७-८॥
अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम्। शयानं वीरशयने पश्य माधव मे सुतम् ॥११-१७-९॥
योऽयं मूर्धावसिक्तानामग्रे याति परन्तपः। सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम् ॥११-१७-१०॥
ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः। तथा ह्यभिमुखः शेते शयने वीरसेविते ॥११-१७-११॥
यं पुरा पर्युपासीना रमयन्ति महीक्षितः। महीतलस्थं निहतं गृध्रास्तं पर्युपासते ॥११-१७-१२॥
यं पुरा व्यजनैरग्र्यैरुपवीजन्ति योषितः। तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः ॥११-१७-१३॥
एष शेते महाबाहुर्बलवान्सत्यविक्रमः। सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः ॥११-१७-१४॥
पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम्। निहतं भीमसेनेन गदामुद्यम्य भारत ॥११-१७-१५॥
अक्षौहिणीर्महाबाहुर्दश चैकां च केशव। अनयद्यः पुरा सङ्ख्ये सोऽनयान्निधनं गतः ॥११-१७-१६॥
एष दुर्योधनः शेते महेष्वासो महारथः। शार्दूल इव सिंहेन भीमसेनेन पातितः ॥११-१७-१७॥
विदुरं ह्यवमन्यैष पितरं चैव मन्दभाक्। बालो वृद्धावमानेन मन्दो मृत्युवशं गतः ॥११-१७-१८॥
निःसपत्ना मही यस्य त्रयोदश समाः स्थिता। स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः ॥११-१७-१९॥
अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात्। पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच्चिरम् ॥११-१७-२०॥
तामेवाद्य महाबाहो पश्याम्यन्यानुशासनात्। हीनां हस्तिगवाश्वेन किं नु जीवामि माधव ॥११-१७-२१॥
इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान्मम। यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः ॥११-१७-२२॥
प्रकीर्णकेशां सुश्रोणीं दुर्योधनभुजाङ्कगाम्। रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम् ॥११-१७-२३॥
नूनमेषा पुरा बाला जीवमाने महाभुजे। भुजावाश्रित्य रमते सुभुजस्य मनस्विनी ॥११-१७-२४॥
कथं तु शतधा नेदं हृदयं मम दीर्यते। पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे ॥११-१७-२५॥
पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता। दुर्योधनं तु वामोरूः पाणिना परिमार्जति ॥११-१७-२६॥
किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी। तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा ॥११-१७-२७॥
स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा। पतत्युरसि वीरस्य कुरुराजस्य माधव ॥११-१७-२८॥
पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा। मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी ॥११-१७-२९॥
यदि चाप्यागमाः सन्ति यदि वा श्रुतयस्तथा। ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान् ॥११-१७-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.